摩诃婆罗多 · 章 6.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.2.1
ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः ।
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥ ६.२.१ ॥
那时,萨蒂亚瓦蒂之子、诸吠陀知者中最优秀的尊者仙人毗耶娑,审视了两军之后——
6.2.2
भविष्यति रणे घोरे भरतानां पितामहः ।
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥ ६.२.२ ॥
在可怕的战斗中,将有婆罗多族的祖父;那位亲见万物、知晓过去现在未来的尊者,早已知道这一点。
6.2.3
वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत् ।
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥ ६.२.३ ॥
那时,他对独自坐着、悲伤痛苦、思念诸子之厄运的毗遮埋力之子国王说了这些话。
6.2.4
राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः ।
ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम् ॥ ६.२.४ ॥
大王啊!你的儿子和其他国王都已被时间所困;他们在战场上相遇,彼此仿佛在互相残杀。
6.2.5
तेषु कालपरीतेषु विनश्यत्स्वेव भारत ।
कालपर्यायमाहाय मा स्म शोके मनः कृथा ॥ ६.२.५ ॥
婆罗多啊!当他们被时间所困而灭亡时,你应思考时间的运行,不要让你的心沉溺于悲伤。
6.2.6
यदि चेच्छसि संग्रामं द्रुष्टुमेनं विशांपते ।
चक्षुर्ददानि ते पुत्र युद्धमेतन्निशामया ॥ ६.२.६ ॥
人主啊!你若想亲眼目睹这场战斗,我便赐你天眼,孩子;看这场战争吧。
6.2.7
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम ।
युद्धमेतत्त्वशेषेण श्रृणुयां तव तेजसा ॥ ६.२.७ ॥
婆罗门仙人中最尊贵者啊,我不愿目睹族人的屠戮。但愿借你的威力,完整地听闻这场战争。
6.2.8
तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति ।
वराणामीश्वरो व्यासः संजयाय वरं ददौ ॥ ६.२.८ ॥
他不愿目睹战争,却想闻听其事,于是赐予诸恩之主毗耶娑,授予桑耶的一个恩赐。
6.2.9
एष ते संजयो राजन्युद्धमेतद्वदिष्यति ।
एतस्य सर्वं संग्रामे न परोक्षं भविष्यति ॥ ६.२.९ ॥
大王啊,你的这位桑耶将讲述这场战争。战争中的一切对他都不会隐而不见。
6.2.10
चक्षुषा संजयो राजन्दिव्येनैव समन्वितः ।
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥ ६.२.१० ॥
大王啊,桑耶以天眼具足,将为你讲述这场战争,并且将成为全知者。
6.2.11
प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि ।
मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ॥ ६.२.११ ॥
无论明显还是隐秘,白天还是夜晚,即便只是心中所念,桑耶都将全部知晓。
6.2.12
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः ।
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥ ६.२.१२ ॥
兵器不会刺穿他,疲劳不会困扰他,这位乾缘之子将存活,并从这场战争中解脱。
6.2.13
अहं तु कीर्तिमेतेषां करूणां भरतर्षभ ।
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥ ६.२.१३ ॥
婆罗多族的雄牛啊,我将传扬这些慈悲者以及所有般度之子的名声。不要悲伤。
6.2.14
दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि ।
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥ ६.२.१४ ॥
人中之虎啊,这是命运所定;你不应为此悲伤。也无法阻止它。哪里有法,哪里就有胜利。
6.2.15
एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः ।
पुनरेव महाभागो धृतराष्ट्रमुवाच ह ॥ ६.२.१५ ॥
这位库鲁族的尊贵祖父说完这些话后,又对大福的持国说道。
6.2.16
इह युद्धे महाराज भविष्यति महान्क्षयः ।
तथेह च निमित्तानि भयदान्युपलक्षये ॥ ६.२.१६ ॥
大王啊,在这场战斗中将会发生巨大的毁灭。而且我在这里看到了令人恐惧的征兆。
6.2.17
श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः ।
संपतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते ॥ ६.२.१७ ॥
鹰、秃鹫、乌鸦和鹭鸟,与鹤一起,俯冲到旗帜的顶端,聚集成群。
6.2.18
अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनां ॥ ६.२.१८ ॥
欢欣的鸟儿看到战斗即将来临;食肉的鸟兽将吞食象和马的肉。
6.2.19
कटाकटेति वाशन्तो भैरवा भयवेदिनः ।
कङ्काः क्रोशन्ति मध्याह्ने दक्षिणामभितो दिशं ॥ ६.२.१९ ॥
它们高叫“咔塔咔塔”,那些可怖的、预告恐惧的,鸟鸦(kaṅka)在正午四周向南方鸣叫。
6.2.20
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत ।
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥ ६.२.२० ॥
婆罗多的后裔啊,我常见东西两个黄昏,以及日出日落时太阳被无头的躯干所环绕。
6.2.21
श्वेतलोहितपर्यन्ताः कृष्णाग्रीवाः सविद्युतः ।
त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ॥ ६.२.२१ ॥
边缘白红、颈部漆黑并伴有闪电的三色光环,确在黄昏交汇处环绕着太阳。
6.2.22
ज्वलितार्के …त्रं निर्विशेषदिनक्षपम् ।
चन्द्रोऽभूतग्निवर्णश्च पद्मवर्णे नभस्तले । ॥ ६.२.२२ ॥
太阳炽烈时,(此处文字缺失),昼夜不分;月亮变成火色,在莲花色的天空中……
6.2.23
आलक्षे प्रभया हीनां पौर्णमासीं च कीर्तिकीम् ।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले ॥ ६.२.२३ ॥
看似失去光明的满月之夜与迦尔提迦之夜;月亮变成火色,在莲花色的天空中。
6.2.24
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥ ६.२.२४ ॥
阵亡的英雄们将睡在大地上,覆盖大地——诸王与王子们,勇敢者,臂如铁棍。
6.2.25
अन्तरिक्षे वराहस्य पृषदंशकस्य चोभयोः ।
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥ ६.२.२५ ॥
天空中,野猪与斑点鸟两者交战时,我夜间时常看见可怖的吼声。
6.2.26
देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च ।
वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ॥ ६.२.२६ ॥
神像颤抖又大笑,从口中吐出鲜血,流汗并倒下。
6.2.27
अनाहता दुन्दुभयः प्रणदन्ति विशांपते ।
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥ ६.२.२७ ॥
人主啊,无人击打的战鼓自鸣,刹帝利的大车将领驾着未套马的战车前行。
6.2.28
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा ।
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥ ६.२.२८ ॥
杜鹃、百羽鸟、鹧鸪、鹞、鹦鹉,以及鹤与孔雀,都发出可怖的鸣叫。
6.2.29
गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः ।
अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः ॥ ६.२.२९ ॥
手持兵器、持盾骑在马背上的人呼喊;日出时,数百群蝗虫出现。
6.2.30
उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते ।
पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत ॥ ६.२.३० ॥
两个黄昏都在发光,四方充满火焰;婆罗多啊,雨云降下尘土,也降下血肉。
6.2.31
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता ।
अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥ ६.२.३१ ॥
君王啊,这位在三界闻名、为善人所敬重的阿伦陀蒂,连同她,这位婆sh吒也被置于后方。
6.2.32
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः ।
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥ ६.२.३२ ॥
君王啊,这位土星正停留并逼迫罗希妮;月亮转向的征兆将出现,巨大的恐惧将会到来。
6.2.33
अनभ्रे च महाघोरस्तनितं श्रूयते भृशम् ।
वाहनानां च रुदतां निपतन्त्युश्रुबिन्दवः ॥ ६.२.३३ ॥
无云之时,极为可怖的雷声大作;哭泣的坐骑身上滴落泪珠。