摩诃婆罗多 · 章 6.121
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.121.1
व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः ।
पाण्डवा धार्तराष्ट्राश्च उपातिष्ठन्पितामहम् ॥ ६.१२१.१ ॥
黎明时分,大王啊,所有国王、般度之子与持国之子都前往祖父身边。
6.121.2
तं वीरशयने वीरं शयानं कुरुसत्तम ।
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ॥ ६.१२१.२ ॥
库鲁之最啊,向那位躺在战士床上的英雄致敬后,刹帝利们站在刹帝利中的雄牛身旁。
6.121.3
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः ।
अवाकिरञ्छान्तनवं तत्र गत्वा सहस्रशः ॥ ६.१२१.३ ॥
成千上万的少女前往那里,从四面八方向善天之子撒下檀香粉、炒米与花环。
6.121.4
स्त्रियो वृद्धास्तथा बालाः प्रेक्षकाश्च पृथग्जनाः ।
समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ॥ ६.१२१.४ ॥
妇女、长者、孩童和围观的平民都奔向善天之子,如众生奔向驱散黑暗者一般。
6.121.5
तूर्याणि शतसङ्ख्यानि तथैव नटनर्तकाः ।
शिल्पिनश्च तथाऽऽजग्मुः कुरुवृद्धं पितामहम् ॥ ६.१२१.५ ॥
成百上千的乐器、演员、舞者和工匠也前来拜见库鲁的长者祖父。
6.121.6
उपागम्य च राजेन्द्र सन्नहान्विप्रमुच्य ते ।
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ॥ ६.१२१.६ ॥
诸王之主啊,他们卸下铠甲、放下兵器后,库鲁与般度之子一同走上前来。
6.121.7
अन्वासन्त दुराधर्षं देवव्रतमरिंदमम् ।
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ॥ ६.१२१.७ ॥
他们围坐在不可战胜、降伏敌人的提婆跋多(毗湿摩)身旁,彼此亲爱,一如从前,依各人年岁而坐。
6.121.8
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता ।
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ॥ ६.१२१.८ ॥
那群集数百位国王、由毗湿摩增辉的婆罗多人大会,闪耀如同天空中炽燃的太阳圆盘。
6.121.9
विबभौ च नृपाणां सा गङ्गासुतमुपासताम् ।
देवानामिव देवेशं पितामहमुपासताम् ॥ ६.१२१.९ ॥
那群坐在恒河之子身旁的国王,光辉灿烂,如同诸神围坐在神主、祖父身旁。
6.121.10
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ ।
अभितप्तः शरैश्चैव नातिहृष्टमनाऽब्रवीत् ॥ ६.१२१.१० ॥
然而婆罗多中的雄牛毗湿摩,以勇气克制痛苦,身受箭伤,心中并不十分欢喜,这样说道。
6.121.11
शराभितप्तकायो हि शस्त्रसंपातमूर्च्छितः ।
पानीयमित संप्रेक्ष्य राज्ञस्तान्प्रत्यभाषत ॥ ६.१२१.११ ॥
毗湿摩身体被箭矢折磨,因兵器落下而昏厥,望着水,回答了那些国王。
6.121.12
ततस्ते क्षत्रिया राजन्नुपाजह्रुः समन्ततः ।
भक्ष्यानुच्चावचान्राजन्वारिकुम्भांश्च शीतलान् ॥ ६.१२१.१२ ॥
那时,诸刹帝利啊,大王,从四面八方拿来了各种食物和清凉的水罐。
6.121.13
उपानीतं तु पानीयं दृष्ट्वा शान्तनवोऽब्रवीत् ।
न मेऽद्य सेवितुं योग्या भोगाः केवलमानुषाः ॥ ६.१२१.१३ ॥
室建努之子见到送来的水,说道:今日这些仅属凡人的享受,于我并不相宜。
6.121.14
अपक्रान्तो मनुष्येभ्यः शरशय्यां गतो ह्यहम् ।
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ॥ ६.१२१.१४ ॥
我已离开世人,躺在箭床之上,等待日月的回转。
6.121.15
एवमुक्त्वा तदोवाच भीष्मः शरशतैश्चितः ।
पयः पास्यामि गोपाला गोमयं न तु गोमयम्।
गोपयेनाग्निवर्णेन गोमयं न तु गोमयम् ॥ ६.१२१.१५ ॥
毗湿摩被数百支箭射穿,说道:牧人们啊,我要饮牛奶,不饮牛粪;我要饮火色的牛奶,不饮牛粪。
6.121.16
एवमुक्त्वा शान्तनवो निन्दन्वाक्येन पार्थिवान् ।
अर्जुनं द्रष्टुमिच्छामीत्यभ्यभाषत भारत ॥ ६.१२१.१६ ॥
室建努之子以言语责备诸王,说道:婆罗多啊,我想见阿周那。
6.121.17
अथोपेत्य महाबाहुरभिवाद्य पितामहम् ।
अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ॥ ६.१२१.१७ ॥
于是大臂者走近,向祖父行礼,合掌低头站立,说道:我该做什么?
6.121.18
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् ।
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम् ॥ ६.१२१.१८ ॥
大王啊,праведный Бхишма见到站在面前行礼的般度之子,心中欢喜,对Dhanaṃjaya说道。
6.121.19
दह्यतीव शरीर मे संवृतस्य तवेषुभिः ।
मर्माणि परिदूयन्ते मुखं च परिशुष्यति ॥ ६.१२१.१९ ॥
我的身体被你的箭覆盖,仿佛在火中燃烧;我的要害痛苦不堪,口也干渴了。
6.121.20
वेदनार्तशरीरस्य प्रयच्छापो ममार्जुन ।
त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि ॥ ६.१२१.२० ॥
阿周那啊,请把水给我这因痛苦而憔悴的身体;大弓箭手啊,只有你能依礼法给我水。
6.121.21
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् ।
अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ ६.१२१.२१ ॥
阿周那说:“就这样吧。”他英勇地登上战车,用力将甘狄拔弓弦拉紧,并把它拉开。
6.121.22
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
वित्रेसुः सर्वभूतानि सर्वे श्रुत्वा च पार्थिवाः ॥ ६.१२१.२२ ॥
他弓弦的响声如同霹雳般轰鸣;听到它的一切生灵和所有国王都战栗起来。
6.121.23
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः ।
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ ६.१२१.२३ ॥
于是,车战勇士中的最优者阿周那乘车向右绕行,走近那躺着的薄伽梵。婆罗多族中的最优者、持兵器者中的最优者毗湿摩。
6.121.24
संधाय च शरं दीप्तमभिमन्त्र्य स पाण्डवः ।
पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः ॥ ६.१२१.२४ ॥
那位般度之子搭上燃烧的箭,以咒语加持它,并将它与帕尔加尼亚神箭相结合,全世界都在注视。
6.121.25
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ।
उत्पपात ततो धारा वारिणो विमला शुभा ॥ ६.१२१.२५ ॥
般度之子在毗湿摩右侧刺穿大地,于是一股清净吉祥的水流涌了出来。
6.121.26
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ।
अतर्पयत्ततः पार्थः शीतया जलधारया ॥ ६.१२१.२६ ॥
于是般度之子用一股如甘露般清凉、带有神圣香气与滋味的水流使他得到滋润。
6.121.27
भीष्मं कुरूणामृषभं दिव्यं दिव्यपराक्रमम् ।
कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः ॥ ६.१२१.२७ ॥
众人看到库鲁之牛毗湿摩——神圣而具神勇的他——因般度之子那如因陀罗般的行动。
6.121.28
विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः ।
तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषविक्रमम् ॥ ६.१२१.२८ ॥
于是那些地上的君王看见比昵沙(阿周那)那超越凡人的勇武之举,无不大为惊异。
6.121.29
संप्रावेपन्त कुरवो गावः शीतार्दिता इव ।
विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः ॥ ६.१२१.२९ ॥
库鲁人像被寒冷折磨的牛一样颤抖;诸王因惊异而向四方挥动着他们的上衣。
6.121.30
शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ।
तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् ॥ ६.१२१.३० ॥
螺号与鼓声之轰鸣四面八方汇成一片喧嚣;国王啊,已得满足的兼爱之子毗湿摩,对比昵沙说道。
6.121.31
सर्वपार्थिववीराणां सन्निधौ पूजयन्निव ।
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन ॥ ६.१२१.३१ ॥
在所有王族武士面前,仿佛在向他们致敬。大臂者啊,俱卢之喜,这对你而言并不奇怪。
6.121.32
कथितो नारदेनासि पूर्वर्षिरमितद्युते ।
वासुदेवसहायस्त्वं महत्कर्म करिष्यसि ॥ ६.१२१.३२ ॥
光辉无量者啊,古代仙人那罗陀曾说你。以婆苏提婆为助手,你将完成伟大的功业。
6.121.33
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ।
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः ॥ ६.१२१.३३ ॥
即使天神之王因陀罗与诸天神一同也必定不敢做的事,知晓一切刹帝利之理的人们视你为他们的灭亡,普利塔之子啊。
6.121.34
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ॥ ६.१२१.३४ ॥
在弓箭手中,你独自是大地上人中的最上者。
6.121.35
मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः ।
सरितं सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥ ६.१२१.३५ ॥
世间众生中人为最上;鸟类中飞鸟之主金翅鸟最上;河流中大海最上;四足兽中牛最上。
6.121.36
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः ।
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनां ॥ ६.१२१.३६ ॥
光明之中太阳最上;山岳之中喜马拉雅最上;种姓之中婆罗门最上;而弓箭手之中你最上。
6.121.37
न वै श्रुतं धार्तराष्ट्रेण वाक्यं ।
मयोच्यमानं विदुरेण चैव।
द्रोणेन रामेण जनार्दनेन ।
मुहुर्मुहुः सञ्जयेनापि चोक्तम् ॥ ६.१२१.३७ ॥
持国之子没有听从我、毗杜罗、德罗纳、罗摩和遮那陀那一再说过的这些话。
6.121.38
परीतबुद्धिर्हि विसंज्ञकल्पो ।
दुर्योधनो न च तच्छ्रद्दधाति।
स शेष्यते वै निहतश्चिराय ।
शास्त्रातिगो भीमबलाभिभूतः ॥ ६.१२१.३८ ॥
难敌心智迷乱,仿佛失去知觉,不信这些话。违背经典者,被毗摩的力量所压倒,将长久地被杀倒在地。
6.121.39
एतच्छ्रुत्वा तद्वचः कौरवेन्द्रो ।
दुर्योधनो दीनमना बभूव।
तमब्रविच्छान्तनवोऽभिवीक्ष्य ।
निबोध राजन्भव वीतमन्युः ॥ ६.१२१.३९ ॥
难敌——库鲁之王听到这番话后,心中沮丧。檀努之子看着他说:"国王啊,明白吧,摆脱愤怒。"
6.121.40
दृष्टं दुर्योधनैतत्ते यथा पार्थेन धीमता ।
जलस्य धारा जनिता शीतस्यामृतगन्धिनः ॥ ६.१२१.४० ॥
难敌啊,正如智慧的普利塔之子所见,一股清凉的水流产生了,散发着甘露般的香气。
6.121.41
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते ।
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ॥ ६.१२१.४१ ॥
世上没有别人能做此事;火神之箭、伐楼那之箭、柔和之箭、风神之箭,以及毗湿奴之箭。
6.121.42
ऐन्द्रं पाशुपतं ब्रह्मं पारमेष्ठ्यं प्रजापतेः ।
धातुस्त्वष्टुश्च सवितुर्वैवस्वतमथापि वा ॥ ६.१२१.४२ ॥
因陀罗之箭、帕苏帕塔、梵天之箭、生主的至上之箭、创造者、工匠神、萨维特里和毗婆娑之箭,或其他。
6.121.43
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः ।
कृष्णो वा देवकीपुत्रो नान्यो वेदेह कश्चन ॥ ६.१२१.४३ ॥
在整个人类世界中,只有持财者(阿周那)知道,或德瓦基之子黑天知道;别人无人知晓。
6.121.44
अशक्यः पाण्डवस्तात युद्धे जेतुं कथंचन ।
अमानुषाणि कर्माणि यस्यैतानि महात्मनः ॥ ६.१२१.४४ ॥
亲爱的,在战场上无论如何都无法战胜般度之子,因为那位大心者的行为超越人间。
6.121.45
तेन सत्ववता सङ्ख्ये शूरेणाहवशोभिना ।
जिष्णुना समरे राजन्संधिर्भवतु मा चिरम् ॥ ६.१२१.४५ ॥
大王啊,愿与胜者(阿周那)即刻在此战场上议和,不要拖延,那位勇敢而在战中光彩照人的英雄。
6.121.46
यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसत्तम ।
तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम् ॥ ६.१२१.४६ ॥
库鲁族中最优秀的人啊,只要大臂的黑天仍能自主行事,亲爱的,就该与英雄的普利塔之子(阿周那)议和。
6.121.47
यावन्न ते चमूः सर्वाः शरैः सन्नतपर्वभिः ।
नाशयत्यर्जुनस्तावत्संधिस्ते तात य्रुज्यताम् ॥ ६.१२१.४७ ॥
在阿周那以锐利的箭摧毁你全部军队之前,亲爱的,就该议和。
6.121.48
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः ।
नृपाश्च बहवो राजंस्तावत्संधिः प्रयुज्यताम् ॥ ६.१२१.४८ ॥
大王啊,趁你的兄弟和许多国王仍在战场上幸存站立之际,应当努力议和。
6.121.49
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् ।
युधिष्ठिरो रणे तावत्संधिस्ते तात युज्यताम् ॥ ६.१२१.४९ ॥
在怒目燃烧的坚战于战场上焚毁你的军队之前,亲爱的,你应当与他议和。
6.121.50
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ।
यावच्चमूं महाराज नाशयन्ति न सर्वशः ॥ ६.१२१.५० ॥
无种、偕天,以及般度之子怖军,大王啊,尚未将你的军队彻底消灭……
6.121.51
तावत्ते पाण्डवैर्वीरैः सौहार्दं मम रोचते ।
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः ॥ ६.१२१.५१ ॥
那时,与那些英勇的般度族人友好相处才合我心意;让战争随我而止吧。亲爱的,与般度五子议和吧。
6.121.52
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयाऽनघ ।
एतत्क्षममहं मन्ये तव चैव कुलस्य च ॥ ६.१२१.५२ ॥
无罪者啊,愿你喜欢我对你所说的这番话。我认为这对你和你的家族都是合宜的。
6.121.53
त्यक्त्वा मन्युं व्युपशाम्यस्व पार्थैः ।
पर्याप्तमेतद्यत्कृतं फल्गुनेन ।
भीष्मस्यान्तादस्तु वः सौहृदं च ।
जीवन्तु शेषाः साधु राजन्प्रसीद ॥ ६.१२१.५३ ॥
舍弃愤怒,与普利塔之子和解吧。阿周那所做的已经足够。待毗湿摩陨落之后,愿你们之间有友好。让存活者活下去;大王啊,请息怒施恩。
6.121.54
राज्यस्यार्दं दीयतां पाण्डवाना-
मिन्द्रप्रस्थं धरमराजोऽभियातु।
मा मित्रध्रुक्पार्थिवानां जघन्यः ।
पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र ॥ ६.१२१.५४ ॥
应将王国的一半交给般度族,让法王前往因陀罗普拉斯塔。不要成为背弃朋友、最卑劣的国王;库鲁之主啊,你将得到罪恶的名声。
6.121.55
ममावसानाच्छान्तिरस्तु प्रजानां ।
संगच्छन्तां पाण्डवाः प्रीतिमन्तः।
पिता पुत्रं मातुलं भागिनेयो ।
भ्राता चैव भ्रातरं प्रैतु राजन् ॥ ६.१२१.५५ ॥
愿我死后人民获得和平。愿充满情谊的般度诸子重归于好。愿父亲与儿子相见,舅舅与外甥相见,兄弟与兄弟相见,啊,国王。
6.121.56
न चेदेवं प्राप्तकालं वचो मे ।
मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या ।
तप्स्यस्यन्ते एतदन्ताः स्थ सर्वे ।
सत्यामेतां भारतीमीरयामि ॥ ६.१२१.५६ ॥
若你为迷惑所缚,不以智慧接受我这及时之言,那么最终你们所有人都将走向这一结局而受苦。我如今诵说这真实的婆罗多故事。
6.121.57
एतद्वाक्यं सौहृदादापगेयो ।
मध्ये राज्ञां भारतं श्रावयित्वा।
तूष्णीमासीच्छल्यसंतप्तमर्मा ।
योज्यात्मानं वेदनां संनियम्य ॥ ६.१२१.५७ ॥
恒河之子毗湿摩出于善意,在众王之中述说婆罗多的故事后说了这些话。随后,他心如被箭所伤,默然不语,克制自己,忍住痛苦。
6.121.58
धर्मार्थसहितं वाक्यं श्रुत्वा हितमनामयम् ।
नारोचयत पुत्रस्ते मुमूर्षुरिव भेषजम् ॥ ६.१२१.५८ ॥
你的儿子虽听了这与法和利益相连、有益而康健的话,却不喜欢,正如垂死之人不喜欢良药一样。