Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.119

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.119.1

निर्जित्य कृतवर्माणं भारद्वाजं च संयुगे ।
स सात्यकिः सत्यधृतिर्महात्मा शिनिपुङ्गवः ॥ ७.११९.१ ॥

在战斗中击败了克利塔瓦尔曼和婆罗堕遮(德罗纳)之后,坚守真理的大德萨提亚奇,即诗尼族的俊杰(向前推进)。

7.119.2

दुर्योधनं च निर्जित्य शूरं चैव सुयोधनम् ।
जलसन्धं निहत्याजौ शूरसेनं च पार्थिवम् ॥ ७.११९.२ ॥

击败了难敌和勇猛的苏由陀那,在战斗中杀死了渴望的(Jalasandha)迦罗桑陀,也击败了舍罗森的国王(萨提亚奇做到了这些)。

7.119.3

म्लेच्छांश्च बहुधा राजन्काश्यपुत्रं च संयुगे ।
निषादांस्तङ्कणांश्चैव कलिङ्गान्मगधानपि ॥ ७.११९.३ ॥

大王啊,许多种蛮族,以及在战斗中的迦叶波之子,尼沙陀人、堂迦那人、羯陵伽人和摩揭陀人(萨提亚奇也都击败了)。

7.119.4

केकयाञ्छूरसेनांश्च तथा पर्वतवासिनः ।
काम्भोजान्यवनांश्चैव वसातींश्च शिबीनपि ॥ ७.११९.४ ॥

还有迦迦耶人、舍罗森人、以及山居之人,憍萨罗人(羯眉波)、耶婆那人、婆萨提人和尸毗人(萨提亚奇也都击败了)。

7.119.5

कोसलान्मगधांश्चैव यातुधानान्सतित्तिरान् ।
एतांश्चान्यान्रणे हत्वाऽगच्छद्युद्धे स सात्यकिः ॥ ७.११९.५ ॥

在战斗中杀死了憍萨罗人、摩揭陀人、食人鬼(罗刹)、以及提提罗人,还有这些人和其他人,那位萨提亚奇在战斗中继续前进。

7.119.6

रुधिरौघनदीं घोरां केशशैवालशाद्वलाम् ।
शक्तिग्राहसमाकीर्णां छत्रहंसोपशोभिताम् ॥ ७.११९.६ ॥

一条可怕的血流之河,以头发为水藻与青草,布满枪矛般的鳄鱼,装饰着伞盖般的天鹅。

7.119.7

दुस्तरां भीरुभिर्नित्यं शूरलोकप्रवाहिनीम् ।
प्रवर्त्य हृषितो राजन्पुनर्यन्तारमब्रवीत् ॥ ७.११९.७ ॥

那条对怯懦者始终无法渡过、流向英雄世界的河流,大王啊,他驱车入河后欢喜地又对御者说道。

7.119.8

ध्वजनागाश्वकलिलं शरशक्त्यूर्मिमालिनम् ।
खङ्कमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥ ७.११९.८ ॥

旗帜、象群与战马密布,箭与矛的波涛为其花环,剑为鱼、锤为鳄,充满英雄兵器的巨大轰鸣。

7.119.9

प्राणापहारिणं रौद्रं वादित्रोद्धुष्टनादितम् ।
शूराणां सुखसंस्पर्शमस्पृश्यमथ भीरुणाम्।
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् ॥ ७.११९.९ ॥

夺人性命、可怖,充满乐器与呼喊之声;对英雄而言触之愉悦,对怯懦者则不可触及。亲爱的,我们已渡过德罗纳军队这难以横渡的大海。

7.119.10

जलसन्धबलेनाजौ पुरुषादैरिवावृतम् ।
अतोऽन्यत्पृतनाशेषं मन्ये कुनदिकामिव ॥ ७.११९.१० ॥

在战斗中被胜车(Jayadratha)之军包围,仿佛被食人罗刹所围;除此之外,我视余下的全军如同一条小溪。

7.119.11

तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम् ।
हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम् ॥ ७.११९.११ ॥

穿过那条水浅可渡的河,不慌不忙地策马前行。如今我认为,善用双手的射手阿周那已在我们触手可及之处。

7.119.12

निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ।
हार्दिक्यं योधवर्यं च मन्ये प्राप्तं धनञ्जयम् ॥ ७.११९.१२ ॥

在战斗中征服了不可战胜的德罗纳及其步兵与随从之后,我认为我们已抵达心之子(Hārdikya)与最优秀的战士财征(Dhanañjaya)。

7.119.13

न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः ।
वह्नेरिव प्रदीप्तस्य वने शुष्कतृणालयम् ॥ ७.११९.१३ ॥

我看见众多军队,心中却不生恐惧,正如森林中燃烧的烈火落在干草的居所上。

7.119.14

पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना ।
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ॥ ७.११९.१४ ॥

看那被般度之长、戴冠者所踏过的大地,已被倒下的步兵、马、车与象群弄得高低不平。

7.119.15

द्रवते तद्यथा सैन्यं तेन भग्नं महात्मना ।
रथैर्विपरिधावद्भिर्गजैरश्वैश्च सारथे।
कौशेयारुणसंकाशमेतदुद्वूयते रजः ॥ ७.११९.१५ ॥

御者啊,被那位伟大者击溃的军队便如此奔逃;战车、象与马四处奔驰,于是这如红绸般的尘土扬起。

7.119.16

अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् ॥ ७.११९.१६ ॥

我想,白马之主、以黑天为御者的阿周那正在近旁。

7.119.17

श्रूयते ह्येष निर्घोषो जलदस्येव गर्जतः ।
विष्फार्यमाणस्य रणे गाण्डीवस्यामितौजसः ॥ ७.११९.१७ ॥

在战场上,无量威力的甘狄拔弓被拉开,发出如雷云轰鸣般的巨响,正被人听到。

7.119.18

अभ्याशस्थमहं मन्ये सैन्धवस्य किरीटिनम् ।
तादृशः श्रूयते शब्दः सैन्यानां सागरोपमः ॥ ७.११९.१८ ॥

我想,戴冠者正在信度王近旁,因为听到如大海般的军队喧声。

7.119.19

यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै ।
अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः ॥ ७.११९.१९ ॥

我眼前出现的这些征兆表明,太阳落山之前,阿周那将杀死信度王(胜车)。

7.119.20

शनैर्विस्रम्भयन्नश्वान्याहि यत्रारिवाहिनी ॥ ७.११९.२० ॥

慢慢安抚马匹,驱车前往敌军所在之处。

7.119.21

यत्रैते सतलत्रामाः सुयोधनपुरोगमाः ।
दंशिताः क्रूरकर्माणः काम्भोजा युद्धदुर्मदाः ॥ ७.११९.२१ ॥

在这些由苏耶陀那率领、披甲的战士所在之处,那些行事残酷、因战斗而狂妄的甘波遮人所在之处。

7.119.22

शरबाणासनधरा यवनाश्च प्रहारिणः ।
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः ॥ ७.११९.२२ ॥

手持箭、弓与箭囊的希腊人及攻击的战士;塞人、狩猎部族、达罗陀人、蛮族与坦摩梨底人。

7.119.23

अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ।
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ॥ ७.११९.२३ ॥

还有许多其他手持各种兵器、一心求战的蛮夷,都正面对着我。

7.119.24

एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः ।
इदं दुर्गं महाघोरं तीर्णमेवोपधारय ॥ ७.११९.२४ ॥

在战斗中连同战车、象和马杀死这些敌人之后,要知道这座极其可怕的险关已经穿越了。

7.119.25

न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम ।
यद्यपि स्यात्तव क्रुद्धो जामदग्न्योऽग्रतः स्थितः ॥ ७.११९.२५ ॥

啊,毗湿尼之后,真勇之士啊,即使持斧的耶摩达格尼之子(帕拉舒罗摩)在你面前震怒而立,我心中也毫无慌乱。

7.119.26

द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा ।
तथापि सम्भ्रामो न स्यात्त्वामाश्रित्य महाभुज ॥ ७.११९.२६ ॥

即使德罗纳、车战者中最优秀的克里帕,或摩德罗王(沙利耶)在场,只要依靠你,啊,大臂者,我心中也不会有慌乱。

7.119.27

त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन ।
दंशिताःक्रूरकर्माणः काम्भोजा युद्धदुर्मदाः ॥ ७.११९.२७ ॥

啊,灭敌者,你在战斗中已战胜了许多人,包括那些行事残酷、披甲、因战争的骄傲而狂醉的憍萨罗人。

7.119.28

शरवाणासनधरा यवनाश्च प्रहारिणः ।
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः।
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ॥ ७.११९.२८ ॥

手持箭矢、弓与箭囊的希腊人,善于击打的塞人,以及居住于山林的基拉塔人、达罗陀人、野蛮人与丹摩梨底人;还有许多手持各种兵器的其他蛮族。

7.119.29

न च मे सम्भ्रमः कश्चिद्भूतपूर्वः कथञ्चन ।
किमुतैतत्समासाद्य धीरं संयुगगोष्पदम् ॥ ७.११९.२९ ॥

我以前从未在任何情形下心生慌乱,何况如今在战场上遇到这一小小的险阻,犹如牛蹄印那般微不足道,坚定的人怎会慌乱呢?

7.119.30

आयुष्मन्कतरेण त्वां प्रापयामि धनञ्जयम् ।
केभ्यः क्रुद्धोऽसि वार्ष्णेय कान्स्विन्मृत्युरुपस्थितः ॥ ७.११९.३० ॥

长寿者啊,我该由其中哪一条路,把你带到财富征服者(阿周那)那里?毗湿尼之后啊,你对谁愤怒?死亡又已降临于何人面前?

7.119.31

केषां सङ्घमनीकस्य हन्तुमुत्सहते मनः ।
केत्वां युधि पराक्रान्तं कालान्तकयमोपमम् ॥ ७.११९.३१ ॥

你的心渴望歼灭谁的军队?谁敢在战场上迎战你这位英勇、如同时间终结之神阎摩的人?

7.119.32

दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे ।
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ॥ ७.११९.३२ ॥

见你威武非凡,战场上谁会逃跑?啊,大臂者,今日毗婆娑之子、国王阎摩又在思念谁?

7.119.33

मुण्डानेतान्हनिष्यामि दानवानिव वासवः ।
प्रतिज्ञां पारयिष्यामि काम्भोजानेव मां वह ॥ ७.११९.३३ ॥

这些光头之徒,我将如因陀罗诛杀檀那婆一般诛杀。我要践行誓言;驾车向坎波阇人那里去吧。

7.119.34

…कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ॥ ७.११९.३४ ॥

……大肆杀戮之后,我将迅速前往般度之子那里。

7.119.35

…यन्ति मे वीर्यं कौरवाः ससुयोधनाः ।
…नाके हते सूत सर्वसैन्येषु चासकृत् ॥ ७.११९.३५ ॥

……柯罗婆们与苏约达那一同将迎战我的武勇……送往天界,啊御者;在所有军队中一再(被杀)。

7.119.36

अद्य कौरवसैन्यस्य दीर्घमाणस्य संयुगे ।
श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः ॥ ७.११९.३६ ॥

今日战场上,听到柯罗婆军队长久的哀号,苏约达那将以种种方式受到煎熬。

7.119.37

अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः ।
आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे ॥ ७.११९.३७ ॥

今日于战场上,我将为白马的大德、般度子孙中的首领,指出老师所开辟的道路。

7.119.38

अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः ।
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ॥ ७.११९.३८ ॥

今日见我箭下倒毙的成千上万的勇士,国王难敌将悔恨。

7.119.39

अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् ।
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ॥ ७.११९.३९ ॥

今日我快手发射上好的箭时,俱卢人将看到我的弓如同火轮。

7.119.40

मत्सायकचिताङ्गानां रुधिरं स्रवतां मुहुः ।
सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः ॥ ७.११९.४० ॥

见士兵身被我箭射穿、血流不止、被屠杀,苏雅陀那将痛苦。

7.119.41

अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान् ।
द्विफल्गुनामिमं लोकं मंस्यतेऽद्य सुयोधनः ॥ ७.११९.४१ ॥

今日见我怒目而立,斩杀最优者中的最优者,苏雅陀那将以为此世界有两位法尔古那。

7.119.42

अद्य राजसहस्राणि निहतानि मया रणे ।
दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे ॥ ७.११९.४२ ॥

今日我在战场上杀死了成千上万的国王;国王难敌见此,将在这场大战中痛苦。

7.119.43

अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु ।
हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ॥ ७.११९.४३ ॥

今日,我将杀尽千百君王,向诸王展示我对伟大的般度之子们的情谊与忠诚。

7.119.44

बलं वीर्यं कृतज्ञत्वं मम ज्ञास्यन्ति कौरवाः ॥ ७.११९.४४ ॥

考鲁族人将知道我的力量、勇武与感恩之心。

7.119.45

एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः ।
शशाङ्कसन्निकाशान्वै वाजिनो व्यनुदद्भृशम् ॥ ७.११९.४५ ॥

御者听闻此言,便猛力驱策那些训练有素、善于牵引、如月般洁白的骏马。

7.119.46

ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः ।
प्रापयन्यवनाञ्शनीघ्रं मनः पवनरंहसः ॥ ७.११९.४६ ॥

那些良马仿佛要饮尽天空,以风与心念般的速度,迅速将游檀那带到了耶婆那人之处。

7.119.47

सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम् ।
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ॥ ७.११९.४७ ॥

许多手法敏捷的战士接近了在军阵中毫不退却的萨提亚基,以箭雨将他覆盖。

7.119.48

तेषामिषूनथास्त्राणि वेगवान्नतपर्वभिः ।
अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ॥ ७.११९.४८ ॥

大王啊,迅捷的萨提亚基以弯曲有节的箭斩断了他们的箭与兵器,他们的箭竟无法触及他。

7.119.49

रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः ।
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ॥ ७.११९.४९ ॥

那位猛烈的勇士以镶金箭杆、极其锋利、饰有秃鹫羽毛、笔直飞行的箭,砍下了耶婆那人的头颅和手臂。

7.119.50

शैक्यायसानि वर्माणि कांस्यानि च समन्ततः ।
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ॥ ७.११९.५० ॥

四面贯穿钢铁和青铜的铠甲,又穿透他们的身体,箭矢落到了地面。

7.119.51

ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे ।
शतशोऽभ्यपतंस्तत्र व्यसवो वसुधातले ॥ ७.११९.५१ ॥

那些蛮族在战场上被英雄萨提亚奇击杀,成百上千地死去,无生命地倒在大地之上。

7.119.52

सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः ।
पञ्च षट् सप्त चाष्टौ च भिभेद यवनाञ्शरैः ॥ ७.११९.५२ ॥

他以完全拉满、全力射出、连绵密集的箭矢,一次刺穿了五、六、七、八名耶婆那人。

7.119.53

काम्भोजानां सहस्रैश्च शकानां च विशाम्पते ।
शबराणां किरातानां बर्बराणां तथैव च ॥ ७.११९.५३ ॥

还有数以千计的甘波闍人、塞种人,以及夏巴拉人、吉罗多人和野蛮人,也都如此,哦,人民之主。

7.119.54

अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम् ।
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ॥ ७.११९.५४ ॥

在那里,希尼之后裔萨提亚奇摧毁了你的军队,使大地变得无法通行,满是血肉泥泞。

7.119.55

दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धदौः ।
दीर्घकूर्चैर्मही कीर्णा विबर्हैरण्डजैरिव ॥ ७.११९.५५ ॥

大地上散落着盗贼被斩下的头颅,头盔仍戴着,发髻已被削去,长须垂落,如同卵生鸟类的羽毛散落一般。

7.119.56

रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ ।
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ॥ ७.११९.५६ ॥

他们周身浸满鲜血,使这片战场光彩夺目,满地皆是无头的躯干,如同天空被铜色云朵笼罩。

7.119.57

वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः ।
ते सात्वतेन निहताः समावव्रुर्वसुन्धराम् ॥ ७.११९.५७ ॥

萨陀多的后裔以触感如金刚与霹雳、直飞且节节精良的箭射倒了他们,他们遂倒满大地。

7.119.58

तेषामस्त्राणि बाणांश्च शैनेयो नतपर्वभिः ।
निचकर्त महाराज यवनानां शिरोधराः ॥ ७.११९.५८ ॥

大王啊!希尼之后以节节弯曲的箭斩断了他们的兵器与箭矢,又斩下了耶婆那人的颈项。

7.119.59

ते शरा नतपर्वाणो युयुधानप्रचोदिताः ।
हित्वा देहांस्तथा तेषां पतन्ति स्म महीतले ॥ ७.११९.५९ ॥

那些由尤尤陀那驱使的节节弯曲之箭,离开了他们的身躯,纷纷坠落在大地之上。

7.119.60

ते हन्यमाना वीरास्तु वृष्णिवीरेण संयुगे ।
शस्त्राहताः पतन्त्युर्व्यां काम्भोजाः सपदानुगाः ॥ ७.११९.६० ॥

那些在战斗中被月氏英雄所杀的勇士,被兵器所伤,与步兵及随从一同倒在大地上,即迦波遮人。

7.119.61

काम्भोजानां भुजैश्छिन्नैर्यवनानां च भारत ।
तत्रतत्र मही भाति पञ्चास्यैरिव पन्नगैः ॥ ७.११९.६१ ॥

婆罗多啊,坎波惹人与耶槃那人被斩断的手臂遍布大地,此处彼处,大地仿佛盖满了五头蛇。

7.119.62

अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः ।
जिताः सङ्ख्ये महाराज युयुधानेन दंशिताः ॥ ७.११९.६२ ॥

大王啊,剩下的少数人,破碎不堪,勉强保住性命,神志昏乱,在战斗中被尤尤陀那征服并驱散。

7.119.63

पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान् ।
जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ॥ ७.११९.६३ ॥

以脚跟和鞭子鞭打马匹,全速前进,因恐惧而四散奔逃。

7.119.64

काम्भोजसैन्यं विद्राव्य दुर्जयं युधि भारत ।
यवनानां च तत्सैन्यं शकानां च महद्बलम् ॥ ७.११९.६४ ॥

婆罗多啊,他在战斗中击溃了不可战胜的坎波惹军队,也击溃了耶槃那人的那支军队和沙迦人的强大力量。

7.119.65

ततः स पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः ।
प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ॥ ७.११९.६५ ॥

那时,真勇的人中猛虎萨提亚奇欢喜不已,战胜了你方的战士,便催促御者说:“前进!”

7.119.66

तत्तस्य समरे कर्म दृष्ट्वाऽन्यैरकृतं पुरा ।
चारणाः सहगन्धर्वाः पूजयाञ्चक्रिरे भृशम् ॥ ७.११९.६६ ॥

乐神与干闼婆见到他在战斗中的这一功业,是前所未有他人所未作的,便大为赞美他。

7.119.67

तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशाम्पते ।
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन् ॥ ७.११९.६७ ॥

人主啊,看到那守护阿周那背后、正在离去的人,行者们欢喜,而你的人也向他致敬。