Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.39

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.39.1

द्वैधीभवति मे चित्तं शुचा तुष्ट्या च सञ्जय ।
मम पुत्रस्य यत्नैन्यं सौभद्रः समवारयत् ॥ ७.३९.१ ॥

桑闍耶啊,我的心因悲痛与喜悦而一分为二,因为苏跋陀罗之子完全阻挡了我儿的努力。

7.39.2

विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः ।
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥ ७.३९.२ ॥

桑闍耶啊,请再详细地把一切告诉我——这位少年的功绩,就像童子斯kanda与阿修罗嬉戏一般。

7.39.3

हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम् ।
एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥ ७.३९.३ ॥

好吧,我将告诉你那极其可怕的杀戮,一人与众人之间那场喧嚣的大战如何展开。

7.39.4

अभिमन्युः कृतोत्साहः कृतोत्साहानरिन्दमान् ।
रथस्थो रथिनः सर्वांस्तावकानभ्यवर्षयत् ॥ ७.३९.४ ॥

阿毗曼尤充满斗志,立于战车之上,向那些斗志昂扬的降敌者和你的所有车兵倾泻箭雨。

7.39.5

द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् ।
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ॥ ७.३९.५ ॥

德罗纳、迦尔纳、克利巴、沙利耶、德罗纳之子阿湿婆寒摩、大力的婆闍(金刚铠)、难敌、苏摩达多之子,以及大力的沙恭尼。

7.39.6

नानानृपान्नृपसुतान्सैन्यानि विविधानि च ।
अलातचक्रवत्सर्वांश्चरन्बाणैः समार्पयत् ॥ ७.३९.६ ॥

各色的诸王、王子以及种种军队——他如火轮般旋转,以箭矢覆盖了他们所有人。

7.39.7

निघ्नन्नमित्रान्सौभद्रः परमास्त्रैः प्रतापवान् ।
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥ ७.३९.७ ॥

以至高的武器击杀敌人,威武而光辉的萨乌跋陀罗在所有方向展现了他的勇力,婆罗多啊。

7.39.8

तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः ।
समकम्पन्त सैन्यानि त्वदीयानि सहस्रशः ॥ ७.३९.८ ॥

见到无量威力的萨乌跋陀罗的那一功绩,你的千万大军都为之颤抖。

7.39.9

अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् ।
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥ ७.३९.९ ॥

于是大智慧、威武的婆罗堕惹之子(德罗纳),喜悦得双目圆睁,急忙对克利巴说道。

7.39.10

घटयन्निव मर्माणि पुत्रस्य तव भारत ।
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥ ७.३९.१० ॥

婆罗多啊,仿佛刺中你儿子的要害一般,当时他看见在战场上善战的阿毗曼尤,(德罗纳说道)。

7.39.11

एष गच्छति सौभद्रः पार्थानां प्रथितो युवा ।
नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ॥ ७.३९.११ ॥

看哪,普利塔之子中闻名的年轻萨乌跋陀罗前进着,使他所有的朋友和国王坚战都感到欢喜。

7.39.12

नकुलं सहदेवं च भीमसेनं च पाण्डवम् ।
बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥ ७.३९.१२ ॥

也包括无种、偕天、潘杜之子毗湿摩那、亲族、姻亲,以及其他中立的朋友。

7.39.13

नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम् ।
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥ ७.३९.१३ ॥

我认为战场上没有别的弓手能与他相比。若他愿意,他便能歼灭这支军队;可他为何不愿意呢?

7.39.14

द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः ।
आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥ ७.३९.१४ ॥

你的儿子听了德罗纳充满慈爱的话,对阿周那之子大怒;看到德罗纳,他仿佛微笑起来。

7.39.15

अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं नृपः ।
दुःशासनं मद्रराजं तांस्तथाऽन्यान्महारथान् ॥ ७.३९.१५ ॥

于是国王难敌对迦尔纳、跋利迦、难降以及摩德罗王和其他大车勇士说道。

7.39.16

सर्वभूर्धाभिषिक्तानामाचार्यो ब्रह्मवित्तमः ।
अर्जुनस्य सुतं मूढं नायं हन्तुमिहेच्छति ॥ ७.३९.१६ ॥

这位为所有受灌顶之王的师长、梵智最为精通者,不愿在此杀害阿周那那愚蠢的儿子。

7.39.17

न ह्यस्य समरे युद्ध्येदन्तकोऽप्याततायिनः ।
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥ ७.३९.१७ ॥

在战场上,即便死神也不会与这位敌人交战,更何况另一个凡人呢?我向你们说的是实话。

7.39.18

अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति ।
शिष्याः पुत्राश्च दयितास्तदपत्यं च धर्मिणाम् ॥ ७.३९.१८ ॥

他之所以庇护阿周那之子,是因为此人是他的弟子。弟子、心爱的儿子,以及正法之人的后代,在他眼中都是一样的。

7.39.19

संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः ।
आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् ॥ ७.३९.१९ ॥

他受德罗纳保护,自以为勇力过人;这自负的愚人不久就会被击溃。

7.39.20

एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः ।
संरब्धास्ते जिघांसन्तो भारद्वाजस्य पश्यतः ॥ ७.३९.२० ॥

国王如此吩咐,他们怒不可遏,欲杀萨特瓦特之子,在德罗纳注视之下向他冲去。

7.39.21

दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा ।
अब्रवीत्कुरुशार्दूल दुर्योधनमिदं वचः ॥ ७.३९.२१ ॥

杜尔约达纳说罢,难降闻言,便对杜尔约达纳,即库鲁虎中之雄,说了这番话。

7.39.22

अहमेनं हनिष्यामि महाराज ब्रवीमि ते ।
मिषतां पाण्डु पुत्राणां पाञ्चालानां च पश्यताम् ॥ ७.३९.२२ ॥

大王,我对你说:我要杀死他,让般度之子与般遮罗人都看着。

7.39.23

ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ।
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः ॥ ७.३९.२३ ॥

今日我将吞没苏跋陀罗之子,犹如罗睺吞日。他大声呼喊,又对库鲁王说了这番话。

7.39.24

श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ।
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥ ७.३९.२४ ॥

二位自负的黑天听说苏跋陀罗之子已被我吞没,必将从生者之界前往死者之界,毫无疑问。

7.39.25

तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः ।
एकाह्वा ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥ ७.३९.२५ ॥

闻知那二人已死,般度之田生诸子必定明白地在同一天,连同其亲友之众,因怯懦而舍弃性命。

7.39.26

तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव ।
शिवेन मां ध्याहि राजन्नेष हन्मि रिपूंस्तव ॥ ७.३९.२६ ॥

因此,此敌既已被杀,你的一切仇敌皆已被杀。大王,请以吉祥之心思念我——看吧,我将杀尽你的仇敌。

7.39.27

एवमुक्त्वाऽनदद्राजन्पुत्रो दुःशासनस्तव ।
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥ ७.३९.२७ ॥

如此说完,大王,你的儿子难降高声咆哮;愤怒地冲向苏跋陀罗之子,以箭雨将他覆盖。

7.39.28

तमतिक्रुद्धमायान्तं तव पुत्रमरिंदमः ।
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समार्पयत् ॥ ७.३९.२८ ॥

你那位极其愤怒而来的儿子,被制服敌人的阿毗摩युने以二十六支利箭射中。

7.39.29

दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः ।
अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥ ७.३९.२९ ॥

难降则极度愤怒,如发情的象,与苏跋陀罗之子交战;阿毗摩युने也在战场上与他交战。

7.39.30

तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् ।
चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥ ७.३९.३० ॥

那二人精通战车之术,以战车向左向右转出奇妙的圆圈,相互交战。

7.39.31

अथ पणवमृदङ्गदुन्दुभीनां ।
क्रकचमहानकभेरिझर्झराणम्।
निनदमतिभृशं नराः प्रचक्रु… ।
र्लवणजलोद्भवसिंहनादमिश्रम् ॥ ७.३९.३१ ॥

随后,人们奏出极其响亮的声音,有潘纳瓦鼓、穆丹伽鼓、敦都毗鼓、克拉卡恰、摩诃那卡、婆利鼓和贾尔贾拉……与盐海所生的狮子吼混合在一起。