摩诃婆罗多 · 章 5.68
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.68.1
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् ।
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय ॥ ५.६८.१ ॥
你如何认识摩陀婆(Mādhava),那一切世界的大自在者?我为何不认识他?请告诉我,桑遮耶。
5.68.2
श्रृणु राजन्न ते विद्या मम विद्या न हीयते ।
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ॥ ५.६८.२ ॥
请听,大王:那种知识不属于你,而我的知识并不减少。缺乏知识、被黑暗笼罩的人,不认识羯沙婆(Keśava)。
5.68.3
विद्यया तात जानामि त्रियुगं मधुसूदनम् ।
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ॥ ५.६८.३ ॥
亲爱的,凭借知识,我在三个时代中认识摩杜苏陀那(Madhusūdana):他是创造者,自身无所造作,是神,是众生的生起与灭尽。
5.68.4
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने ।
यया त्वमभिजानासि त्रियुगं मधुसूदनम् ॥ ५.६८.४ ॥
羯婆尔迦那(Gāvalgaṇa),你对遮那陀那(Janārdana)那恒常的虔信是什么?凭借它,你得以在三个时代中认识摩杜苏陀那?
5.68.5
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे ।
शुद्धभावं गतो भक्त्या शास्त्रद्वेद्मि जनार्दनम् ॥ ५.६८.५ ॥
愿你吉祥。我不行欺诈,也不徒然造作不法。已得清净之心,我借虔信与经典而认识遮那陀那。
5.68.6
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् ।
आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम् ॥ ५.६८.६ ॥
杜尔约陀那,请皈依遮那陀那——须弥克舍(Hṛṣīkeśa)。桑遮耶是我们可信赖之人,亲爱的孩子;去羯沙婆的庇护之下吧。
5.68.7
भगवान्देवकीपुत्रो लोकांश्चेन्निहनिष्यति ।
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ॥ ५.६८.७ ॥
若尊贵的提婆吉之子与阿周那谈论友谊而毁灭诸世界,我今日便不去见凯沙瓦。
5.68.8
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः ।
ईर्षुर्दुरात्मा मानी च श्रेयसां वचनातिगः ॥ ५.६८.८ ॥
甘陀丽啊,你的儿子正在前去,此人极其愚昧。他嫉妒、心术邪恶、骄傲,违背了有益的言语。
5.68.9
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग ।
ऐश्वर्यजीतिते हित्वा पितरं मां च बालिश ॥ ५.६८.९ ॥
你这贪求权势、心术邪恶、违背长辈命令的人!为了征服权势而抛弃父亲和我,愚蠢的人啊!
5.68.10
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् ।
निहतो भीमसेनेन स्मर्ताति वचनं पितुः ॥ ५.६८.१० ॥
增添恶意敌人的欢喜,增添我的悲痛,被怖军所杀之后,你将想起父亲的话。
5.68.11
प्रियोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे ।
यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते ॥ ५.६८.११ ॥
大王持国啊,你为黑天所爱。请听我言。你的使者散阇耶将引导你走向善道。
5.68.12
जानात्येष हृषीकेशं पुराणं यच्च वै परम् ।
शुश्रूषमाणमैकाग्र्यं मोक्ष्यते महतो भयात् ॥ ५.६८.१२ ॥
此散阇耶知晓那古老而至上的希利史迦(黑天)。专心一意地侍奉,他将从大恐惧中解脱。
5.68.13
वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः ।
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ॥ ५.६८.१३ ॥
毗其特拉维利雅之子啊!被愤怒与喜悦所笼罩、被种种绳索束缚的人们,不满足于自己的财富。
5.68.14
यमस्य वशमायान्ति काममूढाः पुनः पुनः ।
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ॥ ५.६८.१४ ॥
被欲望迷惑的人们一次又一次落入阎摩的掌控,就像被自己的行为牵引的盲人。
5.68.15
एष एकायनः पन्था येन यान्ति मनीषिणः ।
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सञ्जति ॥ ५.६८.१५ ॥
这是智者所走的唯一之路。见到它的伟人超越死亡,并不在那里执着。
5.68.16
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम् ।
येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम् ॥ ५.६८.१६ ॥
桑闪耶啊,请告诉我那条无所畏惧之路,我沿之前行,便可获得希利希刻舍,并得到至上的成就。
5.68.17
नाकृतात्मा कृतात्मानं जातु विद्याञ्जनार्दनम् ।
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ॥ ५.६८.१७ ॥
自我未经修炼的人,永远无法认识已修炼之人——阇那陀那。对于自我而言,除了制约感官,别无行动之道。
5.68.18
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः ।
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ॥ ५.६८.१८ ॥
对于躁动的感官舍弃欲望,乃是由于不放逸而来。不放逸与不害,无疑是智慧之源。
5.68.19
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः ।
बुद्धिश्च ते मा च्युवतु नियच्छैनां यतस्ततः ॥ ५.६८.१९ ॥
君王啊,应勤勉不懈地克制诸根。愿你的智慧不致偏离;它游荡到哪里,就从哪里把它收束住。
5.68.20
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् ।
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ॥ ५.६८.२० ॥
智者婆罗门称此为智慧:坚定地执持诸根。这便是智慧,也是贤哲们所行的道路。
5.68.21
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः ।
आगमाधिगमाद्योगाद्वशी तत्त्वे प्रसीदति ॥ ५.६८.२१ ॥
君王啊,对于诸根未被制伏的人,克舍婆是无法证得的。自制之人借由圣典的学习与瑜伽,便在真实之中欢喜。