摩诃婆罗多 · 章 6.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.3.1
खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः ।
अनार्तवं पुष्पफलं दर्शयन्ति वनद्रुमाः ॥ ६.३.१ ॥
驴子生于牛群之中,子嗣与母亲嬉戏,林中的树木不合时令地开花结果。
6.3.2
गर्भिण्योऽजातपुत्राश्च जनयन्ति विभीषणान् ।
क्रव्यादाः पक्षिभिश्चापि सहा श्नन्ति परस्परम् ॥ ६.३.२ ॥
尚未生下儿子的孕妇生出可怖的怪物;食肉之兽与飞鸟彼此相食。
6.3.3
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः ।
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥ ६.३.३ ॥
三角、四目、五足、双根、双头、双尾、有獠牙的不祥野兽。
6.3.4
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः ।
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥ ६.३.४ ॥
生出张口、发出不祥之声的怪物:三足、有冠、似金翅鸟、四齿、有角。
6.3.5
तथैवान्याश्च दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम् ।
वैनतेयान्मयूरांश्च जनयन्ति पुरे तव ॥ ६.३.५ ॥
同样,还可见其他婆罗门论者的妻子,在你的城中生出金翅鸟之类和孔雀。
6.3.6
गोवत्सं वडवा सूते श्वा सृगालं महीपते ।
कुक्कुरान्करभाश्चैव शुकाश्चाशुवादिनः ॥ ६.३.६ ॥
陛下!母马生出牛犊,母狗生出豺狼;生出狗、骆驼和能快速说话的鹦鹉。
6.3.7
स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः ।
जातमात्राश्च नृत्यन्ति गायन्त च हसन्ति च ॥ ६.३.७ ॥
有些女子将生下四五个女儿,她们一出生便跳舞、歌唱、大笑。
6.3.8
पृथग्जनस्य सर्वस्य क्षुद्रकाः प्रहसन्ति च ।
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ॥ ६.३.८ ॥
在所有平民之中,卑贱之人将嬉笑舞蹈,四处歌唱,宣告巨大的恐怖。
6.3.9
प्रतिमाश्चालिखन्त्येताः सशस्त्राः कालचोदिताः ।
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ॥ ६.३.९ ॥
受时间驱使,他们甚至会画出持械的图像;手持木棍的孩子们将彼此冲杀。
6.3.10
अन्योन्यमभिमृद्गन्ति नगराणि युयुत्सवः ।
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च ॥ ६.३.१० ॥
渴望战争的人们将彼此践踏城市;树上将生长出莲花、睡莲与夜合之花。
6.3.11
विष्व्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति ।
अभीक्ष्णं कम्पते भूमिरर्कं राहुरुपैति च ॥ ६.३.११ ॥
猛烈的旋风四面八方吹起,尘土不止;大地不断震动,罗睺逼近太阳。
6.3.12
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ।
अभावं हि विशेषेण कुरूणां तत्र पश्यति ॥ ६.३.१२ ॥
白色的行星也越过了毕宿(Citrā)停驻,在那里它尤其看见了俱卢族的毁灭。
6.3.13
धूमकेतुर्महाघोरः पुष्यं चाक्रम्य तिष्ठति ।
सेनयोरशिवं घोरं करिष्यति महाग्रहः ॥ ६.३.१३ ॥
彗星烟幡极其可怖,侵入并停留于毕宿(Puṣya)之上。此大行星将给两军带来不祥而可怕的结果。
6.3.14
मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ।
भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ॥ ६.३.१४ ॥
逆行的火星在毛宿(Maghā)中,木星在女宿(Śravaṇa)中。侵入婆伽(Bhaga)星宿后,它被太阳之子(土星)所困扰。
6.3.15
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते ।
उत्तरे तु परिक्रम्य सहितः समुदीक्षते ॥ ६.३.१५ ॥
金星登上前Proṣṭhapadā而放光;绕行后Proṣṭhapadā而与之相伴出现。
6.3.16
श्यामो ग्रहः प्रज्वलितः सधूम इव पावकः ।
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥ ६.३.१६ ॥
那颗黑暗而燃烧的行星,如同冒烟的火。它侵入因陀罗的光耀星宿闍睹(Jyeṣṭhā)而立。
6.3.17
ध्रुवं प्रज्वलितो घोरमपसव्यं प्रवर्तते ।
रोहिणीं पीडयत्येवमुभौ च शशिभास्करो ।
चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः ॥ ६.३.१७ ॥
此炽热可怖的行星必定沿不吉的左旋方向运行。如此它困扰罗希尼(Rohiṇī),也困扰月与日;这颗严酷的行星停在角宿(Citrā)与氐宿(Svāti)之间。
6.3.18
वक्रानुवक्रं कृत्वा च श्रवणं पावकप्रभः ।
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥ ६.३.१८ ॥
此星作曲折往返之行,火光般明亮,身带赤色,坚定而立,环绕女宿(Śravaṇa)与梵宫之位。
6.3.19
सर्वसस्यपरिच्छन्ना पृथिवी सस्यमालिनी ।
पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः ॥ ६.३.१९ ॥
大地被各种庄稼覆盖,以谷物为饰;大麦有五穗,稻谷有百穗。
6.3.20
प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् ।
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥ ६.३.२० ॥
这些为全世界之首、整个世界所依赖的母牛,与小牛一同流着奶,却也滴着血。
6.3.21
निश्चेरुरर्चिषश्चापात्खङ्गाश्च ज्वलिता भृशम् ।
व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम् ॥ ६.३.२१ ॥
火焰从天空喷出,刀剑烈烈燃烧;兵器清楚可见,因为战事已经临近。
6.3.22
अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च ।
कवचानां ध्वजानां च भविष्यति महाक्षयः ॥ ६.३.२२ ॥
如兵器、水波、铠甲与旗帜闪耀的火色光芒,将有大毁灭。
6.3.23
पृथिवी शोणितावर्ता ध्वजोडुपसमाकुला ।
कुरूणां वैशसे राजन्पाण्डवैः सह भारत ॥ ६.३.२३ ॥
大王啊,婆罗多的后裔啊,在俱卢族与般度族的大屠杀中,大地将旋转着血的漩涡,布满旗帜与星辰。
6.3.24
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः ।
अत्याहितं दर्शयन्तः क्षत्रियाणां महद्भयम् ॥ ६.३.२४ ॥
四方的鹿与鸟,口中燃着火焰而鸣叫,向刹帝利显示巨大的灾祸与恐惧。
6.3.25
एकपक्षाक्षिचरणाः शकुन्ताः खेचरा निशि ।
रौद्रं वदन्ति संरब्धाः शोणितं छर्दयन्ति च ॥ ६.३.२५ ॥
独翼、独目、独足的鸟在夜间翔于天空;它们愤怒地发出可怖之声,并吐出鲜血。
6.3.26
ग्रहौ ताम्रारुणनिभौ प्रज्वलन्ताविव स्थितौ ।
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ॥ ६.३.२६ ॥
两颗行星呈铜红与赤色,仿佛燃烧般停留,完全遮蔽了尊贵的七仙之光。
6.3.27
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ ।
विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ॥ ६.३.२७ ॥
停留一年的两颗行星,木星与土星,燃烧着靠近毗舍伽宿。
6.3.28
चन्द्रादित्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम् ।
अपर्वमि ग्रहं यातौ प्रजासंक्षयमिच्छतः ॥ ६.३.२८ ॥
月与日在同一天、即十三日,同时遭遇蚀;蚀于非其时而至,仿佛欲使民众毁灭。
6.3.29
अशोभिता दिशः सर्वाः पांसुवर्षैः समन्ततः ।
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥ ६.३.२९ ॥
四方皆被尘雨遮蔽而黯淡;可怖的凶兆之云夜间降下血雨。
6.3.30
कृत्तिकां पीडयंस्तीक्ष्णैर्नक्षत्रं पृथिवीपते ।
अभीक्ष्णवाता वायन्ते धूमकेतुमवस्थिताः ॥ ६.३.३० ॥
哦,大地之主!凶猛的行星侵扰着昴宿;狂风不息地吹拂,彗星静立于天。
6.3.31
विषमं जनयन्त्येत आक्रन्दजननं महत् ।
त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशांपते ।
बुधः संपततेऽभीक्ष्णं जनयन्प्राणिनां भयम् ॥ ६.३.३१ ॥
这些不规则地引发巨大的哀号。人主啊,在前面的三个星宿以及所有星宿中,辰星(水星)不断运行,使众生心生恐惧。
6.3.32
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् ।
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ।
चन्द्रसूर्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम् ॥ ६.३.३२ ॥
十四日、十五日以及从前发生过的十六日,我都知道;但这个新月之日和十三日,我却不曾知道。在同一天,即十三日,日月二者都被食所遮蔽。
6.3.33
अपर्वणि ग्रहेणैतौ प्रजाः संक्षपयिष्यतः ।
मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् ।
शोणितैर्वक्रसंपूर्णा अतृप्तास्तत्र राक्षसाः ॥ ६.३.३३ ॥
这两者因不合时的食而将毁灭众生。黑半月的十四日又下了猛烈的肉雨;在充满血液、曲折的水中,罗刹在那里没有得到满足。
6.3.34
प्रतिस्रोतोवहा नद्यः सरितः शोणितोदकाः ।
फेनायमानाः कूपाश्च कूर्दन्ति वृषभा इव ॥ ६.३.३४ ॥
江河逆流而行,溪流以血为水,井中泛起泡沫,如公牛般跳跃。
6.3.35
पतन्त्युल्काः सनिर्घाताः शक्राशनिसमप्रभाः ।
अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ ॥ ६.३.३५ ॥
流星伴随雷声坠落,光芒如因陀罗的金刚杵。今天,待夜尽天明之时,你们将遭遇灾厄。
6.3.36
विनिःसृत्य महोल्काभिस्तिमिरं सर्वतो दिशम् ।
अन्योन्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः ।
भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥ ६.३.३६ ॥
大火球迸发而出,黑暗从四面八方弥漫;那里,大仙们相互靠近,说道:大地将饮尽千千万万国王的鲜血。
6.3.37
कैलासमन्दराभ्यां तु तथा हिमवतो विभो ।
सहस्रशो महाशब्दं शिखराणि पतन्ति च ॥ ६.३.३७ ॥
啊,威力无边者!卡伊拉萨与曼陀罗山,以及喜马拉雅的山峰,也轰然坠落,成千上万。
6.3.38
महाभूता भूमिकम्पे चत्वारः सागराः पृथक् ।
वेलामुद्वर्तयन्तीव क्षोभयन्तो वसुन्धराम् ॥ ६.३.३८ ॥
地震之中,四大海洋各自分离,仿佛要掀翻岸边,搅动大地。
6.3.39
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः ।
आभग्राः सुमहावातैरशनीभिः समाहताः ॥ ६.३.३९ ॥
狂风拔起树木,卷起碎石呼啸而过;被巨大的狂风和霹雳击中,都已折断。
6.3.40
वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च ।
नीललोहितपीतश्च भवत्यग्निर्हुतो द्विजैः ॥ ६.३.४० ॥
村庄与城市里,树木与神龛倒塌;由再生者祭祀的火焰变成蓝、红、黄色。
6.3.41
वामार्चिर्दुष्टगन्धश्च मुञ्चन्वै दारुणं स्वनम् ।
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥ ६.३.४१ ॥
火焰偏向左方,带着恶臭,发出可怕的声响;而触觉、嗅觉与味觉,啊大地之主,都已颠倒。
6.3.42
धूमं ध्वजाः प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः ।
मुञ्चन्त्यङ्गारवर्षं च भेर्यश्च पटहास्तथा ॥ ६.३.४२ ॥
颤抖的旗幡一次又一次喷出浓烟,又降下炭火的暴雨;战鼓与大鼓亦复如此。
6.3.43
शिखराणां समृद्धानामुपरिष्टात्समन्ततः ।
वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः ॥ ६.३.४३ ॥
在繁茂的山峰之上,四面八方,乌鸦结成左旋的圆圈,凶猛地啼叫。
6.3.44
पक्वापक्वेऽतिसुभृशं वावाश्यन्ते वयांसि च ।
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥ ६.३.४४ ॥
在成熟与未成熟的果实之上,鸟儿一再极其嘶鸣,并躲藏在旗幡的顶端——为了那些地上之王的毁灭。
6.3.45
ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः ।
दीनास्तुरंगमाः सर्वे वारणाः सलिलाश्रयाः ॥ ६.३.४५ ॥
野兽沉思、四散奔逃,浑身颤抖;可怜的马匹与所有大象都寻求水边的庇护。
6.3.46
एवंविधं दुर्निमित्तं क्षयाय पृथीवीक्षिताम् ।
भौमं दिव्यं चान्तरिक्षं त्रिविधं जायतेऽनिशम् ॥ ६.३.४६ ॥
此类恶兆预示着地上诸王的毁灭;地上、天上与空中三种异象,不断出现。
6.3.47
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् ।
यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥ ६.३.४७ ॥
听闻此事之后,你现在就应当在此时决断,好使这世界不致走向毁灭,婆罗多之子啊。
6.3.48
पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् ।
दिष्टमेतत्पुरा मन्ये भविष्यति नरक्षयः ॥ ६.३.४८ ॥
聽了父親的這番話,持國說道:我認為這是早已注定的,人類將會毀滅。
6.3.49
राजानः क्षत्रधर्मेण यदि वध्यन्ति संयुगे ।
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥ ६.३.४९ ॥
若諸王依照剎帝利的本分戰死沙場,便能到達英雄之界,唯獲安樂。
6.3.50
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् ।
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥ ६.३.५० ॥
此世得名,後世長久享受大樂,那些人中之虎在大戰中捨命者將得之。
6.3.51
एवं मुनिस्तथेत्सुक्त्वा कवीन्द्रो राजसत्तम ।
धृतराष्ट्रेण पुत्रेण ध्यानमन्वगमत्परम् ॥ ६.३.५१ ॥
如此,詩人之王的仙人說:「就這樣吧。」王中之最,他與持國之子一同陷入至高的禪定。
6.3.52
स मुहूर्तं तथा ध्यात्वा पुनरेवाब्रवीद्वचः ।
असंशयं पार्थिवेन्द्र कालः संक्षयते जगत् ॥ ६.३.५२ ॥
他如此靜思片刻,又說出這些話:王中之主啊,無疑,時間正在毀滅這個世界。
6.3.53
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् ।
ज्ञातीनां वै कुरूणां च संबन्धिसुहृदां तथा ॥ ६.३.५३ ॥
它又創造世界,但此處無一物恆久;庫盧族的親族、姻親與朋友亦是如此。
6.3.54
धर्म्यं दर्शय पन्थानं समर्थो ह्यसि वारणे ।
क्षुद्रं जातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥ ६.३.५४ ॥
请指示正法之道,因为你有能力制止此事。人们说杀害族人是卑劣的;不要做令我不悦之事。
6.3.55
कालोऽयं पुत्ररूपेण तव जातो विशांपते ।
न वधः पूज्यते वेदे हितं नैव कथंचन ॥ ६.३.५५ ॥
人民之主啊,此时已以你的儿子之形而生。吠陀中不赞美杀戮,它绝无益处。
6.3.56
हन्यात्स एनं यो हन्यात्कुलधर्मं स्विकां तनुम् ।
कालेनोत्पथगन्तसि शक्ये सति यथाऽऽपदि ॥ ६.३.५६ ॥
杀害作为自身之躯的家族之法的人,实则是在杀害自己。你因时运而走上了歧途,尽管你有能力,就像陷于危难之人。
6.3.57
कुलस्यास्य विनाशाय तथैव च महीक्षिताम् ।
अनर्थो राज्यरूपेण तव जातो विशांपते ॥ ६.३.५७ ॥
为了这个家族的毁灭,也为了诸王的毁灭,人民之主啊,灾祸已以你王权的形式降生。
6.3.58
लुप्तधर्मा परेणासि धर्मं दर्शय वै सुतान् ।
किं ते राज्येन दुर्धर्षयेन प्राप्तोऽसि किल्विषम् ॥ ६.३.५८ ॥
你因他人而失去了正法。请向你的儿子们显示正法。既已招致罪过,这无可抵挡的王国对你又有何益?
6.3.59
यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि ।
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥ ६.३.५९ ॥
守护名誉、正法与荣耀,你将得到天界。愿般度之子获得王国,愿俱卢之子得享和平。
6.3.60
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः ।
प्रशस्य वाक्यं वाक्यज्ञो वाक्यं चैवाब्रवीत्पुनः ॥ ६.३.६० ॥
当婆罗门之主如此说完后,安比卡之子持国王赞许他的话,并精通言辞的他再次说出了这些话。
6.3.61
यथा भवान्वेत्ति तथैव वेत्ता ।
भावाभावौ विदितौ मे यथार्थौ ।
स्वार्थे हि संमुह्यति तात लोको ।
मां चापि लोकात्मकमेव विद्धि ॥ ६.३.६१ ॥
如你所知,我也如此知晓。有与无对我而言如其本然地明了。亲爱的,世人会因自身的利益而迷惑;请知道,我也是由世界所构成的。
6.3.62
प्रसादये त्वामतुलप्रभावं ।
त्वं नो गतिर्दर्शयिता च धीरः ।
न चापि ते वशगा मे सुताश्च ।
न चाधर्मं कर्तुमर्हा हि मे मतिः ॥ ६.३.६२ ॥
无与伦比的威力者啊,我恳求你。你是我们的依靠,是坚定指引道路的人。我的儿子们也不听你的约束,而我的心也不适合去做不义之事。
6.3.63
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः ।
कुरूणां पाण्डवानां च मान्यश्चापि पितामहः ॥ ६.३.६३ ॥
你即是法与清净、荣耀、名声、坚定与记忆。你也是被俱卢与般度族所尊敬的祖父。
6.3.64
वैचित्रवीर्य नृपते यत्ते मनसि वर्तते ।
अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम् ॥ ६.३.६४ ॥
毗遮travīrya之子啊,国王,请随意说出你心中所想。我将为你消除疑惑。
6.3.65
यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम् ।
तानि सर्वाणि भगवञ्छ्रोतुमिच्छामि तत्त्वतः ॥ ६.३.६५ ॥
世尊啊,我希望如实听闻战斗中那些将获胜者所具有的一切征兆。
6.3.66
प्रसन्नभाः पावक ऊर्ध्वरश्मिः ।
प्रदक्षिणावर्तशिखो विधूमः ।
पुण्या गन्धाश्चाहुतीनां प्रवान्ति ।
जयस्यैतद्भाविनो रूपमाहुः ॥ ६.३.६६ ॥
火焰光明清澈,光芒向上,火舌右旋,无烟;祭品的圣洁香气四散。人们说这是即将到来的胜利的征兆。
6.3.67
गम्भीरघोषाश्च महास्वनाश्च ।
शङ्खा मृदङ्गाश्च नदन्ति यत्र।
विशुद्धरश्मिस्तपनः शशी च ।
जयस्येतद्भाविनो रूपमाहुः ॥ ६.३.६७ ॥
螺号与鼓声深沉洪亮、响彻四方,日月放射清净的光芒——人们说这是即将到来的胜利的征兆。
6.3.68
इष्टा वाचः प्रसृता वायसानां ।
संप्रस्थितानां च गमिष्यतां च।
ये पृष्ठतस्ते त्वरयन्ति राज-
न्ये चाग्रतस्ते प्रतिषेधयन्ति ॥ ६.३.६८ ॥
乌鸦的吉祥鸣叫四散。对于已经出发和即将出发的人,有的从后面催促他们,有的从前面阻拦他们,哦,国王。
6.3.69
कल्याणवाचः शकुना राजहंसाः ।
शुकाः क्रौञ्चाः शतपत्राश्च यत्र।
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये ।
ध्रुवं जयस्तत्र वदन्ति विप्राः ॥ ६.३.६९ ॥
在战场上,发出吉祥鸣声的天鹅、鹦鹉、鹤和百羽鸟向右盘旋的地方,婆罗门说,那里胜利必定属于一方。
6.3.70
अलंकारैः कवचैः केतुभिश्च ।
सुखप्रणादैर्हेषितैर्वा हयानाम्।
भ्राजिष्मती दुष्प्रतिवीक्षणीया ।
येषां चमूस्ते विजयन्ति शत्रून् ॥ ६.३.७० ॥
谁的军队以饰物、铠甲、旗幡以及马匹悦耳的嘶鸣而闪耀,令人难以直视,他们便能战胜敌人。
6.3.71
हृष्टा वाचस्तथा सत्वं योधानां यत्र भारत ।
न म्लायन्ति स्रजश्चैव ते तरन्ति रणोदधिम् ॥ ६.३.७१ ॥
婆罗多之子啊,在战士们言语欢畅、精神振奋、花环不凋的地方,他们便能渡过战争的海洋。
6.3.72
प्रयाणे वायसो वामे दक्षिणे प्रविविक्षताम् ।
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति ॥ ६.३.७२ ॥
出发之时,若乌鸦在左侧或右侧,它从后方助成入者之事,从前方加以阻止。
6.3.73
शब्दरूपरसस्पर्शगन्धाश्चाविकृताः शुभाः ।
सदा हर्षश्च योधानां जयतामिह लक्षणम् ॥ ६.३.७३ ॥
声音、形色、滋味、触感与气味皆不变异而吉祥,战士之中常有欢喜——这便是此处得胜者的标志。
6.3.74
अनुगा वायवो वान्ति तथाऽभ्राणि वयांसि च ।
अनुप्लवन्ति मेघाश्च तथैवेन्द्रधनूंषि च ॥ ६.३.७४ ॥
顺风吹拂,云与鸟亦然;雨云在后随行,彩虹亦复如此。
6.3.75
एतानि जयमानानां लक्षणानि विशांपते ।
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ॥ ६.३.७५ ॥
此乃得胜者之标志,民之主啊;对于将死之人,则恰好相反,人之主啊。
6.3.76
अल्पायां वा महत्यां वा सेनायामिति निश्चयः ।
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥ ६.३.७६ ॥
无论军队大小,此为定论:战士群中唯一的欢喜,被宣称为胜利的标志。
6.3.77
एको दीर्णो दारयति सेनां सुमहतीमपि ।
तां दीर्णामनुदीर्यन्ते योधाः शूरतरा अपि ॥ ६.३.७७ ॥
一人溃散便能冲散极庞大的军队,随后溃散的军队之后,即使最英勇的战士也相继溃散。
6.3.78
दुर्निवर्त्या तदा चैव प्रभग्ना महती वमूः ।
अपामिव महावेगा त्रस्ता मगगणा इव ॥ ६.३.७८ ॥
此时,溃散的大军已难以扭转,如同奔流的大水,又如受惊的鹿群。
6.3.79
नैव शक्या समाधातुं सन्निपाते महाचमूः ।
दीर्ण इत्येव दीर्यन्ते सुविद्वांसोऽपि भारत ॥ ६.३.७९ ॥
在激烈的交锋中,大军无法重新整顿;以为「已经溃散」,即使最博学的人也会溃散,婆罗多啊。
6.3.80
भीतान्भग्नांश्च संप्रेक्ष्य भयं भूयोऽभिवर्धते ।
प्रभग्ना सहसा राजन्दिशो विद्रवते चमूः ।
नैव स्थापयितुं शक्या शूरैरपि महाचमूः ॥ ६.३.८० ॥
看到惊恐和溃败的士兵,恐惧更加增长。大王啊,溃散的军队忽然向四方奔逃;即使英雄也无法阻止这支大军。
6.3.81
सत्कृत्य महतीं सेनां चतुरङ्गां महीपतिः ।
उपायपूर्वं मेधावी यतेत सततोत्थितः ॥ ६.३.८१ ॥
君王应敬重庞大的四军,智慧而时刻警觉,首先以谋略努力行事。
6.3.82
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् ।
जघन्य एष विजयो यो युद्धेन विशांपते ॥ ६.३.८२ ॥
以谋略取胜被称为最上,以离间取胜为中等。人主啊,以战争取胜则是最下等的。
6.3.83
महान्दोषः सन्निपातस्तस्याद्यः क्षय उच्यते ।
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः ॥ ६.३.८३ ॥
那种冲突有大过失;其首要后果称为毁灭。彼此相识、欢欣鼓舞、决心坚定者(作战)。
6.3.84
अपि पञ्चाशतं शूरा मृद्गन्ति महतीं चमूम् ।
अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः ॥ ६.३.८४ ॥
即使五十名勇士也能击溃一支庞大的军队;或者即使五六七人,只要不退缩,也能取得胜利。
6.3.85
न वैनतेयो गरुडः प्रशंसति महाजनम् ।
दृष्ट्वा सुपर्णोऽपचितिं महत्या अपि भारत ॥ ६.३.८५ ॥
毗娜塔之子迦卢达不赞美庞大的人群。婆罗多啊,金翅鸟(迦卢达)即使在大军中也只见到敬意,因而如此判断。
6.3.86
न बाहुल्येन सेनाया जयो भवति नित्यशः ।
अध्रुवो हि जयो नाम दैवं चात्र परायणम् ।
जयवन्तो हि संग्रामे कृतकृत्या भवन्ति हि ॥ ६.३.८६ ॥
军队人多并不总能带来胜利;胜利是不确定的,其中天命是最终的依靠。在战斗中获胜者方能功成。