蚁垤《罗摩衍那》 · 篇 2.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.48.1
तेषामेवम् विष्ण्णानाम्पीडितानामतीव च ।
बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥ २.४८.१ ॥
于是他们全都深感沮丧和痛苦,眼中泪水模糊,悲伤不已,仿佛渴望死去。
2.48.2
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् ।
उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥ २.४८.२ ॥
跟随罗摩又折返的城中居民,仿佛生命之气已从这些失意者身上离去。
2.48.3
स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः ।
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥ २.४८.३ ॥
各自回到自己的家中,被儿子和妻子包围,大家都流下眼泪,用泪水遮住了脸庞。
2.48.4
न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् ।
न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥ २.४८.४ ॥
商人既不欢欣,也不喜悦,也不陈列货物;货物也不耀眼,家主也不烹饪。
2.48.5
नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् ।
पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥ २.४८.५ ॥
看到失去的东西,人们不喜悦,即使获得大量财富也不喜悦;母亲即使得到长子,也不欢喜。
2.48.6
गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् ।
व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥ २.४८.६ ॥
每家每户哭泣的妇人,因悲痛而苦恼,用言语责备回家的丈夫,如同用刺棒刺大象一般。
2.48.7
किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा ।
पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥ २.४८.७ ॥
那些不见罗伽瓦(罗摩)的人,还要房屋、妻子、财富、儿子或享乐做什么呢?
2.48.8
एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया ।
यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥ २.४८.८ ॥
世间只有一位真正的好汉,即罗什曼那,他与悉多一起在林中侍奉并跟随迦古特斯тха(罗摩)。
2.48.9
आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च ।
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥ २.४८.९ ॥
有被圣化的河流、莲池和湖泊,迦古特斯塔将潜入清澈的水中沐浴。
2.48.10
शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः ।
आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥ २.४८.१० ॥
带有美丽林苑的森林、河流、广阔的沼泽以及有山脊的高山,将为迦古特斯塔增添光彩。
2.48.11
काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति ।
प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥ २.४८.११ ॥
无论是森林还是山岳,罗摩所到之处,如同迎接远道而来的贵客,人们都不能不加以敬礼。
2.48.12
विचित्र कुसुम आपीडा बहु मन्जलि धारिणः ।
अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥ २.४८.१२ ॥
装饰着五彩花环、结满众多花穗的树木,即使不合时令,也将开出上好的花朵、结出佳果。
2.48.13
अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥ २.४८.१३ ॥
即便不是时节,群山出于怜悯,也将向来到的罗摩展示上好的花朵与果实。
2.48.14
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।
विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥ २.४८.१४ ॥
群山将涌出清澈的泉水,并一次又一次展现各种奇妙的溪流瀑布。
2.48.15
पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् ।
यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥ २.४८.१५ ॥
山顶上的树木将使罗ghava欢喜。罗摩所在之处,没有恐惧,也没有失败。
2.48.16
स हि शूरः महा बाहुः पुत्रः दशरथस्य च ।
पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥ २.४८.१६ ॥
他勇猛、臂力强大,是十车王之子;从前他离我们很近。让我们远远地跟随罗ghava吧。
2.48.17
पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः ।
स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥ २.४८.१७ ॥
如此伟大的主人,足下的荫庇是安乐的。他是这些人的庇护者,是他们的归宿,是他们最终的依靠。
2.48.19
वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् ।
युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति ।
सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥ २.४८.१९ ॥
我们将侍奉悉多,而你们侍奉罗ghava吧。在森林中,罗ghava将照顾你们的安康;悉多作为这群人中的女子,将照顾他们的安康。
2.48.20
को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च ।
सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥ २.४८.२० ॥
在这令人不快的居所中,与这些愁苦而不讨人喜欢的人同住,夺走了心神,谁还能感到快乐呢?
2.48.21
कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् ।
न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥ २.४८.२१ ॥
若王国归于凯凯伊,那将是不义,且如同无人庇护;那时我们还要生命、儿子、财富何用?
2.48.22
यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् ।
कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥ २.४८.२२ ॥
为了权位而抛弃儿子与丈夫的凯凯伊,玷污家族的她,还会舍弃谁呢?
2.48.23
कैकेय्या न वयम् राज्ये भृतका निवसेमहि ।
जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥ २.४८.२३ ॥
凯凯伊在世之时,我们绝不会在她的王国中如雇工般居住;即便活着,我们也以儿子起誓。
2.48.24
या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा ।
कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥ २.४८.२४ ॥
那无情地放逐王中之王之子的女人,不义而行为邪恶,谁得到她还能快乐地生活呢?
2.48.25
उपद्रुतमिदम् सर्वमनालम्बमनायकम् ।
कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥ २.४८.२५ ॥
此地一切都陷于灾难,无所依托,无人领导;因为凯凯伊,一切都将走向毁灭。
2.48.26
न हि प्रव्रजिते रामे जीविष्यति मही पतिः ।
मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥ २.४८.२६ ॥
若罗摩被流放,大地之主将不能存活。达修罗陀死后,毁灭显然随之而来。
2.48.27
ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः ।
राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥ २.४८.२७ ॥
搅和毒药饮下吧,你们功德已尽、极其不幸之人;或者跟随罗怙婆,或者前往闻所未闻之地。
2.48.28
मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः ।
भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥ २.४८.२८ ॥
罗摩被虚假地流放,与妻子和罗什曼那同行;我们被交给婆罗多,如同牲畜被交给屠夫。
2.48.29
पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः ।
आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥ २.४८.२९ ॥
罗摩,面如满月,肤色黝黑,锁骨隐而不见,降伏敌人,双臂长至膝,眼如莲花,是罗什曼那的兄长。
2.48.30
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ।
सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥ २.४८.३० ॥
先开口说话、温和、诚实、大力,对世间一切柔和,外貌如月般令人喜爱。
2.48.31
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।
शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥ २.४८.३१ ॥
那人中之虎,有如发情象般的勇猛,大战车武士,在林中漫游,必将使森林增添光彩。
2.48.32
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।
चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥ २.४८.३२ ॥
城中百姓的妇女们如此悲泣,被悲痛所煎熬,仿佛死亡的恐惧降临一般,放声哭喊。
2.48.33
इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् ।
जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥ २.४८.३३ ॥
家中的妇女们如此为罗怙后裔悲泣之时,太阳落山,夜幕降临。
2.48.34
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।
तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥ २.४८.३४ ॥
那座城市火光与集会皆已熄灭,诵读与善言归于寂静,此时仿佛被黑暗涂抹,显得黯淡。
2.48.35
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।
अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥ २.४८.३५ ॥
市集买卖皆已停歇,欢乐消逝,无所依托的阿逾陀城,如同失去星辰的天空。
2.48.36
तथा स्त्रियो राम निमित्तम् आतुरा ।
यथा सुते भ्रातरि वा विवासिते ।
विलप्य दीना रुरुदुर् विचेतसः ।
सुतैः हि तासाम् अधिको हि सो अभवत् ॥ २.४८.३६ ॥
罗摩啊,妇女们为你而焦虑,如同儿子或兄弟被流放时的忧虑一般;她们悲苦而神志恍惚,哀哭流泪,因为你对她们而言比自己的儿子还更亲。
2.48.37
प्रशान्तगीतोत्सव नृत्तवादना ।
व्यपास्तहर्षा पिहितापणोदया ।
तदा ह्ययोध्या नगरी बभूव सा ।
महार्णवः सम्क्षपितोदको यथा ॥ २.४८.३७ ॥
歌唱、节庆、舞蹈与音乐都已止息,欢乐被驱散,店铺关门,交易停滞,此时阿逾陀城如同大海水已枯竭。