Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.49.1

रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् ।
जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥ २.४९.१ ॥

罗摩也在剩余的夜里走了很远的路,牢记父亲的命令,这位人中之虎。

2.49.2

तथैव गच्चतः तस्य व्यपायात् रजनी शिवा ।
उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥ २.४९.२ ॥

他这样前行,吉祥的夜晚过去了;他礼拜了吉祥的黄昏,便进入了国境。

2.49.3

ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च ।
पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥ २.४९.३ ॥

他望着那些边界遥远的村庄和盛开的森林,飞快地驰过,如同良马射出的箭。

2.49.4

शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।
राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥ २.४९.४ ॥

听到村落中居民的话语:"耽于欲望而为其所controlled的国王十车,真是可耻!"

2.49.5

हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी ।
तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥ २.४९.५ ॥

唉!今日的吉迦伊是残忍的、有罪的、与罪孽相连的;她尖锐而越过了礼法的界限,正从事于一件严酷的行为。

2.49.6

या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् ।
वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥ २.४९.६ ॥

她竟将国王这样一位正直、极有智慧、慈悲而不知疲倦的儿子放逐到林中!

2.49.7

कथम् नाम महाभागा सीता जनकनन्दिनी ।
सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥ २.४९.७ ॥

身具大福、常享安乐的遮那竭之女悉多,怎能承受痛苦呢?

2.49.8

अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् ।
प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥ २.४९.८ ॥

唉!国王十车毫无慈爱,竟想在此抛弃罗摩——他是自己爱子所钟爱之人,是无过失、为民所爱的人!

2.49.9

एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।
शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥ २.४९.९ ॥

听着村落中居民的这些话语,这位英雄、憍萨罗之主,继续穿过憍萨罗前行。

2.49.10

ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् ।
उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥ २.४९.१० ॥

随后,渡过名为吠陀闻的河流——它承载着吉祥之水——他朝着阿伽斯蒂亚所居住的方向前行。

2.49.11

गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् ।
गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥ २.४९.११ ॥

长途跋涉之后,他渡过了冷水的郭摩提河,河岸牧场上满是牛群;这条河流向大海。

2.49.12

गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः ।
मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥ २.४९.१२ ॥

罗怙之后又越过郭摩提河,以疾驰的骏马渡过了充满孔雀与天鹅鸣声的悉扬迪迦河。

2.49.13

स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा ।
स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥ २.४९.१३ ॥

罗摩向毗提诃公主(悉多)展示了那片富饶、被诸国环绕的土地,那是国王摩奴往昔赐予伊叉婆迦的。

2.49.14

सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः ।
हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥ २.४९.१४ ॥

罗摩一再称呼御者为“御者啊”,那位光荣的人中之雄、声音如天鹅般悦耳,对他说道。

2.49.15

कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने ।
मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥ २.४९.१५ ॥

我何时才能重回萨拉尤河的繁花森林,与母亲和父亲团聚,在那里四处狩猎?

2.49.16

न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने ।
रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥ २.४९.१६ ॥

我并不过分渴望在萨拉尤河的森林里狩猎;因为这种乐趣在世上无与伦比,并为众多王仙所认可。

2.49.17

राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने ।
काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥ २.४९.१७ ॥

在这世上,王仙们在适当的时候于森林中狩猎以求欢愉;这是弓箭手所向往的。

2.49.18

स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् ॥ २.४९.१८ ॥

伊叉婆迦族的王子心里思量着此事,沿着那条路前行,以甜美的声音对御者说话。