ヴァールミーキのラーマーヤナ · サルガ 2.53
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.53.1
स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् ।
रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥ २.५३.१ ॥
その木にたどり着き、西の夕べの祭儀を行ったのち、人々を喜ばせる者の中で最も優れたラーマはラクシュマナに言った。
2.53.2
अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः ।
या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥ २.५३.२ ॥
今日は私たちが国の外で過ごす最初の夜であり、スマントラのいない夜だ。それを恋しがるべきではない。
2.53.3
जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु ।
योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥ २.५३.३ ॥
今日から夜は二人とも眠気を覚まして起きていなければならない、ラクシュマナよ。シーターの安全と幸福は私たち二人にかかっているのだから。
2.53.4
रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे ।
उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥ २.५३.४ ॥
スミトラーの息子よ、私たちはどうにかこの夜を過ごしている。自分たちで集めたものを地面に敷き、横になるのだ。
2.53.5
स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः ।
इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥ २.५३.५ ॥
大きな寝台にふさわしく、それに慣れていた彼は、大地に身を横たえ、ソーミトリ(ラクシュマナ)にこの吉祥な言葉を語った。
2.53.6
ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण ।
कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥ २.५३.६ ॥
ラクシュマナよ、きっと大王は今日、悲しみの中で眠っているのだろう。願いを叶えたカイケーイーは満足しているはずだ。
2.53.7
सा हि देवी महा राजम् कैकेयी राज्य कारणात् ।
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥ २.५३.७ ॥
その王妃カイケーイーは、王国のために、到着したバラタを見て、偉大な王の命さえ奪いかねない。
2.53.8
अनाथः चैव वृद्धः च मया चैव विनाकृतः ।
किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥ २.५३.८ ॥
守る者もなく老いて、私からも引き離された彼は、欲望に駆られた自我がカイケーイーの支配下に入り、何をするだろうか。
2.53.9
इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् ।
कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥ २.५३.९ ॥
この災いと王の心の迷いを見て、私の考えでは、欲望こそ利益と法より重いのだ。
2.53.10
को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् ।
चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥ २.५३.१० ॥
どんな無知な男でも女のために、父が私を捨てたように、月に従う息子を捨てるだろうか。
2.53.11
सुखी बत सभार्यः च भरतः केकयी सुतः ।
मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥ २.५३.११ ॥
カイケーイーの子バラタは妻とともに本当に幸せになるだろう。喜ぶコーサラの民を、彼はただ一人で最高の王のように享受するだろう。
2.53.12
स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति ।
ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥ २.५३.१२ ॥
父が年老いて過ぎ、私が森に身を寄せるとき、彼ひとりが王国全体の顔となるだろう。
2.53.13
अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते ।
एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥ २.५३.१३ ॥
利と法を捨てて欲望に従う者は、王ダシャラタのように速やかにこのような災難に陥る。
2.53.14
मन्ये दशरथ अन्ताय मम प्रव्राजनाय च ।
कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥ २.५३.१४ ॥
善良な者よ、私は思う。カイケーイーは、ダシャラタの死と私の追放、そしてバラタの王国のために来たのだ。
2.53.15
अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता ।
कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥ २.५३.१५ ॥
今やカイケーイーは幸運の驕りに惑わされ、私のせいでカウサリヤーとスミトラーを苦しめないだろうか。
2.53.16
मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् ।
अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥ २.५३.१६ ॥
私のせいで王妃スミトラーが悲しみの内に暮らすことがないように。ラクシュマナよ、ここから適当な時に、アヨーディヤーへ入れ。
2.53.17
अहम् एको गमिष्यामि सीतया सह दण्डकान् ।
अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥ २.५३.१७ ॥
私はシーターと共にダンダカの森へ一人で行こう。庇護者のないカウサリヤーの庇護者は、お前となるのだ。
2.53.18
क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् ।
परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥ २.५३.१८ ॥
カイケーイーは行いの卑しい女だ。憎しみから不正を働き、法を知る者よ、私の母をバラタに引き渡すかもしれない。
2.53.19
नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः ।
जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥ २.५३.१९ ॥
きっと前世のどこかで、ある女たちが息子たちと別れさせたのだろう。だからこそ、サウミトリよ、この苦しみが私の母にも降りかかったのだ。
2.53.20
मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च ।
विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥ २.५३.२० ॥
長く育てられ、苦しみの中で育った私のせいで、果実を味わうべき時にカウサリヤーは離れ離れになった。私を恥じよ!
2.53.21
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ।
सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥ २.५३.२१ ॥
サウミトリよ、どの女性も私のような息子を産まぬように。私は母に果てしない悲しみを与えているのだ。
2.53.22
मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका ।
यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥ २.५३.२२ ॥
ラクシュマナよ、彼女は私よりも愛しいのだと思う。彼女からは九官鳥の声が聞こえる、まるでオウムの足音のように。
2.53.23
शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता ।
पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥ २.५३.२३ ॥
嘆き悲しみ、運の悪い母に、私のような息子は何の助けにもならない。敵を砕く者よ、息子のいないも同然の母のために、私に何ができようか。
2.53.24
अल्प भाग्या हि मे माता कौसल्या रहिता मया ।
शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥ २.५३.२४ ॥
私の不運な母カウサリヤーは、私を失い、大きな苦しみに打ちひしがれ、悲しみの海に倒れて横たわっている。
2.53.25
एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण ।
तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥ २.५३.२५ ॥
ラクシュマナよ、怒れば私は一人で矢をもってアヨーディヤーと大地を取ることができる。私の武勇は理由のないものではない。
2.53.26
अधर्म भय भीतः च पर लोकस्य च अनघ ।
तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥ २.५३.२६ ॥
罪なきラクシュマナよ、不正への恐れと来世への恐れに怯えた私は、今日自らを灌頂させはしない。
2.53.27
एतत् अन्यच् च करुणम् विलप्य विजने बहु ।
अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥ २.५३.२७ ॥
これとほかの多くの哀切な嘆きを人気のない所で嘆いた後、涙に満ちた顔のラーマは夜の中で黙って座った。
2.53.28
विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् ।
समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥ २.५३.२८ ॥
嘆きを終え、炎の消えた火のようなラーマを、海のように動じないラクシュマナが慰めた。
2.53.29
ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर ।
निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥ २.५३.२९ ॥
戦士の中の最良の者よ、あなたが去れば、ラーマのアヨーディヤーの都は今日きっと、月のない夜のように輝きを失うであろう。
2.53.30
न एतत् औपयिकम् राम यद् इदम् परितप्यसे ।
विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥ २.५३.३० ॥
ラーマよ、あなたがそのように嘆くのは適切ではない。人中の牡牛よ、あなたはシーターと私をも苦しめている。
2.53.31
न च सीता त्वया हीना न च अहम् अपि राघव ।
मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥ २.५३.३१ ॥
ラガヴァよ、あなたなしではシーターも私も一瞬たりとも生きられない。水から引き上げられた二匹の魚のようになるだろう。
2.53.32
न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप ।
द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥ २.५३.३२ ॥
敵を焼く者よ、あなたなしでは今日、父にも、シャトルグナにも、スミトラーにも会いたくない。天国さえも望まない。
2.53.33
ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् ।
न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥ २.५३.३३ ॥
そこで、心地よく座っている彼女を遠くない所に見て、法を愛する二人はバニヤンの木の下に巧みに整えられた寝床へ向かった。
2.53.34
स लक्ष्मणस्य उत्तम पुष्कलम् वचो ।
निशम्य च एवम् वन वासम् आदरात् ।
समाः समस्ता विदधे परम् तपः ।
प्रपद्य धर्मम् सुचिराय राघवः ॥ २.५३.३४ ॥
ラクシュマナの見事で豊かな言葉を聞き、ラガヴァは敬意をもって森での生活を受け入れ、法に拠り所を求めて、長年にわたり最高の苦行を行うと決意した。
2.53.35
ततस्तु तस्मिन् विजने वने तदा ।
महाबलौ राघववम्शवर्धनौ ।
न तौ भयम् सम्भ्रममभ्युपेयतु ।
र्यथैव सिम्हौ गिरिसानुगोचरौ ॥ २.५३.३५ ॥
その時、人気のない森の中で、ラグ家を栄えさせる二人の大力の英雄は、山の斜面を歩む二頭の獅子のように、恐れも動揺も感じなかった。