摩诃婆罗多 · 章 6.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.11.1
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय ।
विष्कम्भमस्य प्रब्रूहि परिमाणं तु तत्त्वतः ॥ ६.११.१ ॥
桑闍耶,你在此如实讲述了閻浮洲。现在请按实情告诉我它的宽广与尺度。
6.11.2
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम् ।
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ॥ ६.११.२ ॥
桑闍耶,请将大海的尺度与其完整无误的描述告诉我,也请告诉我沙迦洲与拘舍洲。
6.11.3
शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च ।
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥ ६.११.३ ॥
乾婆犁迦啊,请如实讲述舍摩利洲与鹤洲,一切都告诉我,并讲罗睺、月与日的情形。
6.11.4
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत् ।
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा ॥ ६.११.४ ॥
大王,此世界所遍布的洲岛甚多。我将讲述七洲,以及月、日与罗睺星。
6.11.5
अष्टादश सहस्राणि योजनानि विशांपते ।
षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥ ६.११.५ ॥
人主啊,閻浮山的宽广整整为一万八千六百由旬。
6.11.6
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः ।
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥ ६.११.६ ॥
咸海的宽广,记载为两倍;它遍布众多国土,以宝石与珊瑚装饰。
6.11.7
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः ।
सिद्धचारणसंकीर्णः सागरः परिमण्डलः ॥ ६.११.७ ॥
此海以众多彩色矿物构成的山脉为饰,充满悉陀与遮罗那,呈环形。
6.11.8
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव ।
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥ ६.११.८ ॥
大王,我现在将如实叙述沙迦洲。库鲁之喜,请依理听我所说。
6.11.9
जम्बूद्वीपपरमाणेन द्विगुणः स नराधिप ।
विष्कम्भेण महाराज सागरोऽपि विभागशः ॥ ६.११.९ ॥
人王啊,其大小为阎浮洲的两倍。大王啊,此海亦按分段而宽广相同。
6.11.10
क्षीरोदो भरतश्रेष्ठ येन संपरिवारिताः ।
तत्र पुण्या जनपदास्तत्र न म्रियते जनः।
कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ॥ ६.११.१० ॥
婆罗多最优秀者啊,它们被乳海环绕。那里的福地无人死亡;具备忍耐与光辉的人们,又怎会有饥荒?
6.11.11
शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ ।
उक्त एष महाराज किमन्यत्कथयामि ते ॥ ६.११.११ ॥
婆罗多之雄啊,沙迦洲的这个概要已如实说明。大王啊,我还能再说什么?
6.11.12
शाकद्वीपस्य संक्षेपो यथावदिह सञ्जय ।
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ॥ ६.११.१२ ॥
sañjaya啊,你在这里已如实叙述了沙迦洲的概要。大智者啊,现在请依真实之义详细叙说。
6.11.13
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः ।
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ॥ ६.११.१३ ॥
大王,此处同样有七座以宝石装饰的山,还有宝藏之海与河流。请听我说它们的名字。
6.11.14
अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप ॥ ६.११.१४ ॥
人主啊,那里的一切都极其美善而神圣。
6.11.15
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते ।
प्रागायतो महाराज मलयो नाम पर्वतः ॥ ६.११.१५ ॥
第一座山与天神、天仙及乾闼婆相伴,名为须弥山。大王,有一座名为摩罗耶的山,向东延伸。
6.11.16
ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ।
ततः परेण कौरव्य जलधारो महागिरिः ॥ ६.११.१६ ॥
由彼处云起,四面聚集。俱卢之后啊,其外有名为水流的大山。
6.11.17
ततो नित्युमुपादत्ते वासवः परमं जलम् ।
ततो वर्षं प्रभवति वर्षकाले जनेश्वर ॥ ६.११.१७ ॥
由彼处,婆娑婆(因陀罗)常取上等之水。然后在雨季降下雨水,人主啊。
6.11.18
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठिता ।
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥ ६.११.१८ ॥
有高大的莱瓦塔卡山,那里天上恒有名为优婆提的星宿;此定则由祖父(梵天)所立。
6.11.19
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः ।
नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः ।
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥ ६.११.१९ ॥
王中之王啊,北方有一座名为Śyāma的大山,如新云般光亮,高耸、庄严,形体明亮。诸国之主啊,正因此山,众民才变得黝黑。
6.11.20
सुमहान्संशयो मेऽद्य प्रोक्तोऽयं सञ्जय त्वया ।
प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह ॥ ६.११.२० ॥
Sañjaya啊,你刚才所说的使我生起了极大的疑惑。御者之子啊,这里的民众是如何变得黝黑的?
6.11.21
सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन ।
गौरः कृष्णश्च पतगस्तयोर्वर्णान्तरे नृप ॥ ६.११.२१ ॥
大王啊,库卢之喜啊,在所有大洲都有白与黑的肤色;国王啊,这两种颜色之间是有差别的。
6.11.22
श्यामो यस्मात्प्रवृत्तो वै तस्माच्छ्यामो गिरिःस्मृतः ॥ ६.११.२२ ॥
因为黝黑从它而生,所以那座山被称为Śyāma。
6.11.23
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः ।
केसरः केसरयुतो यतो वातः प्रवर्तते ॥ ६.११.२३ ॥
再往那边,库卢之主啊,有高耸的堡垒山Durgaśaila,名为Kesara,满布鬃毛,风从那里吹来。
6.11.24
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः ।
वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः ॥ ६.११.२४ ॥
它们的宽度以由多那计,逐段加倍。库鲁后裔啊,其中智者宣说有七个区域。
6.11.25
महामेरुर्महाकाशो जलदः कुमुदोत्तरः ।
जलधारो महाराज सुकुमार इति स्मृतः ॥ ६.११.२५ ॥
大王啊,大须弥、大虚空、云施、睡莲之北、水流与善生,据传即是如此。
6.11.26
रेवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः ।
केसरस्याथ मौदाकी परेण तु महापुमान् ॥ ६.११.२६ ॥
属于瑞瓦塔的是考玛拉;属于夏玛的是摩尼金光;属于凯萨拉的是随后的摩陀基;其外则是大人。
6.11.27
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च ।
जम्बूद्वीपेन संक्यातस्तस्य मध्ये महाद्रुमः ॥ ६.११.२७ ॥
科罗婆啊,它环绕之;其长短以阎浮洲计量;其中心有一棵大树。
6.11.28
शाको नाम महाराज प्रजा तस्य सदानुगा ।
तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः ॥ ६.११.२८ ॥
大王啊,其名为舍迦;其民恒常追随。彼处有清净之国,彼处礼拜湿婆。
6.11.29
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च ।
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥ ६.११.२९ ॥
彼处有成就者、天界歌者与诸神往来;大王啊,婆罗多,彼处之民极为有德——四姓皆然。
6.11.30
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते ।
दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥ ६.११.३० ॥
各姓皆专心本分之事,彼处不见盗贼。大王啊,彼等寿命长久,无老无死。
6.11.31
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः ।
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता ॥ ६.११.३१ ॥
那里的人民如同雨季流向大海的河流般兴旺;那里有清净水流的河川,还有分成多股流淌的恒河。
6.11.32
सुकुमारी कुमारी च शीताशी वेणिका तथा ।
महानदी च कौरव्य तथा मणिजला नदी ॥ ६.११.३२ ॥
苏库玛丽、库玛丽、悉塔西、韦妮卡、大河,俄,俱卢之裔,还有摩尼恒河。
6.11.33
चक्षुर्वर्धनिका चैव नदी भरतसत्तम ।
तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ॥ ६.११.३३ ॥
还有眼增河,婆罗多族中最优秀的人啊。那里流淌着清净水流的河川,俱卢族的支柱啊。
6.11.34
सहस्राणां शतान्येव यतो वर्षति वासवः ।
न तासां नामधेयानि परिमाणं तथैव च ॥ ६.११.३४ ॥
成千上百,因陀罗(婆娑婆)降雨之处;它们的名称与大小同样无法计数。
6.11.35
शक्यन्ते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ।
तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः ॥ ६.११.३५ ॥
那些神圣的最佳河流无法全部计数。那里有四个为世人所尊崇的圣地。
6.11.36
मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा ।
मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ॥ ६.११.३६ ॥
还有芒迦人、摩舍迦人、摩那萨人,以及曼陀迦人。大王啊,芒迦人中大多是婆罗门,他们都专心于自己的本分。
6.11.37
मशकेषु च राजन्या धार्मिकाः सर्वकामदाः ।
मानसाश्च महाराज वैश्यधर्मोपजीविनः ॥ ६.११.३७ ॥
在马沙迦人中,刹帝利正直,能满足一切愿望;大王啊,曼那萨人以吠舍的本分为生。
6.11.38
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ।
शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः ॥ ६.११.३८ ॥
拥有一切愿望,勇敢,坚定于法与财富;但首陀罗总是行动缓慢,是品性正直之人。
6.11.39
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः ।
स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥ ६.११.३९ ॥
在那里,诸王之主啊,没有国王,没有刑罚,也没有施刑者;通晓法者仅凭自身的法相互守护。
6.11.40
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम् ।
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ॥ ६.११.४० ॥
关于那个岛,只能说这么多;而关于威力强大的沙迦洲,只应听闻这些。