蚁垤《罗摩衍那》 · 篇 1.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.32.1
ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥ १.३२.१ ॥
梵天之族中有一位大苦行者名为俱舍,他通晓不懈誓愿的法,尊敬善人。
1.32.2
स महात्मा कुलीनायां युक्तायां सुमहाबलान् ।
वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥ १.३२.२ ॥
这位大德之人与高贵而相配的毗达婆公主生下四个极其强大、与他相似的儿子。
1.32.3
कुशाम्बं कुशनाभं च असूर्तरजसं वसुम् ।
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥ १.३२.३ ॥
俱舍婆、俱舍那婆、阿苏尔多罗阇与婆苏——光彩照人、热忱非凡,欲行刹帝利之法。
1.32.4
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥ १.३२.४ ॥
俱舍对那些正直诚实的儿子们说:“孩子们,去承担守护国土的职责吧;你们将获得丰厚的法。”
1.32.5
कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः ।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ १.३२.५ ॥
四位杰出之人听了俱舍的话,便各自建立了城邑。
1.32.6
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् ।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ १.३२.६ ॥
大光耀的俱舍婆建造了憍赏弥城;而心怀正法的俱舍那婆,则建造了一座极其繁荣的城市。
1.32.7
असूर्तरजसो नाम धर्मारण्यं महीपतिः ।
चक्रे पुरवरं राजा वसुनाम गिरिव्रजम् ॥ १.३२.७ ॥
名为阿苏尔塔拉嘉斯的法林之主、国王婆苏建造了名为吉利夫罗贾的殊胜城市。
1.32.8
एषा वसुमती राम वसोस्तस्य महात्मनः ।
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ १.३२.८ ॥
罗摩啊,这是伟大的婆苏的婆苏摩提。这五座殊胜的山峰四面闪耀。
1.32.9
सुमागधी नदी रम्या मागधान् विश्रुताऽऽययौ ।
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ १.३२.९ ॥
可爱的苏摩伽蒂河流来了,在摩揭陀人中闻名;在五座主要山峰之中,她如花环般闪耀。
1.32.10
सैषा हि मागधी राम वसोस्तस्य महात्मनः ।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥ १.३२.१० ॥
罗摩啊,这正是那位伟大的婆苏的摩揭陀河。此地早已被耕作,拥有良田,庄稼繁茂。
1.32.11
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥ १.३२.११ ॥
王仙枯沙那婆,罗怙之喜,与天女闪如生下一百位无与伦比的女儿。
1.32.12
तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः ।
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ १.३२.१२ ॥
那些少女青春焕发、容貌美丽、装饰华美,来到园林之地,如雨季中的闪电般光彩照人。
1.32.13
गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव ।
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ १.३२.१३ ॥
罗睺婆啊,她们歌唱、舞蹈、奏乐,佩戴着上好的饰物,获得了至上的欢愉。
1.32.14
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।
उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ १.३२.१४ ॥
于是这些肢体优美、容貌在世间无与伦比的女子来到花园之地,如同云中的星辰般光彩照人。
1.32.15
ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः ।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १.३२.१५ ॥
看到这些具备美德、容貌青春的女子,无所不在的风神伐由说出了这番话。
1.32.16
अहं वः कामये सर्वा भार्या मम भविष्यथ ।
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ १.३२.१६ ॥
我想要你们所有人;你们将成为我的妻子。舍弃人间的心念,你们将获得长寿。
1.32.17
चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥ १.३२.१७ ॥
在人类之中,青春总是短暂易逝,尤其如此。获得不朽的青春,你们将成为不死者。
1.32.18
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ १.३२.१८ ॥
百名少女听到无为而行的伐由的这番话,讥笑一番,随后说出了这些话。
1.32.19
अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम ।
प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥ १.३२.१९ ॥
你游行于一切众生之中,诸神中最殊胜者啊。我们都知晓你的威力,你为何轻慢我们?
1.32.20
कुशनाभसुता देव सर्वाः समस्ताः सुरसत्तम ।
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ १.३२.२० ॥
天神啊,我们都是俱舍那婆之女,诸神中最殊胜者,我们将守护我们的苦行;决不让你被逐出你的位置。
1.32.21
मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् ।
अवमन्य स्वधर्मेण स्वयं वरमुपास्महे ॥ १.३२.२१ ॥
愚昧之人啊,愿那个时刻永不到来:我们轻慢诚实的父亲,舍弃自己的本分,自己去寻求丈夫。
1.32.22
पिता हि प्रभुरस्माकं दैवतं परमं च सः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ १.३२.२२ ॥
父亲是我们的主宰,是至高的神明。父亲把我们许配给谁,谁便是我们的丈夫。
1.32.23
तासां तु वचनं श्रुत्वा हरिः परमकोपनः ।
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ १.३२.२३ ॥
哈里(风神)听闻她们的话,大怒,进入她们全身的每一肢体,那位尊贵的主便将其折断。
1.32.24
अरत्निमात्राकृतयो भग्नगात्रा भयार्दिताः ।
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः ॥ १.३२.२४ ॥
她们身量缩小至一肘之长,肢体折断,为恐惧所苦,那些被风神折断的少女进入了国王的宫室。进入之后,极度惊惶,满怀羞愧,双眼含泪,站立在那里。
1.32.25
स च ता दयिता भग्नाः कन्याः परमशोभनाः ।
दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥ १.३२.२५ ॥
国王看见他所爱的、身体折弯的、极其美丽的女儿们如此悲苦,心中惊慌,便说道:
1.32.26
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।
कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ ।
एवं राजा विनिःश्वस्य समाधिं संदधे ततः ॥ १.३२.२६ ॥
“女儿们,这是怎么回事?请说:是谁轻慢了法?是谁使你们全都变成了驼背?你们在动,却不说话。”国王这样说完,深深叹了一口气,然后收摄心神。