摩诃婆罗多 · 章 6.41
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.41.1
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता ।
तेषां निष्ठा तु का कृष्ण सत्वमाहो सजस्तमः ॥ ६.४१.१ ॥
克里希那啊,那些舍弃经典规定、怀着信心祭祀的人,其安住之处是什么:善性、激情,还是黑暗?
6.41.2
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्विकी राजसी चैव तामसी चेति तां श्रृणु ॥ ६.४१.२ ॥
有身之众生的信心分为三种,生于各自的本性:善性的、激情的和黑暗的。你且听我说。
6.41.3
सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ ६.४१.३ ॥
婆罗多啊,每个人的信心都与其内在本性相符。此人由信心构成;人的信心是什么,他便是什么。
6.41.4
यजन्ते सात्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ ६.४१.४ ॥
善性的人祭祀天神;激情的人祭祀夜叉与罗刹;黑暗的人祭祀亡灵和众鬼怪。
6.41.5
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ ६.४१.५ ॥
那些修习经典未规定的严苛苦行的人,他们怀着伪善与傲慢,充满欲望、贪爱与强力——
6.41.6
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६.४१.६ ॥
应知这些人具有阿修罗的决意:那些无知者折磨身中的诸元素众聚,也折磨住在身内的我。
6.41.7
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु ॥ ६.४१.७ ॥
食物对每个人而言也有三种,各自为人所喜。请听这祭祀、苦行与布施的区别。
6.41.8
आयुःसत्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याःस्रिग्धाः स्थिरा हृद्या आहाराःसात्विकप्रियाः ॥ ६.४१.८ ॥
能增益寿命、善性、力量、健康、快乐与喜悦,美味、滋润、稳定、悦心的食物,为善性之人所喜。
6.41.9
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ६.४१.९ ॥
苦、酸、咸、极热、辛辣、干燥、灼烧之食,为激情之人所欲;它们带来苦痛、悲伤与疾病。
6.41.10
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ ६.४१.१० ॥
陈旧、无味、腐败、隔夜、残余、不洁之食,为惰性之人所喜。
6.41.11
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥ ६.४१.११ ॥
不求果报之人依仪轨而行的祭祀,心志专一,念念以“应当祭祀”,此即善性之祭。
6.41.12
अभिसंघाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ ६.४१.१२ ॥
婆罗多之最,当知为求果报或仅为炫耀而行的祭祀,便是激情之祭。
6.41.13
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ ६.४१.१३ ॥
没有规定仪轨、不施食、无咒语、无布施、无信心的祭祀,被称为黑暗之性的。
6.41.14
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ ६.४१.१४ ॥
敬奉天神、再生者、师长和智者;清净、正直、梵行和不害——这称为身体的苦行。
6.41.15
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्भयं तप उच्यते ॥ ६.४१.१५ ॥
不令人惊扰、真实、悦耳而有益的言语,并勤习经典诵读——这称为语言的苦行。
6.41.16
मनःप्रसादः सम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ ६.४१.१६ ॥
心意平和、温和、沉默、自制、心念纯净——这称为心的苦行。
6.41.17
श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्विकं परिचक्षते ॥ ६.४१.१७ ॥
这三种苦行,若人以最高的信心修习,不求果报,安住于瑜伽,便称为善性的。
6.41.18
सत्कारमानपूजाराथं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ ६.४१.१८ ॥
为求尊敬、礼遇与供养,或出于虚伪而行的苦行,此处称为激情的、动荡的、无常的。
6.41.19
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ ६.४१.१९ ॥
出于愚妄固执而折磨自身所行的苦行,或为毁灭他人而行的苦行,被称为属于暗性(tāmasa)。
6.41.20
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥ ६.४१.२० ॥
以“应当施与”之念,施予无法报答的人,在适当的地点、适当的时间、给予合适的受者,此施称为善性(sāttvika)。
6.41.21
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ ६.४१.२१ ॥
然为求回报,或志在果报,或又勉强而施,此施称为激性(rājasa)。
6.41.22
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ ६.४१.२२ ॥
于不适之处与时,施予不配之人,不加敬重而轻蔑相施,此施被称为暗性(tāmasa)。
6.41.23
ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृताः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ ६.४१.२३ ॥
“Oṃ tat sat”被记为梵的三重称号;依此,古时确立了婆罗门、吠陀与祭祀。
6.41.24
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ ६.४१.२४ ॥
故于说“Oṃ”之时,言说梵者依规定而恒常举行祭祀、布施与苦行之行。
6.41.25
तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ ६.४१.२५ ॥
念诵“tat”,不求果报,求解脱者行祭祀、苦行与种种布施之业。
6.41.26
सद्भावे साधुभावे च सदित्येतत्प्रुयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ ६.४१.२६ ॥
阿周那啊,“sat”一词用于真实与善良之义;同样,“sat”一词也用于值得赞扬的行为。
6.41.27
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सादित्येवाभिधीयते ॥ ६.४१.२७ ॥
于祭祀、苦行与布施中保持坚定,称为“sat”;为此而作的业,也称为“sat”。
6.41.28
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ ६.४१.२८ ॥
阿周那啊,凡无信心而行的献祭、布施、苦行或作业,皆称为“asat”;它既不于来世结果,也不于今世结果。