摩诃婆罗多 · 章 7.130
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.130.1
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते ।
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात्।
त्वरन्नेकरथेनैव बहु कृत्यं विचिन्तयन् ॥ ७.१३०.१ ॥
当那支军队陷入混乱,阿周那已前往信度王身边,萨提奇与毗摩那也已离去之时,你的儿子一边思量着诸多职责,一边独自驾着一辆战车急速来到德罗纳面前。
7.130.2
स रथस्तव पुत्रस्य त्वरया परया युतः ।
तूर्णमभ्यद्रवद्द्रोणं मनोमारुतवेगवान् ॥ ७.१३०.२ ॥
你儿子的那辆战车,以极快的速度套好,快如思想与风,立刻向德罗纳冲去。
7.130.3
इह दृष्ट इतो नष्टः सरथः प्राद्रवन्नृपः ।
मुहूर्तादिव पुत्रस्ते द्रोणमासाद्य मारिष।
ससम्भ्रमामिदं वाक्यमब्रवीत्कुरनन्दनः ॥ ७.१३०.३ ॥
"在此见到,从此消失"——国王驾车逃走了。尊者啊,仿佛转瞬之间,你的儿子已来到德罗纳面前,这位库鲁族的喜悦者惊慌地说出了这些话。
7.130.4
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ।
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः ॥ ७.१३०.४ ॥
阿周那、毗摩那,以及不败的萨提奇——这些大车将,战胜了所有庞大的军队。
7.130.5
सम्प्राप्ताः सिन्धुराजस्य समीपमनिवारिताः ।
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥ ७.१३०.५ ॥
他们毫无阻碍地抵达信度王身边,在那里,他们全都不败,竭尽全力地奋战。
7.130.6
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः ।
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥ ७.१३०.६ ॥
如果那位大车将普利塔之子(阿周那)在战斗中已经冲过去了,那么,尊贵的施礼者啊,你是如何冲过萨提奇与毗摩的阻截的?
7.130.7
आश्चर्यभूतो लोकेऽस्मिन्समुद्रस्येव शोषणम् ।
निर्जयस्तव विप्राग्र्य सात्वतेनार्जुनेन च।
तथैव भीमसेनेन लोकः संवदते भृशम् ॥ ७.१३०.७ ॥
在这世上,这真是奇事,如同大海枯竭:尊贵的婆罗门啊,你被萨特瓦塔(萨提亚基)和阿周那所败,也同样被毗摩森所败——人们对此议论纷纷。
7.130.8
कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः ।
इत्येवं ब्रुवते योधा अश्रद्धेयमिदं तव ॥ ७.१३०.८ ॥
精通弓箭之学的德罗纳,在战斗中怎会被击败?战士们如此说;你这番话令人难以置信。
7.130.9
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे ।
यत्र त्वां पुरुषव्याघ्रं व्यतिक्रान्तास्त्रयो रथाः ॥ ७.१३०.९ ॥
对我这个命运不济的人来说,战场上必定是毁灭;在那里,人中之虎啊,三位车战勇士越过了你。
7.130.10
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् ।
यद्गतं गतमेवेदं शेषं चिन्तय मानद ॥ ७.१३०.१० ॥
事已至此,请说出你关于此事想说的话。已经过去的便已过去;赐予尊荣者啊,请考虑剩下的事。
7.130.11
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् ।
तत्संविधीयतां क्षिप्रं साधु सञ्चिन्त्य नो द्विज ॥ ७.१३०.११ ॥
凡是应对信度王迅速行的、在合适时机即刻要做的事,请为我们仔细考虑后尽快安排,婆罗门啊。
7.130.12
चिन्त्यं बहुविधं तात यत्कृत्यं तच्छृणुष्व मे ।
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥ ७.१३०.१२ ॥
亲爱的儿子,此事须从多方面考虑;请听我说应当怎样做。般度之子中有三位大车战勇士已经越过了我们。
7.130.13
यावत्तेषां भयं पश्चात्तावदेषां पुरःसरम् ।
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ ॥ ७.१३०.१३ ॥
他们身后有多少恐惧,前方也有多少。我认为克利须那与持财者所在之处更为沉重。
7.130.14
सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ।
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् ॥ ७.१३०.१४ ॥
那支婆罗多军队前后都被围住了。我认为那里的责任是保护信度王。
7.130.15
स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ।
गतौ च सैन्धवं भीमौ युयुधानवृकोदरौ ॥ ७.१३०.१५ ॥
孩子,我们必须最要保护他,免于愤怒而恐惧的持财者。毗摩与尤尤丹那已朝信度王而去。
7.130.16
सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ।
न सभायां जयो वृत्तो नापि तत्र पराजयः।
इह नो ग्लहमानानामद्य तावज्जयाजयौ ॥ ७.१३०.१६ ॥
那由沙恭尼的智谋所生的赌局已经来临。在大会上既无胜利也无失败。而今天在这里,对我们这些赌博者而言,胜负尚未分晓。
7.130.17
यान्स्म तान्ग्लहते घोराञ्छकुनिः कुरुसंसदि ।
अक्षान्स मन्यमानः प्राक्शरास्ते हि दुरासदाः ॥ ७.१३०.१७ ॥
沙恭尼在俱卢大会上押注的那些可怕骰子,他先前以为是骰子;其实它们是难以抵挡的箭矢。
7.130.18
यत्र ते बहवस्तात कौरवेया व्यवस्थिताः ।
सेनां दुरोदरं विद्धि शरानक्षान्विशाम्पते।
ग्लहं च सैन्धवं राजंस्तत्र द्यूतस्य निश्चयः ॥ ७.१३०.१८ ॥
孩子,在你那众多的俱卢子孙所立之处,要把军队视为赌盘,把箭矢视为骰子;国王啊,信度王就是赌注,赌局的决断就在那里。
7.130.19
सैन्धवे तु महद्द्यूंत समासक्तं परैः सह ।
अत्र ते ध्रुवमायत्तो जयो वाऽजय एव वा ॥ ७.१३०.१९ ॥
关于信度罗,与敌人之间已下了一场大赌注。此处你的胜负必定系于此事。
7.130.20
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः ।
सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ।
तत्र नो ग्लहमानानां ध्रुवौ जयपराजयौ ॥ ७.१३०.२० ॥
大王啊,此处你们都应舍弃性命,依法在战斗中保护信度罗。在那里,对于我们这些下注者,胜负是注定的。
7.130.21
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् ।
तत्र गच्छ स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥ ७.१३०.२१ ॥
你自己快去那些已做好准备的大弓箭手守护信度罗之处,并保护那些守卫者。
7.130.22
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् ।
निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥ ७.१३०.२२ ॥
我将留在此处并派遣他人,并阻挡与般度之子和斯罗涅耶人联合的般遮罗人。
7.130.23
ततो दुर्योधनोऽगच्छत्तूर्णमाचार्यशासनात् ।
उद्यम्यात्मानमुग्राय कर्मणे स पदानुगः ॥ ७.१३०.२३ ॥
于是难敌依照师尊的命令迅速前往,为那场凶猛的行动做好准备,徒步跟随。
7.130.24
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥ ७.१३०.२४ ॥
两位般遮罗王子,即护车者优陀摩尼与乌达摩奥伽,穿过外部军队来到左右开弓者(阿周那)处。
7.130.25
यौ तु पूर्वं महाराज वारितौ कृतवर्मणा ।
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥ ७.१३०.२५ ॥
大王啊,先前被Kṛtavarman所阻拦的那二人,当阿周那进入时,王啊,怀着战斗之欲冲入了你的军队。
7.130.26
पार्श्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम् ।
पार्श्वेन सैन्यमायान्तौ कुरुराजो ददर्श ह ॥ ७.१३०.२६ ॥
二位英雄从侧翼穿破军阵,进入你的军队;从侧面向军队而来的他们,被库鲁王看见了。
7.130.27
ताभ्यां दुर्योधनः सार्धमकरोत्सङ्ख्यमुत्तमम् ।
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥ ७.१३०.२७ ॥
与他们二人一同,强大的婆罗多子孙难敌商议了最上之策,那两位快速奔来的兄弟也在其中。
7.130.28
तावेनमभ्यद्रवतामुभावुद्यतकार्मुकौ ।
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥ ७.१३०.२८ ॥
二人举起弓箭向他冲去;二人皆以大车战士闻名,是战场上刹帝利中的翘楚。
7.130.29
तमविध्यद्युधामन्युस्त्रिंशता कङ्कपत्रिभिः ।
विंशत्या सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥ ७.१३०.२९ ॥
尤达曼尤以三十支鸧鹤羽箭射中他,二十支射向他的御者,四支射向他的四匹马。
7.130.30
दुर्योधनो युधामन्योर्ध्वजमेकेषुणाऽच्छिनत् ।
एकेन कार्मुकं चास्य चकर्त तनयस्तव ॥ ७.१३०.३० ॥
难敌以一支箭斩断了尤达曼尤的旗帜;你的儿子也以一支箭斩断了他的弓。
7.130.31
सारथिं चास्य भल्लेन रथनीडादपाहरत् ।
ततोऽविध्यच्छरैस्तीक्ष्णैश्चतुर्भिश्चतुरो हयान् ॥ ७.१३०.३१ ॥
他以一支月牙箭将其御者从车座上射落。随后以四支利箭射中四匹马。
7.130.32
युधामन्युश्च सङ्क्रुद्धः सरांस्त्रिंशतमाहवे ।
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥ ७.१३०.३२ ॥
युधामन्यु怒火中烧,在战斗中急忙向你儿子的胸膛射出三十支箭。
7.130.33
तथोत्तमौजाः सङ्क्रुद्धः शरैर्हेमविभूषितैः ।
अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम् ॥ ७.१३०.३३ ॥
同样,怒火中烧的优搭摩遮斯以金饰的箭射穿其御者,将他送往阎摩之处。
7.130.34
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्यौत्तमौजसः ।
जघान चतुरोऽस्याश्चानुभौ तौ पार्ष्णिसारथी ॥ ७.१३०.३४ ॥
大王啊,难敌也杀死了般遮罗的优搭摩遮斯的四匹马及其两名后方御者。
7.130.35
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे ।
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥ ७.१३०.३५ ॥
优搭摩遮斯的马匹与御者皆已被杀,他在战斗中急忙登上其兄弟युधामन्यु的战车。
7.130.36
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः ।
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥ ७.१३०.३६ ॥
他抵达其兄的战车,以许多箭射击难敌的马匹;马被射死,倒在地上。
7.130.37
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा ।
युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे।
अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम् ॥ ७.१३०.३७ ॥
当他的马倒下时,他以至高之箭迅速斩断了他的弓,并在战斗中斩断了他的箭袋。他射穿了他的御者,将其送往阎摩的住所。
7.130.38
हताश्वसूतात्सरथादवतीर्य नराधिपः ।
गदामादाय ते पुत्रः पाञ्चल्यावभ्यधावत ॥ ७.१३०.३८ ॥
他从马与御者皆已被杀的战车上下来,那位人主、你的儿子,拿起铁锤,冲向两位般遮罗人。
7.130.39
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं कुरुपतिं तदा ।
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥ ७.१३०.३९ ॥
见愤怒的俱卢之主冲来,于是尤陀摩尤与乌塔摩萧都从车台上跳下。
7.130.40
ततः स हेमचित्रं तं गदया स्यन्दनं गती ।
सङ्क्रुद्धः पोथयामास साश्वसूतध्वजं नृप ॥ ७.१३०.४० ॥
于是他极其愤怒,用铁锤砸碎了那辆饰有金纹、向他们驶来的战车,连同其马、御者与旗帜,哦王。
7.130.41
एतदीदृशकं पुत्रस्तवाकार्षीज्जनाधिप ।
गदया गदिनां श्रेष्ठः सर्वलोकमहारथः ॥ ७.१३०.४१ ॥
你的儿子,持杖者中的最优者,闻名于一切世界的大战车武士,哦人主,以铁锤做了这样的事。
7.130.42
भङ्क्त्वा रथं स पुत्रस्ते हताश्वो हतसारथिः ।
मद्रराजरथं तूर्णमारुरोह परन्तपः ॥ ७.१३०.४२ ॥
你的儿子,令敌人受苦者,砸毁了自己的战车,马与御者皆已战死,迅速登上了摩德罗王的战车。
7.130.43
पाञ्चालानां ततो मुख्यौ राजपुत्रौ महारथौ ।
रथावन्यौ समारुह्य बीभत्सुमभिजग्मुतः ॥ ७.१३०.४३ ॥
于是般遮罗的两位主要王子,大车士,登上其他战车,向比毗沙(阿周那)进发。