摩诃婆罗多 · 章 7.99
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.99.1
वर्तमाने तदा युद्धे द्रोणस्य सह पाण्डुभिः ।
परिवर्तमान आदित्ये तत्र सूर्ये च रश्मिभिः।
रजसा कीर्यमाणाश्च मन्दीभूताश्च कौरवाः ॥ ७.९९.१ ॥
当德罗纳与般遮武士激战之时,太阳携光在天空中运行,被尘土所散的俱卢人渐渐萎靡。
7.99.2
तिष्ठतां युध्यमानानां पुनरावर्ततामपि ।
भज्यतां जयतां चैव जगाम तदहः शनैः ॥ ७.९९.२ ॥
在坚守作战者、再次回转者、溃散者与获胜者之间,那一日缓缓过去。
7.99.3
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु ।
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ॥ ७.९९.३ ॥
两军因渴望胜利而如此纠缠之时,阿周那与婆苏提婆向信度王进发。
7.99.4
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः ।
चकार यं च पन्थानं ययौ तेन जनार्दनः ॥ ७.९९.४ ॥
贡蒂之子以锐利的箭矢划定了战车之路的宽度,而世尊克里希那便沿着这条路前进。
7.99.5
यत्रयत्र रथो याति पाण्डवस्य महात्मनः ।
तत्रतत्रैव दीर्यन्ते सेनास्तव विशाम्पते ॥ ७.९९.५ ॥
无论大心的般遮武士之车驶向何方,那里,哦,人民之主,你的军队便被撕裂。
7.99.6
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् ।
उत्तमाधममध्यानि मण्डलानि विदर्शयन् ॥ ७.९९.६ ॥
勇武的达沙尔哈之裔展示了驾车的技艺,清楚地显示了上、下、中三等回旋之法。
7.99.7
ते तु नामाङ्किता बाणाः कालज्वलनसन्निभाः ।
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ॥ ७.९९.७ ॥
那些刻有名字的箭,如同时间之火,以筋线缚紧,节理匀好,阔大而飞得远。
7.99.8
वैणवाश्चायसाश्चोग्रा ग्रसन्तो विविधानरीन् ।
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ॥ ७.९९.८ ॥
竹制与铁制的猛烈箭矢,吞噬种种敌人,在战场上与飞鸟一同饮尽众生的血。
7.99.9
रथस्थितोऽग्रतः क्रोशं यानस्यत्यर्जुनः शरान् ।
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ॥ ७.९९.९ ॥
阿周那立于车上,向车前一克罗舍之远射箭;车行过一克罗舍后,那些箭便击杀他的敌人。
7.99.10
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः ।
यथाऽगच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ॥ ७.९९.१० ॥
以如迦楼罗与风般迅疾、牵驾得法的骏马,希利希柯舍疾驰而去,令整个世界惊叹。
7.99.11
न तथा गच्छति रथस्तपनस्य विशाम्पते ।
नेन्द्रस्य न तु रुद्रस्य नापि वैश्रवणस्य च ॥ ७.९९.११ ॥
人主啊,太阳之车不这样行进,因陀罗的、楼陀罗的,乃至毗沙门(俱毗罗)的车也不这样行进。
7.99.12
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः ।
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ॥ ७.९९.१२ ॥
大王啊,战场上别人的战车从未如此行进,阿周那之车疾如心念之所向。
7.99.13
प्रविश्य तु रणे राजन्केशवः परवीरहा ।
सेनामध्ये हयांस्तूर्णं चोदयामास भारत ॥ ७.९९.१३ ॥
国王啊,击杀敌方英雄的刻舍婆进入战场,在军队中间迅速驱策马匹,婆罗多之子啊。
7.99.14
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः ।
कृच्छ्रेणरथमूहुस्तं क्षुत्पिपासासमन्विताः ॥ ७.९९.१४ ॥
随后,抵达那群车阵中央的良马,饥渴交加,费尽力气才拉动了那辆战车。
7.99.15
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः ।
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ॥ ७.९९.१५ ॥
被善战勇士的众多兵器多次击伤,它们一次又一次地在各种奇特的圈子中旋转。
7.99.16
हतानां वाजिनागानां रथानां च नरैः सह ।
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ॥ ७.९९.१६ ॥
越过堆积如山的被杀马匹、象、战车与人的尸骸,成千上万如山般的尸体被跨过。
7.99.17
श्रमेण महता युक्तास्ते हया वातरंहसः ।
मन्दवेगगता राजन्संवृत्तास्तत्र संयुगे ॥ ७.९९.१७ ॥
国王啊,那些疾如风的马,被巨大的疲惫所压倒,在那场战斗中变得步伐迟缓。
7.99.18
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप ।
सहसेनौ समार्च्छेतां पाण्डवं क्लान्तवाहनम् ॥ ७.९९.१८ ॥
国王啊,与此同时,阿梵提的两位英雄兄弟率领各自的军队,冲向那位坐骑疲惫的般度之子。
7.99.19
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् ।
शराणां च शतैरश्वानविध्येतां मुदान्वितौ ॥ ७.९९.१९ ॥
二人以六十四支箭射中阿周那,以七十支箭射中遮那陀那,并欣然以数百支箭射中马匹。
7.99.20
तावर्जुनो महाराज नवभिर्नतपर्वभिः ।
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ॥ ७.९९.२० ॥
大王啊,阿周那愤怒而精通要害,在战场上以九支带弯节的箭射中了他们,这些箭能刺穿要害之处。
7.99.21
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् ।
आच्छादयेतां संरब्धौ सिंहनादं च चक्रतुः ॥ ७.९९.२१ ॥
于是二人愤怒地以箭雨覆盖了毗跋蹉(阿周那)与羯舍婆,并发出狮吼。
7.99.22
तयोस्तु धनुषी मुष्टौ भल्लाभ्यां श्वेतवाहनः ।
चिच्छेद समरे तूर्णं भूय एव धनञ्जयः।
अथान्यैर्विशिखैस्तूर्णं ध्वजौ च कनकोज्ज्वलौ ॥ ७.९९.२२ ॥
在战场上,白马的阿周那以两支刃形箭立即斩断了二人的弓,在把手处;随后达难闍耶又以其他箭迅速斩落了两面闪耀如金的旗帜。
7.99.23
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा ।
पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः ॥ ७.९९.२३ ॥
大王啊,那时二人又取了别的弓,在战场上极为愤怒,以箭矢折磨般地袭击般度之子(阿周那)。
7.99.24
तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः ।
धनुषी चिच्छिदे तूर्णं भूय एव धनञ्जयः ॥ ७.९९.२४ ॥
那位极为愤怒的般度之子(阿周那)又以两支箭迅速斩断了二人的弓——他正是达难闍耶。
7.99.25
तथान्यैर्विशिखैस्तूर्णं रुक्मपुङ्खैः शिलाशितैः ।
जघानाश्वांस्तथा सूतौ पार्ष्णी च सपदानुगौ ॥ ७.९९.२५ ॥
他迅速以其他金羽、经石磨砺的箭射杀了马匹,同样也射杀了两名御者以及后方的步卒随从。
7.99.26
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत ।
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ॥ ७.९९.२६ ॥
长兄的头颅被一支剃刀形箭头从身上斩下;他被杀后倒在地上,如同被风折断的树。
7.99.27
विन्दं तु निहतं दृष्ट्वा ह्यनुविन्दः प्रतापवान् ।
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ॥ ७.९९.२७ ॥
见到毗德(Vinda)被杀,威武的阿努毗德(Anuvinda)因马匹已死,弃车而下,手持铁锤,这位大力士便向前冲去。
7.99.28
अभ्यवर्तत सङ्ग्रामे भ्रातुर्वधमनुस्मरन् ।
गदया रथिनां श्रेष्ठो नृत्यन्निव महारथः ॥ ७.९९.२८ ॥
他想起兄弟被杀,便在战场上冲上前去;这位车将中的翘楚,这位大车将,挥舞铁锤,仿佛在舞蹈一般。
7.99.29
अनुविन्दस्तु गदया ललाटे मधुसूदनम् ।
स्पष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् ॥ ७.९९.२९ ॥
然而阿努毗德怒气冲冲,用铁锤触到了摩豆苏陀那(克里希那)的额头,却不能使他动摇,如同摩奈迦山一般。
7.99.30
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः ।
निचकर्त स सञ्छन्नः पपाताद्रिचयो यथा ॥ ७.९९.३० ॥
阿周那以六支箭斩断了他的颈、足、臂与头;他被箭覆盖,如同一座山峰崩塌倒下。
7.99.31
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः ।
अभ्यद्रुवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ॥ ७.९९.३१ ॥
大王啊,他们看见那两人被杀,步卒们怒不可遏,纷纷冲上前来,成百地射出箭矢。
7.99.32
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ ।
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ॥ ७.९९.३२ ॥
婆罗多族的雄牛啊,阿周那迅速以箭射杀了他们,光芒四射,如同在寒冬将尽时焚烧森林的烈火。
7.99.33
तयोः सेनामतिक्रम्य कृच्छ्रादिव धनञ्जयः ।
विबभौ जलदं हित्वा दिवाकर इवोदितः ॥ ७.९९.३३ ॥
财富征服者(阿周那)仿佛费力地穿越了他们二人的军队,光芒闪耀,如同摆脱云层升起的太阳。
7.99.34
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः ।
अभ्यवर्तन्त पार्थं च समन्ताद्भरतर्षभ ॥ ७.९९.३४ ॥
婆罗多族的雄牛啊,受惊的俱卢人看见他,重又欢喜起来,从四面八方转身向普利塔之子(阿周那)扑去。
7.99.35
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् ।
सिंहनादेन महता सर्वतः पर्यवारयन् ॥ ७.९९.३५ ॥
他们见他已经疲惫,又知道信度王(胜车)远在别处,便发出巨大的狮吼,从四面八方将他团团围住。
7.99.36
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्भः ।
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ॥ ७.९९.३६ ॥
看见他们个个怒不可遏,人中之雄阿周那微笑起来,轻声对达沙尔哈的后裔(克里希那)说了这番话。
7.99.37
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः ।
किमिहानन्तरं कार्यं साधिष्ठं तव रोचते ॥ ७.९९.३७ ॥
被箭所伤、疲惫不堪的马匹,以及信度马都远在远处。此时接下来应当做什么?你认为什么最为合适?
7.99.38
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा ।
भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ॥ ७.९९.३८ ॥
克里希那,请依真实之理说吧,因为你始终最为智慧。在你的引导下,般度子孙将在此战中战胜敌人。
7.99.39
मम त्वनन्तरं कृत्यं यद्वै तत्त्वं निबोध मे ।
हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव ॥ ७.९९.३९ ॥
现在请听我说我接下来的职责:解开马匹,哦摩陀婆,让它们舒适地摆脱箭矢。
7.99.40
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् ।
ममाप्येतन्मतं पार्थ यदितं ते प्रभाषितम् ॥ ७.९९.४० ॥
般度之子如此说后,克沙婆回答他:"阿周那,你所说的也正是我的想法。"
7.99.41
अहमावारयिष्यामि सर्वसैन्यानि केशव ।
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ॥ ७.९९.४१ ॥
我将阻挡所有的军队,哦克沙婆。你也在此依正理完成接下来的事务吧。
7.99.42
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः ।
गाण्डीवं धनुरादाय तस्थौ गिरिविवाचलः ॥ ७.९९.४२ ॥
无畏的檀闍耶从战车座位上下来,持起弓“甘提拔”,如山岳般屹立不动。
7.99.43
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः ।
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् ॥ ७.९९.४३ ॥
渴望胜利的刹帝利战士们高声呼喊着冲向站在地上的檀阇耶,心想:“这正是良机。”
7.99.44
तमेकं रथवंशेन महता पर्यवारयन् ।
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ॥ ७.९९.४४ ॥
他们以庞大的战车阵将孤身的他团团围住,拉开弓弦,射出箭矢。
7.99.45
शस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् ।
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ॥ ७.९९.४५ ॥
他们愤怒地在那里展示各种兵器,以箭矢遮蔽般若如云遮蔽太阳。
7.99.46
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् ।
नरसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ॥ ७.९९.४६ ॥
高贵的战车武士迅猛地冲向那位武士中的公牛、人中之狮,如发狂的象扑向狮子。
7.99.47
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत ।
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ॥ ७.९९.४७ ॥
那里显出了般若双臂的巨大力量,他愤怒地从四面八方阻挡住了众多军队。
7.99.48
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः ।
इषुभिर्बुभिस्तूर्णं सर्वानेव समावृणोत् ॥ ७.९९.४८ ॥
这位强大者以自己的兵器从四面八方挡住敌人的所有兵器,迅速以箭矢将他们全部覆盖。
7.99.49
तत्रान्तरिक्षे बाणानां प्रगाढानां विशाम्पते ।
सङ्घर्षेण महार्चिष्मान्पावकः समजायत ॥ ७.९९.४९ ॥
人主啊,那时天空中,密集的箭矢相互碰撞,产生了烈焰熊熊的大火。
7.99.50
तत्रतत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः ।
हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शन ॥ ७.९९.५० ॥
敌人的折磨者啊,到处都是大弓箭手,沾满血迹、喘息的战马,以及被撕裂的大象在咆哮。
7.99.51
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे ।
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ॥ ७.९९.५१ ॥
许多因愤怒而游走、渴望战斗胜利、聚集一处的勇士身上,升起了如蒸汽般的热气。
7.99.52
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् ।
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥ ७.९९.५२ ॥
箭矢为波浪,旗帜为漩涡,象群为鳄鱼,难以渡越,步兵如鱼群密布,回荡着海螺与战鼓之声。
7.99.53
असङ्ख्येयमपारं च रजो नीरमतीव च ।
उष्णीषकमठं छत्रपताकाफेनमालिनम् ॥ ७.९९.५३ ॥
无数无边,满是尘土之水,头巾如龟,以伞盖和旗帜的泡沫为花环。
7.99.54
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् ।
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ॥ ७.९९.५४ ॥
那时,普利塔之子化作海岸,以箭矢阻挡住那不可撼动、布满象体如礁石的战车之海。
7.99.55
अर्जुने धरणीं प्राप्ते हयहस्ते च केशवे ।
एतदन्तरमासाद्य कथं पार्थो न घातितः ॥ ७.९९.५५ ॥
当阿周那倒在地上、克舍婆手握马缰时,帕尔塔为何在那一刻没有被杀死?
7.99.56
सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः ।
रथस्था धरणीस्थेन वाक्यमच्छान्दसं यथा ॥ ७.९९.५६ ॥
大王啊,立于地上的帕尔塔立即阻挡了所有乘车的国王;这些话说得仿佛并不合乎韵律。
7.99.57
स पार्थः पार्थिवान्सर्वान्भूमिस्थोपि रथस्थितान् ।
एको निवारयामास लोभः सर्वगुणानिव ॥ ७.९९.५७ ॥
那位站在地上的帕尔塔独自阻挡了所有乘车的国王,犹如贪欲阻碍一切美德。
7.99.58
ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम् ।
असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ॥ ७.९९.५८ ॥
于是大臂的遮那陀那在战中毫不慌乱,对最为珍爱的人中之杰阿周那说了这番话。
7.99.59
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन ।
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ॥ ७.९९.५९ ॥
阿周那啊,这里的水坑对于战中的马匹来说并不够;它们只想找水来喝,而不是找地方沐浴。
7.99.60
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् ।
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ॥ ७.९९.६० ॥
阿周那无所畏惧地说道:“这里有水”,随即以神箭击地,为马匹造出一片美丽的湖泊供它们饮水。
7.99.61
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
सुविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम् ॥ ७.९९.६१ ॥
充满天鹅与迦兰达婆鸭,装饰着赤麻鸭,极其宽广,水清澈,上好的莲花全部盛开。
7.99.62
कूर्ममत्स्यगणाकीर्णमगाधमृषिसेवितम् ।
आगच्छन्नारदमुनिर्दर्शनार्थं कृतं क्षणात् ॥ ७.९९.६२ ॥
充满龟与鱼群,深不可测,为仙人所常至;那湖是那罗陀仙人前来观赏时,在刹那间所造。
7.99.63
शरवंशं शरस्थूणं शराच्छादनमद्भुतम् ।
शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् ॥ ७.९९.६३ ॥
以箭为竹架,以箭为柱,以箭为顶的奇妙箭屋,由普利塔之子所造,犹如行奇迹之事的特瓦什特里。
7.99.64
ततः प्रहस्य गोविन्दः साधुसाध्वित्यथाब्रवीत् ।
शरवेश्मनि पार्थेन कृते तस्मिन्महात्मना ॥ ७.९९.६४ ॥
于是,哥文达笑着说:“善哉!善哉!”——那箭屋已由伟大的普利塔之子建成之后。