蚁垤《罗摩衍那》 · 篇 1.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.39.1
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः ।
उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥ १.३९.१ ॥
罗怙之喜罗摩听完毗首弥多罗的话,故事终了时,心中十分欢喜,对这位如燃烧之火般光辉的仙人说道。
1.39.2
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् ।
पूर्वजो मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥ १.३९.२ ॥
愿您吉祥。我想详细听听这个故事。婆罗门啊,我的祖先是如何主持这场祭祀的?
1.39.3
तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः ।
विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ॥ १.३९.३ ॥
听了他的话,充满好奇的毗首弥多罗仿佛微笑着,对迦昆陀族的罗摩说道。
1.39.4
श्रूयतां विस्तरो राम सगरस्य महात्मनः ।
शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥ १.३९.४ ॥
罗摩啊,请听大德萨迦罗的完整故事。湿婆的岳父,以喜马偕(雪山)之名闻名的,
1.39.5
विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ।
तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ॥ १.३९.५ ॥
他们来到温底耶山,彼此相视;在这两者之间,人中之杰啊,那场祭祀便发生了。
1.39.6
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ।
तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ॥ १.३९.६ ॥
那个地方,人中猛虎啊,适合祭祀之礼。迦昆陀族的罗摩啊,在那匹马巡行之时,那位手持坚弓的大车将在那里。
1.39.7
अंशुमानकरोत् तात सगरस्य मते स्थितः ।
तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ॥ १.३९.७ ॥
孩子啊,安舒曼遵循萨加拉的教导完成了此事。在那次祭仪的节日,婆薮(因陀罗)夺走了施主的祭祀。
1.39.8
राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ।
ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ॥ १.३९.८ ॥
他化作罗刹之形,夺走了祭祀的马。当那位大德之马被夺走时,哦,迦古特斯塔的后裔啊——
1.39.9
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ।
अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ॥ १.३९.९ ॥
于是所有祭司对施主说:“在这个节日里,祭祀的马正被迅速夺走。”
1.39.10
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ।
यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ॥ १.३९.१० ॥
“哦,迦古特斯塔的后裔,杀死那盗贼,让马被送回。这将成为祭祀的缺陷,对我们所有人都不吉祥。”
1.39.11
तत् तथा क्रियतां राजन् यज्ञोच्छिद्रः कृतो भवेत् ।
सोपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥ १.३९.११ ॥
“大王啊,就照此去做,使祭祀不致有缺失。”那次集会中,国王听到祭司的这番话后——
1.39.12
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ।
गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ॥ १.३९.१२ ॥
他对六万个儿子说了这些话:“人中之杰啊,我看不到罗刹的踪迹。”
1.39.13
मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ।
तद् गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ॥ १.३९.१३ ॥
这场大祭祀由以咒语净化的大福德仙人所举行。因此,孩儿们,去寻找吧,愿你们平安吉祥。
1.39.14
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छथ ।
एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥ १.३९.१४ ॥
请遍行这被大海环绕的整个大地。孩儿们,每人沿宽广的一由旬前进吧。
1.39.15
यावत् तुरगसंदर्शस्तावत् खनत मेदिनीम् ।
तमेव हयहर्तारं मार्गमाणा ममाज्ञया ॥ १.३९.१५ ॥
直到看见马为止,掘开大地。遵照我的命令,去寻找那偷马的人。
1.39.16
दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् ।
इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम् ॥ १.३९.१६ ॥
我已受戒,将与孙辈及众师长一同留在此地,直到看见马为止。愿你们平安吉祥。
1.39.17
ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः ।
जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥ १.३९.१७ ॥
罗摩啊!那些心怀喜悦、受父命约束的大力王子们,全都出发,走遍大地表面。
1.39.18
गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः ।
योजनायामविस्तारमेकैको धरणीतलम् ।
बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः ॥ १.३९.१८ ॥
遍行整个大地却未见到他,那些大力的人中猛虎,各以如雷霆一触般的臂膀,掘开长宽各一由旬的大地。
1.39.19
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।
भिद्यमाना वसुमती ननाद रघुनन्दन ॥ १.३९.१९ ॥
大地瓦苏玛蒂被长矛、如雷电般的犁和极其可怖的兵器所撕裂,发出吼声,啊,罗怙的喜乐者。
1.39.20
नागानां वध्यमानानामसुराणां च राघव ।
राक्षसानां दुराधर्षं सत्त्वानां निनदोऽभवत् ॥ १.३९.२० ॥
啊,罗怙之子,被杀的龙众与阿修罗的哭喊,罗刹不可抵挡的吼声,以及众生的鸣叫之声响起。
1.39.21
योजनानां सहस्राणि षष्टिं तु रघुनन्दन ।
बिभिदुर्धरणीं राम रसातलमनुत्तमम् ॥ १.३९.२१ ॥
啊,罗怙的喜乐者,啊,罗摩,他们将大地裂开六万由旬,直达至上的地下世界罗萨塔拉。
1.39.22
एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः ।
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥ १.३९.२२ ॥
如此,王子们挖掘布满山岳的阎浮提,啊,王中之虎,四处巡行。
1.39.23
ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः ।
सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥ १.३९.२३ ॥
于是,诸神、干闼婆、阿修罗与龙众,皆心神惊慌,前往祖父梵天处。
1.39.24
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।
ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥ १.३९.२४ ॥
他们安抚了这位伟大的灵魂,面容愁苦,极为惊恐,向祖父说出了这些话。
1.39.25
भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः
बहवश्च महात्मानो वध्यन्ते जलचारिणः ॥ १.३९.२५ ॥
尊贵的大神啊!萨伽罗的儿子们正在挖掘整个大地,许多居于水中的大生灵正被杀害。