Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.1.1

श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वती चैव ततो जयमुदीरयेत् ।
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः ।
पार्थिवाश्च महात्मानो नानादेशसमागताः । ॥ ६.१.१ ॥

敬礼尊贵的毗耶娑。向那罗延和人中最上的那罗,以及女神娑罗室伐底致敬之后,应当宣说《胜利》。库鲁、般度和索摩迦的英雄们如何作战?从各地聚集而来的伟大心灵的诸王如何战斗?

6.1.2

यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः ।
कुरुक्षेत्रे तपः क्षेत्रे श्रृणु त्वं पृथिवीपते ॥ ६.१.२ ॥

地上之主啊,请听:库鲁、般度和索摩迦的英雄们如何在苦行之地俱卢田作战。

6.1.3

तेऽवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः ।
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ॥ ६.१.३ ॥

般度之子与索摩迦一同降临俱卢田,渴望获胜,向大力的俱卢族人进军。

6.1.4

वेदाध्ययनसंपन्नाः सर्वे युध्दाभिनन्दिनः ।
आश्ंसन्तो जयं युध्दे बलेनाभिमुखा रणे ॥ ६.१.४ ॥

他们都精通吠陀学习,热爱战斗,期望胜利,率领军队在战场上彼此对峙。

6.1.5

अभियाय च दुर्धर्षा धार्तराष्ट्रस्य वाहिनीम ।
प्रामुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ॥ ६.१.५ ॥

不可战胜的般度诸子进攻持国诸子的军队,带领士兵面向前方,在西面扎营。

6.1.6

स्यमन्तपञ्चकाद्वाह्यं शिविराणि सहस्रशः ।
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥ ६.१.६ ॥

在三曼陀般遮迦之外,贡蒂之子坚战依法令建造了数以千计的营帐。

6.1.7

शून्येव पृथिवी सर्वाअ बालवृध्दावशेषिता ।
निरश्वपुरुषेवासीद्रथक्कुञ्जरवर्जिता ॥ ६.१.७ ॥

大地仿佛完全空寂,只剩下孩童与老人,没有马匹、战士、战车和象群。

6.1.8

यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् ।
तावदेव समावृत्तं बलं पार्थिवसत्तम ॥ ६.१.८ ॥

太阳照耀赡部洲的疆域所及之处,哦,最好的国王,军队便遍布到那里。

6.1.9

एकस्याः सर्ववर्णास्ते मण्डलं बहुयोजनम् ।
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥ ६.१.९ ॥

这片大地上的所有种姓,在绵延数百由旬的疆域中散开,穿越国土、河流、山岳与森林。

6.1.10

तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ ।
व्यादिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥ ६.१.१० ॥

人中雄牛啊,国王坚战下令,为所有人及其坐骑准备最上等的食物和饮料。

6.1.11

संज्ञाश्च विविघास्तात् तेषां चक्रे युधिष्ठिरः ।
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥ ६.१.११ ॥

亲爱的,坚战为他们设立了各种标识,使人知道:此人是般度之子,此人便是如此言说的人。

6.1.12

अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च ।
योजयामास कौरव्यो युध्दकाल उपस्थिते ॥ ६.१.१२ ॥

战斗时刻到来时,俱卢族的坚战为所有人分配了识别的标记、徽号与饰物。

6.1.13

दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः ।
सहसर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम् ॥ ६.१.१३ ॥

见到般度之子(阿周那)旗帜的顶端,心胸宽广的持国之子与众王一同列阵迎击般度五子。

6.1.14

पाण्डरेणातपत्रेण धियमाणेन मूर्धनि ।
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः ॥ ६.१.१४ ॥

头顶撑着白伞,他置身于千头象之中,被众兄弟环绕。

6.1.15

दृष्ट्वा दुर्योधनं हृष्टाः पाञ्चाला युध्दनन्दिनः ।
दध्मुः प्रीता महाशङ्खान्भेरीर्जध्रुः सहस्रशः ॥ ६.१.१५ ॥

看见难敌,好战的般遮罗人欢喜不已,吹响大法螺,成千上万面鼓齐鸣。

6.1.16

ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः ।
वभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥ ६.१.१६ ॥

于是,般度五子见自己的军队欢欣鼓舞,心中也喜悦起来,英勇的婆薮提婆(黑天)亦然。

6.1.17

स्वयोधान्हर्षयन्तौ च वासुदेवघनञ्चयौ ।
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥ ६.१.१७ ॥

鼓舞着自己的战士,婆薮提婆与财主(阿周那)——站在战车上的那两位人中虎——吹响了神圣的法螺。

6.1.18

पाञ्चजन्यस्य शङ्खस्य देवदत्तस्य चोभयोः ।
श्रुत्वा तु निनदं योघाः शकृन्मूत्रं प्रसुस्त्रुवुः ॥ ६.१.१८ ॥

听到般遮娜雅与天授两螺的巨响,战士们竟然大小便失禁。

6.1.19

यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः ।
त्रसेयुर्निनदं श्रुत्वा तथाऽसीदत तद्लम् ॥ ६.१.१९ ॥

如同其他鹿听到咆哮的狮子的吼声便惊恐万分,那支军队听到这吼声也都颓然失色。

6.1.20

उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ।
असं गत इवादित्यः सैन्येन रजसा वृतः ॥ ६.१.२० ॥

大地扬起尘土,什么也看不清;太阳被大军的尘埃遮蔽,仿佛已经落下。

6.1.21

ववर्प तत्र पर्जन्यो मांसशोणितवृष्टिमान् ।
व्युक्षन्सर्वाणि सैन्यानि तदद्भुतमिवाभवत् ॥ ६.१.२१ ॥

那里降下一场血肉之雨,浇灌了所有军队;这情景令人惊异。

6.1.22

वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः ।
विनिध्नंस्तान्यनीकानि शतशोऽथ सहस्रशः ॥ ६.१.२२ ॥

接着,一阵低沿地面吹过的风卷起沙石而起,成百上千地打倒了军中的各部。

6.1.23

उभे सैन्ये च राजेन्द्र युध्दाय मुदिते भृशम् ।
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥ ६.१.२३ ॥

众王之主啊!两军都急切地渴望战斗,立于俱卢之野,如同翻涌的大海。

6.1.24

तयोस्तु सेनयोरासीदद्भुतः स तु संगमः ।
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥ ६.१.२४ ॥

两军相遇的景象何其奇异,仿佛世界末期两海相会。

6.1.25

शून्याऽऽसीत्पृथिवी सर्वा वृध्दबालावशेषिता ।
निरश्वपुरुषेवासीद्रथकुञ्चरवर्जिता ।
तेन सेनासमूहेन समानीतेन कौरवैः ॥ ६.१.२५ ॥

由于考拉瓦人召集的那支大军,整个大地变得空无一人,只剩下老人和孩子;马匹和男人都已不见,战车和象群也消失了。

6.1.26

ततस्ते समयं चक्रुः कुरुपाण्डावसोमकाः ।
धर्मन्संस्थापयामासुर्युध्दानां भरतर्षभ ॥ ६.१.२६ ॥

于是俱卢、般度与索摩迦人立下约定,婆罗多族的雄牛啊,他们确立了战争的法则。

6.1.27

निवृत्ते विहिते युध्दे स्यात्प्रीतिर्नः परस्परम् ।
यथापरं यथायोगं न च स्यात्कस्याचित्पुनः ॥ ६.१.२७ ॥

战斗停止、安排妥当之后,我们之间应当彼此和睦,依次而行,各按其宜;此后不要再与任何人交战。

6.1.28

वाचा युध्दे प्रव्रुत्तानां वाचैव प्रतियोधनम् ।
निष्क्रान्ताः पृतनामध्यान्नहन्तव्याः कदाचन ॥ ६.१.२८ ॥

参与战斗的人,只应以言语回应;已从军阵之中走出的人,永远不可杀害。

6.1.29

रथी च रथिना योध्यो गजेन गक्षधूर्गतः ।
अश्वेनाश्वी पदातिश्च पादातेनैव भारत ॥ ६.१.२९ ॥

车战者应与车战者交战,已到象阵前列者应与象兵交战;骑兵与骑兵,步兵只与步兵交战,婆罗多啊。

6.1.30

यथायोगं यथाकामं यथोत्साहं यथाबलम् ।
समाभाप्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥ ६.१.३० ॥

应依其所宜、依其所愿、依其热情、依其力量,先向敌人挑战然后出击;不可攻击毫无戒备者,也不可攻击慌乱者。

6.1.31

परेण सह संयुक्तः प्रमत्तो विमुखस्तथा ।
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन ॥ ६.१.३१ ॥

与敌交战者、疏忽者、转身背对者、兵器已尽者或无甲者,永远不可击打。

6.1.32

न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु ।
न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन ॥ ६.१.३२ ॥

无论如何不可打击御者、驾车之牲畜、持兵器者,或击鼓吹螺者。

6.1.33

एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः ।
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥ ६.१.३३ ॥

如此立下约定之后,库鲁、般度与索摩迦的人彼此注视,极为惊异。

6.1.34

निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः ।
हृष्टरुपाःसृमनसोबभूवुःसहसैनिकाः ॥ ६.१.३४ ॥

随后,那些伟大的人中之牛与士兵一同坐下,面露喜色,心意欢悦。