蚁垤《罗摩衍那》 · 篇 1.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.21.1
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ १.२१.१ ॥
憍尸迦听了他那因爱而哽咽的话,愤怒地对国王说道。
1.21.2
पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥ १.२१.२ ॥
你先前已许下诺言,如今却想背弃誓约。这种反复不符合罗怙家族的身份。
1.21.3
यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् ।
मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुह्द्वृतः ॥ १.२१.३ ॥
国王啊,如果你认为这样合适,我就像来时一样回去。啊,考古特斯塔,你这违背誓言的人,在朋友环绕中安乐吧。
1.21.4
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।
चचाल वसुधा कृत्स्ना देवानां च भयं महत् ॥ १.२१.४ ॥
智慧的毗首弥多罗因愤怒而震怒,整个大地都震动起来,诸神也生出极大的恐惧。
1.21.5
त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः ।
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥ १.२१.५ ॥
大仙人、持戒坚定的仙人婆私吒见整个世界都陷入恐惧,便对国王说了这番话。
1.21.6
इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः ।
धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि ॥ १.२१.६ ॥
你出生于甘蔗王族,仿佛另一位法本身,坚定、持戒、光荣,你不应舍弃法。
1.21.7
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः ।
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥ १.२१.७ ॥
此人以正直之魂闻名三界,乃罗怙之后(罗摩)。你应履行自己的职责,不宜承担不义。
1.21.8
प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः ।
इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय ॥ १.२१.८ ॥
若有人许诺说“我将去做”,却不履行所说之言,其祭祀与布施之福便会败坏。因此,请遣送罗摩。
1.21.9
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥ १.२१.९ ॥
无论他是否精通兵器,罗刹都无法战胜他,因为他受到俱舍之子(仙人)的守护,犹如火守护甘露。
1.21.10
एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
एष विद्याधिको लोके तपसश्च परायणम् ॥ १.२१.१० ॥
他是化身的法(达摩),是勇士中最优秀者;在世间他的学识超群,也是苦行的最高归宿。
1.21.11
एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे ।
नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥ १.२१.११ ॥
在三界之中,连同一切动与不动之物,他知晓种种神兵。别的人不了解他,将来也无人能了解他。
1.21.12
न देवा नर्षयः केचिन्नामरा न च राक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ १.२१.१२ ॥
无论是诸天、人间的仙人、不死者,还是罗刹;无论是乾闼婆与夜叉中的上首,还是紧那罗与大蛇(都不了解他)。
1.21.13
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः ।
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥ १.२१.१३ ॥
克利商瓦的至善诸子在治理国家时,曾将一切武器授予憍尸迦。
1.21.14
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः ।
नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥ १.२१.१४ ॥
克利商瓦的那些儿子也是生主的后代——包括儿子与女儿——形貌各异,威力巨大,光辉耀目,能带来胜利。
1.21.15
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।
ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥ १.२१.१५ ॥
杰耶与苏普拉巴,即达刹两位腰身纤细的女儿,生出了箭器与兵器,共一百件,极其光辉。
1.21.16
पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान् ।
वधायासुरसैन्यानामप्रमेयानुरूपिणः ॥ १.२१.१६ ॥
杰耶既得恩赐,为了歼灭阿修罗军队,生下了五十个形貌无量的优秀儿子。
1.21.17
सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः ।
संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥ १.२१.१७ ॥
苏普拉巴又生下五十个名为“毁灭者”的儿子,难以攻击,难以抵挡,极其强大。
1.21.18
तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः ।
अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित् ॥ १.२१.१८ ॥
憍尸迦之子正确地知晓这一切武器;他还能够创造前所未有的武器,并且通晓法。
1.21.19
तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः ।
न किञ्चिदस्त्यविदितं भूतं भव्यम् च राघव ॥ १.२१.१९ ॥
罗怙之子啊,对于这位通晓法的大德、最杰出的仙人而言,无论过去还是未来,没有任何事物是他所不知的。
1.21.20
एवंवीर्यो महातेजा विश्वामित्रो महायशाः ।
न रामगमने राजन् संशयं गन्तुमर्हसि ॥ १.२१.२० ॥
国王啊,对于罗摩随这位勇力、大德、大名的毗首米多罗同行,您不应有任何疑虑。
1.21.21
तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।
तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥ १.२१.२१ ॥
拘尸迦之子毗首米多罗自己就能制伏他们,但为了您儿子的福祉,他来到您面前恳请您。
1.21.22
रघुवृषभः च मुमोद पार्थिवाग्र्यः ।
गमनमभिरुरोच राघवस्य
प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥ १.२१.२२ ॥
罗怙族的雄牛、诸王中最杰出的国王欢喜了;罗怙之子随拘尸迦之子同行,合乎他的心意,这位名声远扬的国王以智慧表示赞同。