蚁垤《罗摩衍那》 · 篇 2.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.51.1
तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् ।
गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥ २.५१.१ ॥
古诃见罗什曼那为兄长真诚守夜,心中悲伤,便对罗怙之裔(罗摩)说了这番话。
2.51.2
इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।
प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥ २.५१.२ ॥
亲爱的,这张舒适的床是为你准备的。王子啊,请在上面好好地安然休息吧。
2.51.3
उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः ।
गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥ २.५१.३ ॥
这些人都能承受艰辛,而你理应享受安乐。为了守护迦古特斯塔,我们将整夜守望。
2.51.4
न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन ।
ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥ २.५१.४ ॥
世上没有比罗摩更让我珍爱的人。我说的是真话,并以真实之名向你发誓。
2.51.5
अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः ।
धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥ २.५१.५ ॥
凭借他的恩惠,我希望在这世上获得大名、丰盛的法(达摩),以及圆满的财富。
2.51.6
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।
रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥ २.५१.६ ॥
因此,我将手持弓箭,与我的族人一同从四面守护我亲爱的朋友罗摩,他正与悉多同眠。
2.51.7
न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा ।
चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥ २.५१.७ ॥
在这片我时常出没的森林里,没有什么是我不知道的。即便是四军之众的大军,我们也能抵挡。
2.51.8
लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ ।
न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥ २.५१.८ ॥
于是罗什曼那对他说:无垢者啊,有你护佑,我们在此无一人感到恐惧,因为你只看重法。
2.51.9
कथम् दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥ २.५१.९ ॥
十车王之子与悉多同卧于地,我怎能入睡,又怎能保有生命或享受安乐呢?
2.51.10
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।
तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥ २.५१.१० ॥
你看那人,即使诸神与阿修罗合力,也无法在战场上抵挡他,他正与悉多安然地躺在草上。
2.51.11
यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः ।
एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥ २.५१.११ ॥
此人是十车王唯一的儿子,凭咒语、苦行和种种辛劳而得,具备相称的吉相。
2.51.12
अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति ।
विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥ २.५१.१२ ॥
此人既然流放出走,国王不会长久执政;大地必定很快就会成为寡妇。
2.51.13
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।
निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥ २.५१.१३ ॥
女人们大声哀号之后,因疲惫而安静下来。亲爱的,我想王宫的喧声也已止息了。
2.51.14
कौसल्या चैव राजा च तथैव जननी मम ।
न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥ २.५१.१४ ॥
考莎厘雅与国王,以及我的母亲——我并不希望他们在这一夜全都还活着。
2.51.15
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।
तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥ २.५१.१५ ॥
若蒙舍特鲁桑娜照料,我的母亲或许还能活下来。但最大的悲痛是,作为英雄之母的考莎厘雅将会灭亡。
2.51.16
अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा ।
राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥ २.५१.१६ ॥
那座城市,充满忠诚的人民,带来快乐与美景,将因国王的灾难而毁灭。
2.51.17
कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः ।
शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥ २.५१.१७ ॥
不见那位心胸宽广、深受爱戴的长子,这位伟大的国王的生命之气如何能维系他的身体?
2.51.18
विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।
अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥ २.५१.१८ ॥
国王一旦灭亡,之后考莎厘雅也将灭亡,接着我的母亲也将走向毁灭。
2.51.19
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥ २.५१.१९ ॥
已经过去了,已经过去了!愿望未能实现,未能让罗摩登上王位,我的父亲将要灭亡。
2.51.20
सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते ।
प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥ २.५१.२० ॥
到那时,目的已经达成的人,得知父亲的事情,将以一切亡者之礼为这位大地之主举行丧葬仪式。
2.51.21
रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।
हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥ २.५१.२१ ॥
其十字路口布置优美,大道划分得当,充满高楼与宫殿,并以出色的歌伎为装饰。
2.51.22
रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् ।
सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥ २.५१.२२ ॥
车马象群拥挤,乐器之声回荡,充满一切吉祥,人民欢欣而富足,熙熙攘攘。
2.51.23
आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् ।
सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥ २.५१.२३ ॥
在我父亲的王都里,园林与花园俱全,集会与节庆装点其间,他们将欢快地漫游。
2.51.24
अपि जीवेद्धशरथो वनवासात्पुनर्वयम् ।
प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥ २.५१.२४ ॥
或许达舍罗陀尚在人间,我们从林中流放归来后,或许还能再见到那位大德、坚守誓言的罗摩。
2.51.25
अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् ।
निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥ २.५१.२५ ॥
或许,与信守誓言者同行,我们都平安无恙,待这次林中流放结束后,便能返回阿约提亚。
2.51.26
परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः ।
तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥ २.५१.२६ ॥
那夜过去了,这位高尚的王子悲叹而立,为痛苦所折磨。
2.51.27
तथा हि सत्यम् ब्रुवति प्रजा हिते ।
नर इन्द्र पुत्रे गुरु सौहृदात् गुहः ।
मुमोच बाष्पम् व्यसन अभिपीडितः ।
ज्वरा आतुरः नागैव व्यथा आतुरः ॥ २.५१.२७ ॥
王子为民众之利说出真话,guha因深厚的情谊、为困厄所逼,落下泪来,痛苦如同发烧的大象。