Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.50.1

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः ।
अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥ २.५०.१ ॥

越过广阔美丽的科萨拉之地后,有智慧的长兄面向阿逾陀,合掌说出了这些话。

2.50.2

आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते ।
दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥ २.५०.२ ॥

啊,城市中最优秀者,受迦古特斯特之后裔守护的城市,我向你告别,也向守护你、居住在你之中的诸神告别。

2.50.3

निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।
पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥ २.५०.३ ॥

完成林中流放,并从对大地之主(父亲)的债务中解脱后,我将与母亲和父亲团聚,再次见到你。

2.50.4

ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।
अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥ २.५०.४ ॥

于是,他双眼红如血,满面泪水,悲伤地举起右臂,向乡野之民说道。

2.50.5

अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः ।
चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥ २.५०.५ ॥

你们对我表现出了应有的怜悯与仁慈。愿这漫长悲痛的可悲时日过去;请你们回去,完成你们的心愿。

2.50.6

तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् ।
विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥ २.५०.६ ॥

他们向这位大德致敬,并将他置于右侧绕行;那些人悲痛哀号,或在此处,或在彼处,呆立不动。

2.50.7

तथा विलपताम् तेषामतृप्तानाम् च राघवः ।
अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥ २.५०.७ ॥

当他们哀哭而仍未满足时,罗ghava 便消失在他们的视线之外,犹如夜幕初降时太阳隐没。

2.50.8

ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।
अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥ २.५०.८ ॥

随后他经过一片美丽的土地,那里五谷丰饶、财富充足,人们乐善好施、吉祥安宁,四方无惧,周围环绕着祠庙与祭柱。

2.50.9

उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् ।
तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥ २.५०.९ ॥

园林与芒果林装点其间,水源丰沛,人们知足而富裕,牛群聚集往来不绝。

2.50.10

लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् ।
रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥ २.५०.१० ॥

途经配得上君王、回荡着婆罗门吠陀诵声的地方,人中之最的罗摩乘车穿越了拘萨罗国。

2.50.11

मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् ।
राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥ २.५०.११ ॥

穿过喜乐繁荣、园林秀美、可供君王享用的王国中央,坚毅者中的最佳之人继续前行。

2.50.12

तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् ।
ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥ २.५०.१२ ॥

罗ghava 在那里看见了恒河,它分三流而下,神圣清澈,水质吉祥无藻,圣洁而为仙人所常至。

2.50.13

आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् ।
कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥ २.५०.१३ ॥

周围坐落着壮丽的修行处,适时地有欢喜的天女侍奉,拥有水池,吉祥的(恒河)。

2.50.14

देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।
नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥ २.५०.१४ ॥

受天神、檀那婆、乾闼婆与紧那罗的装饰,常受龙与乾闼婆之妻的侍奉,吉祥的(恒河)。

2.50.15

देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् ।
देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥ २.५०.१५ ॥

充满数百处天神的游乐之地,拥有数十万座天神花园,为诸神之利益而行于天空,以神圣莲池闻名(恒河)。

2.50.16

जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् ।
क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥ २.५०.१६ ॥

水浪相击的巨大笑声使之显得激烈,泡沫的清净笑靥使之微笑,此处水流如编结的发辫,彼处以漩涡为饰(恒河)。

2.50.17

क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् ।
क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥ २.५०.१७ ॥

此处平静而深邃,彼处被急流激荡,此处发出深沉的轰鸣,彼处发出可怖的声响(恒河)。

2.50.18

देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् ।
क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥ २.५०.१८ ॥

水中有众天神沐浴,以纯净的青莲为饰,此处有宽阔的河岸,彼处有洁净的沙滩(恒河)。

2.50.19

हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् ।
सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥ २.५०.१९ ॥

那条河里回荡着天鹅、鹤和赤麻鸭的鸣叫,四周处处响着常因欢喜而陶醉的飞鸟的啼声。

2.50.20

क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ।
क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥ २.५०.२० ॥

这条河,此处有岸边的树木如花环般装点,彼处被盛开的青莲覆盖,别处则充满莲花丛。

2.50.21

क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् ।
नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥ २.५०.२१ ॥

这条河,此处以白睡莲丛和花苞相映,彼处被各色花粉覆盖,仿佛陶醉一般。

2.50.22

व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् ।
दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥ २.५०.२२ ॥

那条河没有污物堆积,清澈如宝石,四方的象、林中的象以及发情的良象都来此。

2.50.23

देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् ।
प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥ २.५०.२३ ॥

这条河屡屡回荡着诸神的坐骑之声,其林中深处也一片回响;它仿佛一位精心以上好首饰装扮的女子。

2.50.24

फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा ।
शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥ २.५०.२४ ॥

这条河旁有结满果实、开着花、长出嫩芽的树木,有灌木与飞鸟,也有海豚、鳄鱼和蛇来往。

2.50.25

विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् ।
ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥ २.५०.२५ ॥

那位从毗湿奴足下落下、神圣、无罪、能除罪的恒河,她借着萨迦罗的威力,从湿婆(商羯罗)的发髻中被引下。

2.50.26

समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् ।
आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥ २.५०.२६ ॥

大臂者抵达了恒河——海洋的王后,回荡着沙罗斯与鹤鸟的鸣叫——并朝着悉陵伽毗罗补罗而去。

2.50.27

ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः ।
सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥ २.५०.२७ ॥

大车将看着波浪与漩涡满布的恒河,对御者苏曼陀罗说:“今天我们就在这里住宿吧。”

2.50.28

अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् ।
सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥ २.५०.२८ ॥

“御者啊,离这河不远,有一棵非常大的因古底树,满开繁花、长满嫩芽;我们就在这里住宿吧。”

2.50.29

द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् ।
देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥ २.५०.२९ ॥

“我们将看见恒河——诸河中最殊胜者,水源值得尊敬,吉祥美好,属于天神、檀那婆、乾闼婆、野兽、人类与鸟类。”

2.50.30

लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् ।
उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥ २.५०.३० ॥

罗什曼那与苏曼陀罗对罗怙后裔说“好的”,随即驾着马匹向那棵因古底树驶去。

2.50.31

रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः ।
रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥ २.५०.३१ ॥

伊刹婆迦之子的欢喜者罗摩走近那棵可爱的树,与妻子和罗什曼那一同从车上下来。

2.50.32

सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् ।
वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥ २.५०.३२ ॥

苏曼陀罗也下车,解开良马,合掌站到树根下的罗摩面前。

2.50.33

तत्र राजा गुहो नाम रामस्य आत्म समः सखा ।
निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥ २.५०.३३ ॥

那里有一位名叫古诃的国王,是罗摩如同自身一般的朋友,属尼沙陀种姓,强大,以首领而闻名。

2.50.34

स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् ।
वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥ २.५०.३४ ॥

他听说人中之虎罗摩已到达他的领地,便在长老、大臣与亲族的簇拥下前来。

2.50.35

ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् ।
सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥ २.५०.३५ ॥

于是罗摩看见尼沙陀之主远远站立,便与苏弥多罗之子一同前去迎见古诃。

2.50.36

तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् ।
यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥ २.५०.३६ ॥

古诃悲痛地紧紧拥抱罗摩,说道:「罗摩啊!阿逾陀如何属于你,这里也同样属于你;请告诉我,我能为你做什么?」

2.50.37

ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् ।
ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् ।
अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥ २.५०.३७ ॥

大臂者啊,谁能得到如此可爱的客人呢?于是他迅速奉上各种上好的食物,献上阿尔غ亚,并说了这些话。

2.50.38

स्वागतम् ते महा बाहो तव इयम् अखिला मही ।
वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥ २.५०.३८ ॥

大臂者啊,欢迎你!这整个大地都是你的。我们是你的仆人,你是我们的主人;请好好地统治我们吧。

2.50.39

भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् ।
शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥ २.५०.३९ ॥

可食之物、可享用之物、饮品和可舔之物已为你备好;还有上好的床榻,以及你的马匹所需的草料。

2.50.40

गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥ २.५०.४० ॥

guha如此说话之时,罗怙后裔(罗摩)回答了他。

2.50.41

अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् ।
पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥ २.५०.४१ ॥

你以各种方式使我们受到尊重并感到欢喜:你步行前来,又表达了深厚的情谊。

2.50.42

भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् ।
दिष्ट्या त्वाम् गुह पश्यामि अरोगम् सह बान्धवैः ॥ २.५०.४२ ॥

他用那优美圆润的双臂拥抱着他,说道:

2.50.43

अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च ।
यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् ।
सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥ २.५०.४३ ॥

你的国土、朋友和财富是否安好?你出于情谊在此所准备的一切,我都接受,因为我并不以接受布施为业。

2.50.44

कुश चीर अजिन धरम् फल मूल अशनम् च माम् ।
विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥ २.५०.४४ ॥

你当知道我是一位苦行者,身披吉祥草、树皮衣和鹿皮,以果实和根茎为食,专注于法,在林中行走。

2.50.45

अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् ।
एतावता अत्र भवता भविष्यामि सुपूजितः ॥ २.५०.४५ ॥

我别无所求,只需喂养马匹;仅此一事,你在这里就足以很好地尊敬我了。

2.50.46

एते हि दयिता राज्ञः पितुर् दशरथस्य मे ।
एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥ २.५०.४६ ॥

这些是我父亲国王十车王所钟爱的马;我将因这些被精心照料的马而受到尊敬。

2.50.47

अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् ।
गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥ २.५०.४७ ॥

于是,guha立即吩咐在场的仆人:快快给马饮水和草料。

2.50.48

ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् ।
जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥ २.५०.४८ ॥

随后,他以树皮衣作为上衣披在身上,行完傍晚的暮祷,只取了罗什曼那亲自带来的水作为食物。

2.50.49

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।
सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥ २.५०.४९ ॥

罗什曼那洗净了躺卧在地上的他与妻子的双脚,然后走近,倚着一棵树站立。

2.50.50

गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् ।
अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥ २.५०.५० ॥

古诃也与御者一起与罗什曼那交谈,随后手持弓箭,警觉地守在罗摩身边彻夜不眠。

2.50.51

तथा शयानस्य ततः अस्य धीमतः ।
यशस्विनो दाशरथेर् महात्मनः ।
अदृष्ट दुह्खस्य सुख उचितस्य सा ।
तदा व्यतीयाय चिरेण शर्वरी ॥ २.५०.५१ ॥

对于这样躺卧的、智慧、享有盛名、心胸宽广的十车王之子——他从未经历过悲痛,本应享受幸福——那一夜便慢慢过去了。