Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.28.1

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ६.२८.१ ॥

我曾将此不朽的瑜伽传授给毗婆娑特;毗婆娑特告诉了摩奴,摩奴告诉了伊克瓦库。

6.28.2

एवं परम्पराप्राप्तमिमं राजर्षयोऽविदुः ।
स कालेनेह महता योगो नष्टः परंतप ॥ ६.२८.२ ॥

如此,王仙们通过代代相传而知晓此瑜伽;但经过漫长岁月,此瑜伽在此失传了,啊,征服敌人者。

6.28.3

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ६.२८.३ ॥

我今日将这古老的瑜伽告诉你,因为你是我的信徒与朋友;这是至高的秘密。

6.28.4

अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ६.२८.४ ॥

你的出生在后,毗婆娑特的出生在先;我如何能知道你在起初就已说过此事?

6.28.5

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥ ६.२८.५ ॥

阿周那啊,我与你已经历过许多次生命;我全都知道,而你却不知道,啊,征服敌人者。

6.28.6

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥ ६.२८.६ ॥

我虽不生、本性不灭,且为一切众生之主,却凭借自身的幻力,依托自己的本性而显现。

6.28.7

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ ६.२८.७ ॥

婆罗多之子啊,每当法衰退、非法兴起时,我便显现自身。

6.28.8

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ६.२८.८ ॥

为了保护善人、消灭作恶者、确立法,我世世代代显现。

6.28.9

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ६.२८.९ ॥

阿周那啊,若有人如实了知我这神圣的生与行,舍弃身体后便不再轮回,而是来到我这里。

6.28.10

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ ६.२८.१० ॥

许多人远离欲望、恐惧与愤怒,专注于我并皈依于我,以智慧之苦行而清净,已达到我的境界。

6.28.11

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ६.२८.११ ॥

凡人以何种方式接近我,我便以同样的方式回应他们。帕尔塔啊,世人在各方面都遵循我的道路。

6.28.12

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ ६.२८.१२ ॥

人们渴望行为的成就,因而在此供奉诸神;因为在人间,由行为而生的成就来得很快。

6.28.13

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ ६.२८.१३ ॥

四种姓是我依据德性与业的区分所创造的。虽然我是其作者,你应知我是无为而不灭的。

6.28.14

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ ६.२८.१४ ॥

业不沾染我,我也不贪求业的果报。如此认识我的人,不被业所束缚。

6.28.15

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ ६.२८.१५ ॥

知道此理后,古代求解脱者也行了业。因此,你应做先人以及更早的先人所做的业。

6.28.16

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ६.२८.१६ ॥

即使智者也在何为业、何为非业上迷惑了。我将为你讲说那业,知道它,你便能脱离不善。

6.28.17

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ ६.२८.१७ ॥

应当了解业,也应了解恶业,也应了解非业;业的路径深奥难测。

6.28.18

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ६.२८.१८ ॥

在业中见到非业,在非业中见到业,这样的人在人中是有智慧的;他是修习者,也是完成一切业的人。

6.28.19

यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ ६.२८.१९ ॥

凡一切行为皆无欲念与决意、业已被智慧之火焚尽者,智者称之为智者(班迪达)。

6.28.20

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥ ६.२८.२० ॥

舍弃对行为果报的执着,常怀知足,无所依恃,虽全心投入行动,实际上却什么也没有做。

6.28.21

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ६.२८.२१ ॥

无所希求、心与自我受到控制、舍弃一切所有,仅以身体行事的人,不会招致罪过。

6.28.22

यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ ६.२८.२२ ॥

满足于不求自来的所得,超越对立的二元,无嫉妒,于成功与失败皆平等,虽行动也不受束缚。

6.28.23

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ ६.२८.२३ ॥

对于远离执着、解脱、心安住于智慧、为祭祀而行事的人,他的全部行为都会完全消融。

6.28.24

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना ॥ ६.२८.२४ ॥

奉献即是梵,供品即是梵,由梵投入梵之火中;以入于三摩地的行动,唯有梵是应当抵达的。

6.28.25

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ ६.२८.२५ ॥

有些瑜伽士only崇奉神圣的祭祀;另一些人在梵火中献祭,以祭祀本身作为供物奉献。

6.28.26

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ ६.२८.२६ ॥

有些人将听觉等诸根献入克制之火;另一些人将声等诸境献入诸根之火。

6.28.27

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ ६.२८.२७ ॥

另一些人将诸根之业与气息之业,献入由智慧点燃的自制瑜伽之火。

6.28.28

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ६.२८.२८ ॥

有人行财物之祭,有人行苦行之祭,另一些人行瑜伽之祭;而坚守誓愿的苦行者则行诵习之祭与智慧之祭。

6.28.29

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ६.२८.२९ ॥

有人将上行气献入下行气,将下行气献入上行气;另一些人止息上行与下行之气的运行,专注于调息。

6.28.30

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ६.२८.३० ॥

另一些人节制饮食,将诸气献入诸气。这些人都通晓祭祀,其罪垢已因祭祀而灭尽。

6.28.31

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ६.२८.३१ ॥

食用祭祀剩余甘露者,往生永恒的梵。对不行祭祀者而言,此世尚且不存,何况他世?库鲁之最!

6.28.32

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ६.२८.३२ ॥

如是,多种祭祀展布于梵之口中。应知一切皆由业生;如是知之,你将获得解脱。

6.28.33

श्रेयान्द्रव्यमयाद्यजाज्ज्ञानयज्ञः परंतप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ६.२८.३३ ॥

胜过以物为供的祭祀者,乃是智慧之祭,破敌者啊。一切行为,普利塔之子啊,皆在智慧中圆满。

6.28.34

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ६.२८.३४ ॥

应当以礼拜、请问与服侍去求得此知;智者与见真理者必将向你开示此智。

6.28.35

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ६.२८.३५ ॥

知此之后,你将不再如此陷入迷惑,般度之子啊;由此你将在自我中、也在我之中,见到一切众生。

6.28.36

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ ६.२८.३६ ॥

即使你是一切罪人中最大的作恶者,唯凭智慧之筏,你也必能渡过一切罪恶。

6.28.37

यथैधांसि समिद्धोऽग्निर्भस्मासात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते यथा ॥ ६.२८.३७ ॥

阿周那啊,正如燃烧的火把柴薪化为灰烬,智慧之火也使一切业行化为灰烬。

6.28.38

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ६.२८.३८ ॥

在此世间,没有任何东西能像智慧那样净化;圆满于瑜伽者会在适当的时候,自己在自身之中获得它。

6.28.39

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ६.२८.३९ ॥

有信心、专心于此并控制感官的人获得智慧;获得智慧后,他很快便达到至高的寂静。

6.28.40

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ६.२८.४० ॥

无知、无信、心存疑惑之人必然毁灭;心怀疑惑者,既无此世,也无来世,更无幸福。

6.28.41

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ ६.२८.४१ ॥

达那阳啊,凡以瑜伽舍弃业行、以智慧斩断疑惑、且具有自我者,业不能束缚他。

6.28.42

तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः ।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ६.२८.४२ ॥

因此,婆罗多啊,你要以智慧之剑斩断这由无明所生、居于你心中的疑惑,依止瑜伽,起来吧。