Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.190

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.190.1

तस्मिंस्तथा वर्तमाने गजाश्वनरसंक्षये ।
दुःशासनो महाराज धृष्टद्युम्नमयोधयत् ॥ ७.१९०.१ ॥

大王啊,当象、马与人被毁灭的那场战斗如此进行时,难降与德勇(Dhṛṣṭadyumna)交战。

7.190.2

स तु रुक्मरथासक्तो दुःशासनशरार्दितः ।
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ॥ ७.१९०.२ ॥

然而他坐在金车上,受难降的箭所苦,因对你的儿子愤怒,便以箭遮盖了马匹。

7.190.3

क्षणेन स रथस्तस्य सध्वजः सहसारथिः ।
नादृश्यत महाराज पार्षतस्य शरैश्चितः ॥ ७.१९०.३ ॥

大王啊,转瞬之间,帕尔沙塔之子的那辆战车连同旗帜与御者,被箭雨遮盖,不再可见。

7.190.4

दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः ।
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ॥ ७.१९०.४ ॥

然而,王中之王啊,难降无法在伟大的般遮罗王子面前站立,被箭网所苦。

7.190.5

स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः ।
किऱञ्छरसहस्राणि द्रोणमेवाभ्ययाद्रणे ॥ ७.१९०.५ ॥

帕尔沙塔之子以箭将难降逼退,倾洒数千支箭,在战场上径直向德罗纳(Droṇa)前进。

7.190.6

अभ्यपद्यत हार्दिक्यः कृतवर्मा त्वनन्तरम् ।
सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् ॥ ७.१९०.६ ॥

随后,希尔迪基亚·克里达瓦尔曼向他进攻,你的三位兄弟将他包围。

7.190.7

तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ ।
द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् ॥ ७.१९०.७ ॥

两位如人中公牛的孪生兄弟在后面跟随并保护他,他像火焰一样闪耀着走向德罗纳。

7.190.8

सम्प्रहारमकुर्वंस्ते सर्वे च सुमहारथाः ।
अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ॥ ७.१९०.८ ॥

所有那些大战车武士发动猛烈攻击,他们愤怒而勇敢,将死亡置于面前。

7.190.9

शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः ।
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ॥ ७.१९०.९ ॥

大王啊,他们心地纯洁、品行端正,以天界为目标,渴望彼此战胜,进行了高尚的战斗。

7.190.10

शुक्लाभिजनकर्माणो मतिमन्तो जनाधिप ।
धर्मयुद्धमयुध्यन्त प्रेप्सन्तो गतिमुत्तमाम् ॥ ७.१९०.१० ॥

人主啊,出身高洁、行事光明的智者们进行了正义之战,追求至高的归宿。

7.190.11

न तत्रासीदधर्मिष्ठमशस्तं युद्धमेव च ।
नात्र कर्णी न नालीको न लिप्तो न च बस्तिकः ॥ ७.१९०.११ ॥

那里没有不义和被禁止的战争,没有带倒钩的箭、没有隐藏的箭、没有涂毒的箭,也没有膀胱状的箭。

7.190.12

न सूची कपिशो नैव न गवास्थिर्गजास्थिजः ।
न चूली बलिशस्तत्र न यमी नापि पाचकः।
इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ॥ ७.१९०.१२ ॥

没有针状箭,没有赭色的箭,没有牛骨或象骨制成的箭;没有带羽冠的、带倒刺的、成双的或“厨子”式的箭;也没有松脱的、腐臭的或飞行歪斜的箭。

7.190.13

ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् ।
सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च ॥ ७.१९०.१३ ॥

众人皆持正直纯净的兵器,欲以善战获得更高的世界与名声。

7.190.14

तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् ।
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ॥ ७.१९०.१४ ॥

于是爆发了一场喧嚣的战斗,毫无任何过失,你方四位勇士与那三位般度之子相战。

7.190.15

धृष्टद्युम्नस्तु तान्दृष्ट्वा तव राजन्रथर्षभान् ।
यमाभ्यां वारितान्वीराञ्छीघ्रास्त्रो द्रोणमभ्ययात् ॥ ७.१९०.१५ ॥

然而,持箭迅捷的 Dhṛṣṭadyumna 见到你方那些车上的雄杰被双 Yama 所阻,便朝德罗纳冲去。

7.190.16

निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः ।
समसज्जन्त चत्वारो वाताः पर्वतयोरिव ॥ ७.१९०.१६ ॥

然而,你方那四位勇士被两位人中雄狮所阻,便如狂风撞击山岳般相互冲击。

7.190.17

द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ ।
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ॥ ७.१९०.१७ ॥

两位 Yama 各率两车,皆为车战中的上将,在那里陷入缠斗;于是 Dhṛṣṭadyumna 向德罗纳前进。

7.190.18

दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् ।
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ॥ ७.१९०.१८ ॥

见般遮罗王子狂喜于战,向德罗纳前行,又见两位 Yama 陷入缠斗,他便从那空隙中疾冲而过。

7.190.19

दुर्योधनो महाराज किरञ्छोणितभोजनान् ।
तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ॥ ७.१९०.१९ ॥

大王啊,难敌一边洒射箭矢,一边迎战饮血者,更加迅猛地再次冲向萨提亚基。

7.190.20

तौ परस्परमासाद्य समीपे कुरुमाधवौ ।
हसमानौ नृशार्दूलावभीतौ समसज्जताम् ॥ ७.१९०.२० ॥

那二人——库鲁勇士与摩陀婆——彼此靠近,含笑,如人中猛虎,无所畏惧,相互搏击。

7.190.21

बाल्यवृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ ।
अन्योन्यं प्रेक्षमाणौ च स्मयमानौ पुनःपुनः ॥ ७.१९०.२१ ॥

二人回想起童年的种种往事,欢欣不已,彼此相视,一次又一次地微笑。

7.190.22

अथ दुर्योधनो राजा सात्यकिं समभाषत ।
प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः ॥ ७.१९०.२२ ॥

于是国王难敌对他亲爱的朋友萨提亚基说话,不断地责备自己的行为。

7.190.23

धिक् क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् ।
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ॥ ७.१९०.२३ ॥

耻辱于愤怒啊,朋友!耻辱于贪婪,耻辱于迷惑,耻辱于不能忍耐。耻辱于刹帝利的行为,也耻辱于本族所生的力量。

7.190.24

यत्र मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव ।
त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव ॥ ७.१९०.२४ ॥

啊,希尼族中最杰出者!你针对我、我针对你的地方——你对我比生命更亲,而我也始终对你亲切。

7.190.25

स्मरामि तानि सर्वाणि बाल्यवृत्तानि यानि नौ ।
तानि सर्वाणि जीर्णानि साम्प्रतं नो रणाजिरे।
किमन्यत्क्रोधलोभाभ्यां युद्धमेवाद्य सात्वत ॥ ७.१९०.२५ ॥

萨特瓦塔啊,我们两人童年时所做的一切,我都记得。如今在战场上,这一切都已褪色。今天因愤怒和贪婪而起的,除了战争还能是什么呢?

7.190.26

तं तथावादिनं तत्र सात्यकिः प्रत्यभाषत ।
प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ॥ ७.१९०.२६ ॥

那人在那里如此说话,精通至上神兵的萨提亚基笑着回答,并举起锐利的箭。

7.190.27

नेयं सभा राजपुत्र नाचार्यस्य निवेशनम् ।
यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ॥ ७.१९०.२७ ॥

王子啊,这不是老师的住处,也不是我们当年聚在一起游戏的地方,国王啊。

7.190.28

क्व सा क्रीडा गताऽस्माकं बाल्ये वै शिनिपुङ्गव ।
क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः ॥ ७.१९०.२८ ॥

最优秀的西尼啊,我们童年的那场游戏去了哪里?这场战争又在哪里,再度降临?时间实在是难以逾越的。

7.190.29

किन्तु नो विद्यते कृत्यं धनेन धनलिप्सया ।
यत्र युध्यामहे सर्वे धनलोभात्समागताः ॥ ७.१९०.२९ ॥

然而,我们为了贪求财富、因贪婪而聚集在此交战,在此处,我们已无关于财富的任何责任了。

7.190.30

तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् ।
एवं वृत्तं सदा क्षात्रं युध्यन्तीह गुरूनपि ॥ ७.१९०.३० ॥

那人在那里如此说话,摩陀婆对国王说道:刹帝利的行为一向如此,他们在此甚至与自己的师长交战。

7.190.31

यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः ।
त्वत्कृते सुकृतांल्लोकान्गच्छेयं भरतर्षभ ॥ ७.१९०.३१ ॥

国王啊,如果我为您所爱,请速杀我,不要迟延。为了您,我将往行善者之界,婆罗多之牛啊。

7.190.32

या ते शक्तिर्बलं यच्च तत्क्षिप्रं मयि दर्शय ।
नेच्छामि तदहं द्रष्टुं मित्राणां व्यसनं महत् ॥ ७.१९०.३२ ॥

无论你有怎样的力量与勇气,请快速在我身上施展。我不愿看到朋友们遭受如此巨大的灾难。

7.190.33

इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः ।
अभ्ययात्तूर्णमव्यग्रो दयां नाकुरुतात्मनि ॥ ७.१९०.३३ ॥

萨提亚基如此清楚地言语与应答之后,毫不慌乱地迅速前进,对自己毫不怜悯。

7.190.34

तमायान्तं महाबाहुं प्रत्यगृह्णात्तवात्मजः ।
शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ॥ ७.१९०.३४ ॥

你的儿子迎击那位大臂者的到来;国王啊,你的儿子向史尼之后裔倾泻箭雨。

7.190.35

ततः प्रववृते युद्धं कुरुमाधवसिंहयोः ।
अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ॥ ७.१९०.३५ ॥

于是,库鲁之狮与摩陀婆之狮之间展开了战斗;两人愤怒地彼此激烈交战,犹如两头狮象。

7.190.36

ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् ।
दुर्योधनः प्रत्यविध्यत्कुपितो दशभिः शरैः ॥ ७.१९०.३६ ॥

于是,愤怒的难敌以满弓射出的十支箭,击中了沉醉于战斗狂喜的萨多伐多。

7.190.37

तं सात्यकिः प्रत्यविध्यत्तथैवावाकिरच्छरैः ।
पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ॥ ७.१९०.३७ ॥

萨提亚基同样回击了他,并在战斗中再次以五十、三十和十支箭将他覆盖。

7.190.38

सात्यकिं तु रणे राजन्प्रहसंस्तनयस्तव ।
आकर्णपूर्णैर्निशितैर्विव्याध त्रिंशता शरैः ॥ ७.१९०.३८ ॥

国王啊,你的儿子笑着在战斗中用三十支拉到耳边的利箭射穿了萨提亚基。

7.190.39

ततोऽस्य सशरं चापं क्षुरप्रेण द्विधाऽच्छिनत् ॥ ७.१९०.३९ ॥

于是他用一支剃刀形箭把他的弓连同搭在上面的箭斩为两段。

7.190.40

सोऽन्यत्कार्मुकमादाय लघुहस्तस्ततो दृढम् ।
सात्यकिर्व्यसृजच्चापि शरश्रेणीं सुतस्य ते ॥ ७.१९०.४० ॥

于是灵巧的萨提亚基拿起另一把坚韧的弓,向你的儿子射出一阵箭雨。

7.190.41

तामापतन्तीं सहसा शरश्रेणीं जिघांसया ।
चिच्छेद बहुधा राजा तत उच्चुक्रुशुर्जनाः ॥ ७.१९०.४१ ॥

国王将那突然飞来、意在杀人的箭雨从各个方向斩断,于是人们高声呼喊。

7.190.42

सात्यकिं च त्रिसप्तत्या पीडयामास वेगितः ।
स्वर्णपुङ्खैः शिलाधौतैराकर्णापूर्णनिःसृतैः ॥ ७.१९०.४२ ॥

他迅速以七十三支箭射击萨提亚基,箭羽为金色,在石上磨亮,拉至耳边射出。

7.190.43

तस्य सन्दधतश्चेषु संहितेषु च कार्मुकम् ।
आच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाप्यवीविधत् ॥ ७.१९०.४३ ॥

当他搭箭张弓之时,萨提亚基迅速割断了他的弓,并以箭射伤了他。

7.190.44

स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरे ।
दुर्योधनो महाराज दाशार्हशरपीडितः ॥ ७.१९०.४४ ॥

他身受重伤、痛苦不堪,退到另一辆战车之后。大王啊,难敌被达沙尔哈(萨提亚基)的箭所折磨。

7.190.45

समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् ।
विसृजन्निषुजालानि युयुधानरथं प्रति ॥ ७.१९०.४५ ॥

此后,你的儿子重整心神,再次向萨提亚基进攻,朝着优瑜陀那的战车射出密集的箭网。

7.190.46

तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति ।
सततं विसृजन्राजंस्तत्सङ्कुलमवर्तत ॥ ७.१९०.४६ ॥

同样,萨提亚基也不断朝难敌的战车射出箭矢,大王啊,那场交战变得一片混乱。

7.190.47

तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च शरीरिषु ।
अग्नेरिव महाकक्षैः शब्दः समभवन्महान् ॥ ७.१९०.४७ ॥

那里,箭矢被射出并落在躯体上,发出巨大的声响,犹如大林中燃起的火焰。

7.190.48

तयोः शरसहस्रैश्च सञ्छन्नं वसुधातलम् ।
अगम्यरूपं च शरैराकाशं समपद्यत ॥ ७.१९०.४८ ॥

两人的千万支箭矢覆盖了大地表面,天空也被箭矢遮蔽,变得难以辨认其形状。

7.190.49

तत्राप्यधिकमालक्ष्य माधवं रथसत्तमम् ।
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव ॥ ७.१९०.४९ ॥

在那里,卡尔纳看见最优秀的御者摩陀婆(克里希那),想要保护你的儿子,便迅速冲向他。

7.190.50

न तु तं मर्षयामास भीमसेनो महाबलः ।
सोऽभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् ॥ ७.१९०.५० ॥

然而大力的怖军无法忍受,他急速向迦尔纳前进,射出许多箭。

7.190.51

तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव ।
धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ॥ ७.१९०.५१ ॥

迦尔纳仿佛含笑地挡开他那锐利的箭,斩断了他的弓和箭,并用箭射伤了御者。

7.190.52

भीमसेनस्तु सङ्क्रुद्धो गदामादाय पाण्डवः ।
ध्वजं धनुश्च सूतं च सम्ममर्दाहवे रिपोः ॥ ७.१९०.५२ ॥

然而愤怒的般度之子怖军举起狼牙棒,在战斗中将敌人的旗帜、弓和御者彻底砸碎。

7.190.53

रथचक्रं च कर्णस्य बभञ्ज स महाबलः ।
भग्नयक्रे रथेऽतिष्ठदकम्पः शैलराडिव ॥ ७.१९०.५३ ॥

那位大力者又打碎了迦尔纳的车轮;车轴折断的战车上,迦尔纳却如山王般岿然不动。

7.190.54

एकचक्रं रथं तस्य तमूहुः सुचिरं हयाः ।
एकचक्रमिवार्कस्य रथं सप्त हया यथा ॥ ७.१९०.५४ ॥

他的马长时间拉着那辆独轮战车,正如七匹马拉着太阳的独轮车一样。

7.190.55

अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत ।
विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे ॥ ७.१९०.५५ ॥

卡尔纳无法忍受,在战斗中与怖军交战,以各种箭网和多种兵器。

7.190.56

भीमसेनस्तु सङ्क्रुद्धः सूतपुत्रमयोधयत् ।
तस्मिंस्तथा वर्तमाने क्रुद्धो धर्मसुतोऽब्रवीत्।
पाञ्चालानां नरव्याघ्रान्मात्स्यांश्च पुरुषर्षभान् ॥ ७.१९०.५६ ॥

怖军愤怒地与御者之子交战。事情如此进行时,愤怒的法之子对般遮罗的人中猛虎和摩差的人中牡牛说道。

7.190.57

ये नः प्राणाः शिरो ये च ये नो योधा महारथाः ।
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभान् ॥ ७.१९०.५७ ॥

我们的性命、我们的首领、我们的勇士和大战车手——他们如今都专注于持国之子,哦人中的牡牛们。

7.190.58

ये नः प्राणाः शिरो ये च ये नो योधा महारथाः ।
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ॥ ७.१९०.५८ ॥

我们的性命、我们的首领、我们的勇士和大战车手——他们如今都专注于持国之子,哦人中的牡牛们。

7.190.59

किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः ।
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ॥ ७.१९०.५९ ॥

你们为何像愚人一样站着,全都失去了心智?去我这些战车正在交战的地方吧。

7.190.60

क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः ।
जयन्तो वध्यमानाश्च गतिमिष्टां गमिष्यथ ॥ ७.१९०.६० ॥

以刹帝利之法为先,人人免于忧惧,无论获胜或被杀,都将到达所求的归宿。

7.190.61

ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः ।
चतुर्धा वाहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः ॥ ७.१९०.६१ ॥

在国王的激励下,那些准备战斗的英勇大战车武士将军队分为四部,迅速向德罗纳进发。

7.190.62

पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्निशितैः शरैः ।
भीमसेनपुरोगाश्चाप्येकतः पर्यवारयन् ॥ ७.१९०.६२ ॥

般遮罗人从一侧以利箭射击德罗纳,而以毗摩娑那为首的人从另一侧将他包围。

7.190.63

आसंस्तु पाण्डुपुत्राणां त्रयो जिह्मा महारथाः ।
यमौ च भीमसेनश्च प्राक्रोशंस्ते धनञ्जयम् ॥ ७.१९०.६३ ॥

般度的儿子中有三位狡诈的大战车武士——两位孪生子与毗摩娑那——他们向大财者(阿周那)呼喊。

7.190.64

अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद ।
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ॥ ७.१९०.६४ ॥

阿周那,快速冲锋,把俱卢人从德罗纳身边驱散;否则,当他的护卫被杀,般遮罗人就会杀死他。

7.190.65

कौरवेयांस्ततः पार्थः ससा समुपाद्रवत् ।
पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान्।
ममर्दुस्तरसा वीराः पञ्चमेऽहनि भारत ॥ ७.१९०.६५ ॥

于是般度之子(阿周那)率军冲向俱卢战士;德罗纳则猛烈击溃了以德里斯塔笃末那为首的般遮罗人——婆罗多啊,在第五天。