Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.52.1

प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः ।
उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥ २.५२.१ ॥

黎明来临时,声名显赫的罗摩对具有吉祥相的苏弥陀罗之子罗什曼那说道。

2.52.2

भास्कर उदय कालो अयम् गता भगवती निशा ।
असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥ २.५२.२ ॥

此时正是日出时分,吉祥的夜晚已经过去。亲爱的,那只很黑的鸟,杜鹃,正在啼叫。

2.52.3

बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।
तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥ २.५२.३ ॥

林中传来孔雀鸣叫的声音。温和的人啊,让我们渡过迅疾的恒河,走向大海。

2.52.4

विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः ।
गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥ २.५२.४ ॥

领会了罗摩的话后,令朋友欢喜的苏弥陀罗之子呼唤了固诃和御者,然后站在兄长面前。

2.52.5

स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।
स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥ २.५२.५ ॥

他听了罗摩的话并接受之后,迅速召来工匠之长,并对大臣们说了这番话。

2.52.6

अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।
सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥ २.५२.६ ॥

请快速在此河渡口带来一只美观坚固、配有舵与把手、容易渡过的船。

2.52.7

तम् निशम्य समादेशम् गुहामात्यगणो महान् ।
उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥ २.५२.७ ॥

众大臣听到此令后,准备好了那艘精美的船,并回报给了guha。

2.52.8

ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।
उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥ २.५२.८ ॥

于是guha合掌对罗伽婆说:“大人,此船已备好;我还能为您做什么?”

2.52.9

तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् ।
नौरियम् पुरुषव्याग्र ताम् त्वमारोह सुव्रत ॥ २.५२.९ ॥

啊,你光辉如天神之子!这艘船是为您渡过流向大海的河流而备。啊,人中之虎,持守誓愿者,请登上它。

2.52.10

अथोवाच महातेजा रामो गुहमिदम् वचः ।
कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥ २.५२.१० ॥

于是大光明的罗摩对guha说了这些话:“因你,我的心愿已经达成;请快快让我们登上此船。”

2.52.11

ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।
जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥ २.५२.११ ॥

于是两位持弓的罗伽婆背上箭袋,佩好宝剑,与悉多一同向恒河走去。

2.52.12

रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।
किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥ २.५२.१२ ॥

御者谦恭地走到知法的罗摩面前,合掌说道:“我该做什么?”

2.52.13

ततोऽब्रवीद्दाशरथिः सुमन्त्रम् ।
स्पृशन् करेणोत्तमदक्षिणेन ।
सुमन्त्र शीघ्रम् पुनरेव याहि ।
राज्ञः सकाशे भवचाप्रमत्तः ॥ २.५२.१३ ॥

于是达舍罗陀之子罗摩用他优良的右手触摸苏曼特罗,说道:苏曼特罗,快快回到国王身边,要谨慎小心。

2.52.14

निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम ।
रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥ २.५२.१४ ॥

他对他说:回去吧,为我做到这些已经足够。我将舍弃战车,步行前往大森林。

2.52.15

आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।
सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥ २.५२.१५ ॥

苏曼特罗见自己已获准离去,心中悲痛,便对伊刻婆诸族的罗摩——人中之虎——说了这番话。

2.52.16

न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् ।
तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥ २.५२.१६ ॥

世上无人曾越过此事:你与兄弟、妻子一同在森林中像普通人那样居住。

2.52.17

न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः ।
मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥ २.५२.१७ ॥

我不认为梵行或诵习吠陀有何果报,温和与正直也一样,若你竟遭此大难。

2.52.18

सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।
त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥ २.५२.१८ ॥

罗怙之后啊,与维德赫依和兄弟一同住在森林中,英雄啊,你将达到归宿,如同征服三界的人一般。

2.52.19

वयम् खलु हता राम ये तया अपि उपवन्चिताः ।
कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥ २.५२.१९ ॥

罗摩啊,我们确实已经毁灭,也被她所欺骗。落入罪恶的吉迦伊之手,我们将成为苦难的承受者。

2.52.20

दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥ २.५२.२० ॥

看见罗摩远去,他被悲痛折磨,哭了很久。

2.52.21

ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् ।
रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥ २.५२.२१ ॥

于是泪水止住,他以清水净手,罗摩一次又一次地对御者说了温和的话。

2.52.22

इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।
यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥ २.५२.२२ ॥

在甘蔗王族中,我看不到像你这样的益友。请你这样做,使国王十车不为我悲伤。

2.52.23

शोक उपहत चेताः च वृद्धः च जगती पतिः ।
काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥ २.५२.२३ ॥

这位大地之主国王心被悲伤所伤,年迈,又为欲望的重担所压垮;因此我对你说这些话。

2.52.24

यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः ।
कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥ २.५२.२४ ॥

无论这位大德的大地之主下令什么,都应毫不犹豫地去做,以使吉迦伊欢喜。

2.52.25

एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः ।
यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥ २.५२.२५ ॥

国王正是为此而治理国家:使其在一切事务中,心意不受阻碍。

2.52.26

यद्यथा स महा राजो न अलीकम् अधिगच्चति ।
न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥ २.५२.२६ ॥

苏曼特拉啊,你要这样去做,使这位大王既不陷于虚妄,也不为悲伤所折磨。

2.52.27

अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् ।
ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥ २.५२.२७ ॥

苏曼特拉啊,你要向那位未曾经历悲苦、年迈高尚、已降服诸根的大王致敬,并为我说这些话。

2.52.28

न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली ।
अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा ॥ २.५२.२८ ॥

我不为此忧伤,罗什曼那与摩提利也不为此忧伤——被逐出阿逾陀、住在林中,我们都不以为苦。

2.52.29

चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।
लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥ २.५२.२९ ॥

十四年期满之后,你很快便会看到罗什曼那、我和悉多都已归来。

2.52.30

एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।
अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥ २.५२.३० ॥

苏曼特拉啊,如此反复地对大王、我的母亲、其他众王后以及吉凯伊说完之后。

2.52.31

आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् ।
सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥ २.५२.३१ ॥

请转告考莎利雅我安好,并向她的足下致敬;也请代我、悉多,以及依尊者(罗什曼那)之言,代罗什曼那致敬。

2.52.32

ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय ।
आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥ २.५२.३२ ॥

请转告大王,尽快召回婆罗多;婆罗多归来后,王啊,应依您的意见,让他就任那一职位。

2.52.33

भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।
अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥ २.५२.३३ ॥

拥抱婆罗多,并为他行太子灌顶之礼之后,愿由我们的忧伤所生的悲苦,不要压倒您。

2.52.34

भरतः च अपि वक्तव्यो यथा राजनि वर्तसे ।
तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥ २.५२.३४ ॥

也应告诉婆罗多:你如何侍奉大王,就应同样无差别地侍奉所有的母亲。

2.52.35

यथा च तव कैकेयी सुमित्रा च अविशेषतः ।
तथैव देवी कौसल्या मम माता विशेषतः ॥ २.५२.३५ ॥

正如凯开伊和苏弥多罗是你的母亲,同样无差别;但王后考莎利雅是我的母亲,所以要格外尊重。

2.52.36

तातस्य प्रियकामेन यौवराज्यमपेक्षता ।
लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥ २.५२.३६ ॥

你若心愿取悦父王,并追求太子之位,便能使这份幸福在两个世界中增长。

2.52.37

निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः ।
तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥ २.५२.३७ ॥

苏曼陀罗被罗摩遣返,因悲伤而憔悴,听完所有这些话后,出于深情对迦古特stha家族的罗摩说道。

2.52.38

यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।
भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥ २.५२.३८ ॥

我并非出于谄媚,而是出于深情,无所畏惧、怀着虔敬而言;请您暂且原谅这些话。

2.52.39

कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् ।
तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥ २.५२.३९ ॥

失去你,我怎能回到那座城市呢?亲爱的儿子,因你的别离,它将如同为爱子悲痛的母亲一般。

2.52.40

सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः ।
विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥ २.५२.४० ॥

即便看见我的车与罗摩同行,百姓当时也会稍感安慰;但见车中无罗摩,那座城市也将崩裂。

2.52.41

दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् ।
सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥ २.५२.४१ ॥

看见这辆空空的车,只剩御者,城中百姓将陷入沮丧,如同战场上自家的军队英雄尽失,只剩御者幸存。

2.52.42

दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।
चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥ २.५२.४२ ॥

你虽远居,百姓心中却想着你如站在面前,今日他们必定绝食,只思念着你。

2.52.43

दृष्टं तद्धि त्वया राम यादृशम् त्वत्प्रवासने ।
प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥ २.५२.४३ ॥

罗摩啊,你亲眼见过你流亡之时,民众因思念你而心神疲惫、骚动不安的景象。

2.52.44

आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने ।
रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥ २.५२.४४ ॥

百姓在婆罗门被流放时发出的哀号确实存在;若见我站在车上,他们会将其加剧百倍。

2.52.45

अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।
नीतः असौ मातुल कुलम् सम्तापम् मा कृथा इति ॥ २.५२.४५ ॥

我该对王后说什么?说我已将您的儿子带往舅家,请您不要悲伤吗?

2.52.46

असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।
कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥ २.५२.४६ ॥

即便是假话,我也不会说出这样的话;那我又怎能说出这句真实却令人不快的话呢?

2.52.47

मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः ।
कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥ २.५२.४७ ॥

这些归我照管、载着你的亲族的良马,失去你之后,怎能拉动这辆车?

2.52.48

तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ ।
वनवासानुयानाय मामनुज्ञातुमर्हसि ॥ २.५२.४८ ॥

因此,无过者啊,没有你我不能回到阿约提亚;你应当允许我随你前往森林流放之地。

2.52.49

यदि मे याचमानस्य त्यागम् एव करिष्यसि ।
सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥ २.५२.४९ ॥

若我恳求之时你仍要抛弃我,那么一旦你在此舍弃我,我便连同车驾投入火中。

2.52.50

भविष्यन्ति वने यानि तपो विघ्न कराणि ते ।
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥ २.५२.५० ॥

森林中凡是会妨碍你修行苦行的生灵,啊,罗怙之后,我都将以车驾将它们挡开。

2.52.51

तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् ।
आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥ २.५२.५१ ॥

凭借那件事,我已得到乘车出行的快乐;凭借你所做之事,我希望得到居于森林的快乐。

2.52.52

प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।
प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥ २.५२.५२ ॥

请你垂怜:我愿在森林中紧随你身后。我满怀爱意地说:我愿你仍做我的丈夫。

2.52.53

इमे चापि हया वीर यदि ते वनवासिनः ।
परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥ २.५२.५३ ॥

啊,英雄,如果你这些马也成为林中居民,它们会侍奉你,并得到至高的归宿。

2.52.54

तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।
अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥ २.५२.५४ ॥

居于森林之中,我将俯首侍奉你。阿约提亚,乃至天界,我都将完全舍弃。

2.52.55

न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।
राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥ २.५२.५५ ॥

没有你,我无法进入阿逾陀,正如作恶之人无法进入大因陀罗的都城。

2.52.56

वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः ।
यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥ २.५२.५६ ॥

待森林流放结束时,这正是我的心愿:用这辆车将你再次送回城中。

2.52.57

चतुर् दश हि वर्षाणि सहितस्य त्वया वने ।
क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥ २.५२.५७ ॥

即便与你同在森林中的十四年,也会如瞬间般流逝——并非另有他样,而是百倍如此。

2.52.58

भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि ।
भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥ २.५२.५८ ॥

你啊,爱护仆从的人!我是你忠诚的侍女,坚守本位;你作为主人之子,已踏上征途,不应舍弃我。

2.52.59

एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः ।
रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥ २.५२.५९ ॥

罗摩见悉多以种种方式悲切地一再恳求,便怜悯侍从,对苏曼特罗说了这番话。

2.52.60

जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल ।
शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥ २.५२.६० ॥

你啊,忠于主人的人!我知道你对我的至诚忠心;请听,我为何要从此地派你返回城中。

2.52.61

नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।
कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥ २.५२.६१ ॥

见你回到城中,我的小母亲迦迦伊将确信罗摩已进入森林。

2.52.62

परितुष्टा हि सा देवि वन वासम् गते मयि ।
राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥ २.५२.६२ ॥

女王啊,她会因我入林流放而欢喜,也不会怀疑国王说谎,因为他是持法之人。

2.52.63

एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।
भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥ २.५२.६३ ॥

这是我的第一个计划:让我小母亲的儿子婆罗多得到一个受守护、繁荣的王国。

2.52.64

मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।
सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥ २.५२.६४ ॥

为了我的亲爱之事和国王的利益,你乘车前往城中,把那些不悦的话,照你所受嘱咐的样子,原样转告。

2.52.65

गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥ २.५२.६५ ॥

罗摩对guha说了这番坚定而有理据的话。

2.52.66

नेदानीम् गुह योग्योऽयम् वसो मे सजने वने ।
अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥ २.५२.६६ ॥

guha啊,如今在这人群聚集的森林中居住,对我并不合适;我必须住在修行的净舍之中,这是我的定规。

2.52.67

सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् ।
हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥ २.५२.६७ ॥

我既受持这苦行者的庄严戒律,便再次为父王、悉多与罗什曼那祈求福祉。

2.52.68

जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।
तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥ २.५२.६८ ॥

我将结成发髻后出发;去取来榕树的乳汁。guha 迅速把那乳汁献给了王子。

2.52.69

लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः ।
दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥ २.५२.६९ ॥

罗摩用那乳汁为罗什曼那和自己结成发髻;这位长臂的人中之虎便以束发的模样示人。

2.52.70

तौ तदा चीर वसनौ जटा मण्डल धारिणौ ।
अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥ २.५२.७० ॥

此时,身着树皮衣、头戴束发圆环的罗摩与罗什曼那两兄弟,光彩如同仙人。

2.52.71

ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।
व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥ २.५२.७१ ॥

随后,罗摩与罗什曼那走上吠柯那萨之道,吩咐了誓戒,并对助手古诃说道。

2.52.72

अप्रमत्तः बले कोशे दुर्गे जन पदे तथा ।
भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥ २.५२.७२ ॥

古诃啊,对军队、府库、城堡与国土都须保持警觉;守护王国被认为最为艰难。

2.52.73

ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः ।
जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥ २.५२.७३ ॥

于是伊克瓦库之家的欢喜者罗摩向古诃告别,从容而迅速地与妻子和罗什曼那一同启程。

2.52.74

स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः ।
तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥ २.५२.७४ ॥

然而伊克瓦库之家的欢喜者罗摩见河岸上有一只船,想要渡过水流湍急的恒河,便对罗什曼那说了这些话。

2.52.75

आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः ।
सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥ २.५२.७५ ॥

人中之虎啊,你慢慢登上这只停在这里的船;先扶住心志高远的悉多,让她先上船。

2.52.76

स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।
आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥ २.५२.७६ ॥

他听完兄长的全部吩咐,毫无违抗,先扶майтхили悉多上船,之后自律的罗什曼那也登上了船。

2.52.77

अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः ।
ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥ २.५२.७७ ॥

此时光辉的罗什曼那之兄亲自登上了船;随后尼沙陀之主古诃吩咐他的亲族。

2.52.78

राघवोऽपि महातेजा नावमारुह्य ताम् ततः ।
ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥ २.५२.७८ ॥

光辉伟大的罗怙之裔(罗摩)也登上那只船,然后像婆罗门和刹帝利那样默诵,为自己祈求福祉。

2.52.79

आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।
प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥ २.५२.७९ ॥

依照经典漱口净身后,他与悉多一同向那条河致敬;光明无量的罗什曼那满怀爱敬与喜悦,也向河致敬。

2.52.80

अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् ।
आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥ २.५२.८० ॥

告别苏曼陀罗及其军队的古诃后,罗摩登上船,命令船夫划船前行。

2.52.81

ततः तैः चोदिता सा नौः कर्ण धार समाहिता ।
शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥ २.५२.८१ ॥

于是那只船在船夫的催促下,由舵手小心掌舵,凭借精美船桨的推力,迅速地渡过了水面。

2.52.82

मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।
वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥ २.५२.८२ ॥

悉多抵达婆吉罗提河中央时,这位无可指摘的毗提诃公主双手合十,对那条河说道。

2.52.83

पुत्रः दशरथस्य अयम् महा राजस्य धीमतः ।
निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥ २.५२.८३ ॥

愿这位大王、智者十车王之子遵行父命;恒河啊,愿他在你的庇护下如此行事。

2.52.84

चतुर् दश हि वर्षाणि समग्राणि उष्य कानने ।
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥ २.५२.८४ ॥

在林中度过整整十四年之后,他将与兄弟和我一同重新归来。

2.52.85

ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।
यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥ २.५२.८५ ॥

女神啊,有福之人啊,我平安地归来了。恒河啊,我将欢喜地祭拜你,以成就一切心愿。

2.52.86

त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे ।
भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥ २.५२.८६ ॥

女神啊,你流经三条河道,你注视着梵天之界。在这个世界上,你也显现为海洋之王的妻子。

2.52.87

सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।
प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥ २.५२.८७ ॥

女神啊,光彩照人的你啊,我向你礼拜、赞颂你,因为人中之雄已获得王位,平安归来。

2.52.88

गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।
ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥ २.५२.८८ ॥

出于让你欢喜的心愿,我将把数十万头牛、衣物和精美的食物布施给婆罗门。

2.52.89

सुराघटसहस्रेण माम्सभूतोदनेन च ।
यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥ २.५२.८९ ॥

女神啊,我回到城中,将以千瓮美酒和拌有肉的饭食,虔诚地祭拜你。

2.52.90

यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि ।
तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ २.५२.९० ॥

凡居于你两岸的诸神,以及圣渡口和神庙,我都将加以祭拜。

2.52.91

पुनरेव महाबाहुर्मया भ्रात्रा च सम्गतः ।
अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥ २.५२.९१ ॥

无瑕的人啊,愿臂力强大的罗摩与我及兄弟重新相聚,结束森林流放,进入阿逾陀城。

2.52.92

तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।
दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥ २.५२.९२ ॥

悉多如此说着,那无瑕的女子很快到达了恒河的南岸。

2.52.93

तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः ।
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥ २.५२.९३ ॥

罗摩到达岸边,离开船只,与兄弟及维德哈公主一同前行。

2.52.94

अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् ।
भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥ २.५२.९४ ॥

于是臂力强大的罗摩对使苏弥陀喜悦增长的罗什曼那说:“无论在有人居住之处还是荒僻之地,都要准备好守护。”

2.52.95

अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने ।
अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥ २.५२.९५ ॥

在荒僻的森林中,无所见之处,必须确保守护。苏弥特拉之子啊,走在前面,让悉多跟随你。

2.52.96

पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।
अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥ २.५२.९६ ॥

我将在后面行走,保护你和悉多。今天,维德哈公主将知道森林流放之苦。

2.52.97

न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।
अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥ २.५२.९७ ॥

至今尚无一事易成;今日维德赫女将知晓林中流放之苦。

2.52.98

प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् ।
विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥ २.५२.९८ ॥

今日她将进入那无人烟、无田园的密林,崎岖而多陡崖。

2.52.99

श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मणोऽग्रतः ।
अनन्तरम् च सीताया राघवो रघनन्धनः ॥ २.५२.९९ ॥

罗摩的话传入耳中,罗什曼那走在前面;悉多之后,罗怙族的欢乐者罗伽婆随行。

2.52.100

गतम् तु गन्गा पर पारम् आशु ।
रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।
अध्व प्रकर्षात् विनिवृत्त दृष्टिर् ।
र्मुमोच बाष्पम् व्यथितः तपस्वी ॥ २.५२.१०० ॥

罗摩已迅速渡过恒河到达对岸,苏曼陀罗不停地凝望;因道路远去,目光收回,悲伤的苦行者落下泪来。

2.52.101

स लोकपालप्रतिमप्रभाववाम् ।
स्तीर्त्वा महात्मा वरदो महानदीम् ।
ततः समृद्धान् शुभसस्यमालिनः ।
क्रमेण वत्सान् मुदितानुपागमत् ॥ २.५२.१०१ ॥

那位与世界守护者同等威能的大德者,赐福者,渡过那大河之后,逐渐来到繁荣欢乐、庄稼丰美的村落。

2.52.102

तौ तत्र हत्वा चतुरः महा मृगान् ।
वराहम् ऋश्यम् पृषतम् महा रुरुम् ।
आदाय मेध्यम् त्वरितम् बुभुक्षितौ।
वासाय काले ययतुर् वनः पतिम् ॥ २.५२.१०२ ॥

二人在那里杀死了四只大鹿——野猪、ṛśya、斑羚和大ruru,迅速取了洁净的肉,因饥饿,适时前往森林之主(一棵大树)处歇息。