摩诃婆罗多 · 章 7.165
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.165.1
प्रकाशिते तदा लोके रजसा तमसावृते ।
समाजग्मुरथो वीराः परस्परवधैषिणः ॥ ७.१६५.१ ॥
当世界被照亮,却被尘土与黑暗所笼罩时,那些渴望彼此死亡的英雄们聚集在一起。
7.165.2
ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः ।
परस्परमुदैक्षन्त परस्परकृतागसः ॥ ७.१६५.२ ॥
国王啊,他们手持兵器、长矛和利剑,在战场上相遇,彼此怒目相视,因为他们曾相互伤害。
7.165.3
प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः ।
रत्नाचितैः स्वर्णदण्डैर्गन्धतैलावसिञ्चितैः ॥ ७.१६५.३ ॥
成千上万的灯盏从四面燃烧,浸透着香油,镶嵌宝石,带着金柄。
7.165.4
देवगन्धर्वदीपाद्यैः प्रभाभिरधिकोज्ज्वलैः ।
विरराज तदा भूमिर्ग्रहैर्द्यौरिव भारत ॥ ७.१६५.४ ॥
借着诸神、乾闼婆等的灯火更加明亮的光辉,大地那时闪耀,婆罗多啊,如同天空以星辰闪耀一般。
7.165.5
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत ।
दह्यमानेव लोकानामभावे च वसुन्धरा ॥ ७.१६५.५ ॥
数百支燃烧的火炬照亮了战场,仿佛世界末日时大地在燃烧。
7.165.6
व्यदीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः ।
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः ॥ ७.१६५.६ ॥
这些灯火照亮了所有方向,如同雨季的傍晚,树木被萤火虫覆盖。
7.165.7
असज्जन्त ततो वीरा विरेष्वेव पृथक्पृथक् ।
नागा नागैः समाजग्मुस्तुरगा हयसादिभिः।
रथा रथवरैरेव समजग्मुर्मुदा युताः ॥ ७.१६५.७ ॥
于是勇士们各自在队列中分别交锋。象与象相遇,骑兵与骑兵相遇,最优秀的车战勇士与车战勇士相遇,满怀喜悦。
7.165.8
तस्मिन्रात्रिमुखे घोरे तव पुत्रस्य शासनात् ।
चतुरङ्गस्य सैन्यस्य सम्पातश्च महारनभूत् ॥ ७.१६५.८ ॥
在那可怕的夜幕降临之际,依你儿子的命令,四军之间发生了一场激烈的冲撞。
7.165.9
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् ।
व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् ॥ ७.१६५.९ ॥
于是,大王啊,阿周那急速冲击,击溃了俱卢军的一支部队,并歼灭了所有的国王。
7.165.10
तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् ।
अमृष्यमाणे दुर्धर्षे कथमासीन्मनो हि वः ॥ ७.१६५.१० ॥
当他愤怒地冲入我儿子的军队时,你们这些不可战胜、无法忍受的人,心中是何感受?
7.165.11
किमकुर्वत सैन्यानि प्रविष्टे परषीडने ।
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥ ७.१६५.११ ॥
当那位使敌人痛苦的人闯入时,军队做了什么?而难敌认为此时应尽何种职责?
7.165.12
के चैनं समरे वीरं प्रत्युद्ययुररिन्दमाः ।
द्रोणं च के व्यरक्षन्त प्रविष्टे श्वेतवाहने ॥ ७.१६५.१२ ॥
哪些降伏敌人的勇士在战场上迎战那位英雄?当白马之人闯入时,谁来保护德罗纳?
7.165.13
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः ।
के पृष्ठतश्चाप्यभवन्वीरा वीरान्विनिघ्नतः।
के पुरस्तादगच्छन्त निघ्नन्तः शास्त्रवान्रणे ॥ ७.१६५.१३ ॥
谁守护右翼的车阵?谁在德罗纳左侧?哪些英雄留在后方,杀戮敌兵?谁精通武艺,在战场上冲向前方攻击?
7.165.14
यत्प्राविशन्महेष्वासः पाञ्चालनापराजिताः ।
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् ॥ ७.१६५.१४ ॥
那位被般遮罗人所不能战胜的大弓手,仿佛起舞般踏入战车之路:那人中之虎,勇力过人。
7.165.15
यो ददाह शरैर्द्रोणः पाञ्चालानां रथव्रजान् ।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥ ७.१६५.१५ ॥
德罗纳以箭焚毁般遮罗人的车队,如同愤怒的彗星,他是怎样遇到死亡的?
7.165.16
अव्यग्रानेव हि परान्कथयस्यपराजितान् ।
हृष्टानुदीर्णान्सङ्ग्रामे न तथा सूत मामकान् ॥ ७.१६५.१६ ॥
御者啊,你把敌人说成从容、不败、欢欣、振奋,却在战场上不这样说我方的人。
7.165.17
हतांश्चैव विदीर्णांश्च विप्रकीर्णांश्च शंससि ।
रथिनो विरथांश्चैव कृतान्युद्वेषु मामकान् ॥ ७.१६५.१७ ॥
你说我方的人在战斗中被杀、被撕裂、被四散驱散,有的仍在车上,有的已失车。
7.165.18
द्रोणस्य मतमाज्ञाय योद्वुकामस्य तां निशाम् ।
दुर्योधनो महाराज वश्यान्भ्रातॄनुवाच ह ॥ ७.१६५.१८ ॥
大王啊,德罗纳的意图已为人知,那一夜欲战的难敌对恭顺的兄弟们说道。
7.165.19
कर्णं च वृषसेनं च मद्रराजं च कौरव ।
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः ॥ ७.१६५.१९ ॥
迦尔纳、毗楼薛那和摩德罗国王,哦俱卢子孙;不可战胜的长臂者,以及跟随他们步行的人。
7.165.20
द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षन्तु पृष्ठतः ।
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा ॥ ७.१६५.२० ॥
你们众人,严阵以待、勇猛奋战,从后方护卫德罗纳;心底之子守右翼,沙利耶同样守左翼。
7.165.21
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः ।
तांश्चैव पुरतः सर्वान्पुत्रस्ते समचोदयत् ॥ ७.१६५.२१ ॥
那些在屠杀中幸存的、勇猛的三乡(特里迦尔塔)大车战士,你们的儿子把他们全部驱向前方。
7.165.22
आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः ।
तं रक्षत सुसंयत्ता निघ्नन्तं शास्त्रवान्रणे ॥ ७.१६५.२२ ॥
老师已充分准备,而般度之子也极为警觉;他精通武器,在战场上击杀敌人,你们要做好准备,保护他。
7.165.23
द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः प्रतापवान् ।
निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् ॥ ७.१६५.२३ ॥
德罗纳在战场上强大、手法敏捷、威勇非凡;他在战场上甚至能战胜诸神,更何况与索摩迦人同在的普利塔之子呢?
7.165.24
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः ।
द्रोणं रक्षत पाञ्चालाद्धृष्टद्युम्नान्महारथात् ॥ ७.१६५.२४ ॥
你们众大车战士一起,极为警觉,从般遮罗的大车战士德里斯塔笃姆那手中保护德罗纳。
7.165.25
पाण्डवीयेषु सैन्येषु न तं पश्याम कञ्चन ।
यो योधयेद्रणे द्रोणं धृष्टद्युम्नादृते पुमान् ॥ ७.१६५.२५ ॥
在般度人的军队中,我们看不到任何人能在战场上与德罗纳交战,除了德里什塔德尤摩那。
7.165.26
तस्मात्सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् ।
सुगुप्तः पाण्डवान्हन्यात्सृञ्जयांश्च ससोमकान् ॥ ७.१६५.२६ ॥
因此我全心认为应当保护婆罗堕伽之子;若得到妥善保护,他将杀尽般度族、斯林遮耶人和索摩迦人。
7.165.27
सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे ।
धृष्टद्युम्नं रमे द्रौणिर्हनिष्यति न संशयः ॥ ७.१६५.२७ ॥
待斯林遮耶人在军阵前列全部被杀后,德罗纳之子必定杀死德里什塔德尤摩那,此事无疑。
7.165.28
तथाऽर्जुनं च राधेयो हनिष्यति महारथः ।
भीमसेनमहं चापि युद्धेजेष्यामि दीक्षितः।
शेषांश्च पाण्डवान्योधाः प्रसभं हीनतेजसः ॥ ७.१६५.२८ ॥
同样,大车将迦尔纳将杀死阿周那;而我已立誓投入战斗,将战胜怖军,并将其余般度族及其战士们失去光辉后强行击败。
7.165.29
सोयं मम जयो व्यक्तो दीर्घकालं भविष्यति ।
तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथम् ॥ ७.१६५.२९ ॥
我的胜利将明显并长久持续;因此,在战斗中请保护大车将德罗纳。
7.165.30
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्याधनस्तव ।
व्यादिदेश तथा सैन्यं तस्मिंस्तमसि दारुणे ॥ ७.१६५.३० ॥
婆罗多之最啊,你的儿子难敌说完这番话,便在那可怕的黑暗中向军队下达了命令。
7.165.31
ततः प्रववृते युद्धं रात्रौ भरतसत्तम ।
उभयोः सेनयोर्घोरं परस्परजिगीषया ॥ ७.१६५.३१ ॥
婆罗多之最啊,那时夜间,两军之间爆发了可怕的战斗,彼此都渴望战胜对方。
7.165.32
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः ।
नानाशस्त्रसमावायैरन्योन्यं समपीडयन् ॥ ७.१६५.३२ ॥
阿周那击打俱卢军,俱卢人也击打阿周那,以各种兵器如雨般彼此猛攻。
7.165.33
द्रौणिः पाञ्चालराजं च भारद्वाजश्च सृञ्जयान् ।
छादयांचक्रिरे सङ्ख्ये शरैः सन्नतपर्वभिः ॥ ७.१६५.३३ ॥
德罗尼之子覆盖了般遮罗王,婆罗堕阇之子(德罗纳)则在战场上以节段弯曲的箭覆盖了悉兰遮耶人。
7.165.34
पाण्डुपाञ्चालसैन्यानां कौरवाणां च भारत ।
आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ॥ ७.१६५.३४ ॥
婆罗多啊,在般度与般遮罗军队以及俱卢军中,彼此击杀的人们发出了可怕的如鼓般的轰鸣。
7.165.35
नैवास्माभिस्तथा पूर्वैर्दृष्टपूर्वं तथाविधम् ।
युद्धं यादृशमेवासीत्तां रात्रि सुभयावहम् ॥ ७.१६५.३५ ॥
我们和祖先从未见过这样的战斗,那一夜它带来了巨大的恐怖。