蚁垤《罗摩衍那》 · 篇 2.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.54.1
ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् ।
विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥ २.५४.१ ॥
他们在那片大树丛下度过吉祥之夜,待明净的太阳升起,便从那地方出发了。
2.54.2
यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते ।
जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥ २.५४.२ ॥
朝着婆吉罗提恒河流向亚穆纳河的那个地方前行,他们进入了广阔的森林。
2.54.3
ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् ।
अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥ २.५४.३ ॥
这些光荣的人来到了前所未见的各种宜人之地,一路上处处观望。
2.54.4
यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् ।
निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥ २.५४.४ ॥
他们平安前行,望着各种树木,恰在白日将尽之时,罗摩对苏弥特拉说道。
2.54.5
प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् ।
अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥ २.५४.५ ॥
苏弥特拉啊,你看普拉亚加四周那高高升起的烟!我想附近有一位仙人,这是神圣之火的旗帜。
2.54.6
नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् ।
तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥ २.५४.६ ॥
我们一定已到达恒河与亚穆纳河的汇合处,因为听到了水击水的声音。
2.54.7
दारूणि परिभिन्नानि वनजैः उपजीविभिः ।
भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥ २.५४.७ ॥
林中以之为生的人劈开的木柴,而在婆罗堕遮的修行院中,可以看见这些各色的树木。
2.54.8
धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे ।
गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥ २.५४.८ ॥
两位持弓者舒适地行走,太阳低垂之时,抵达了恒河与亚穆纳河交汇处仙人的居所。
2.54.9
रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः ।
गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥ २.५४.९ ॥
罗摩到达修行院,惊起鹿与鸟,走了一段路,便走近婆罗堕遮。
2.54.10
ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ ।
सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥ २.५४.१० ॥
随后,二位英雄抵达修行院,渴望拜见仙人,与悉多同行,便在远处停住了。
2.54.11
स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् ।
सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥ २.५४.११ ॥
他走入这位大德仙人的面前,仙人被众多弟子环绕,持守严格的誓戒,专注一心,因苦行而获得了内在的洞见。
2.54.12
हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः ।
रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥ २.५४.१२ ॥
罗摩见到火祭正在进行,又望见这位大福之人,便合掌,与善生及悉多一同向他行礼。
2.54.13
न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः ।
पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥ २.५४.१३ ॥
长兄罗摩向他介绍自己:"尊者!我们二人是十车王之子,罗摩与罗什曼那。"
2.54.14
भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा ।
माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥ २.५४.१४ ॥
"这是我的妻子毗提诃,吉祥的女子,遮那伽之女,她跟随我来到这荒寂的苦行林中,无可指责。"
2.54.15
पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः ।
अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥ २.५४.१५ ॥
"父王将我放逐,我这位亲爱的幼弟苏弥特拉,意志坚定,便随我进入了这森林。"
2.54.16
पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् ।
धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥ २.५४.१६ ॥
"奉父王之命,尊者,我们将进入这苦行林,在那里以根茎果实为食,只奉行正法。"
2.54.17
तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।
उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥ २.५४.१७ ॥
这位正直的仙人听了这位智慧王子的话,便献上一头牛、迎宾的水与清水。
2.54.18
नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।
तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥ २.५४.१८ ॥
他奉上种种美食,以及林中的根茎果实;这位经苦行炼净的仙人还为他们安排了住处。
2.54.19
मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः ।
रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥ २.५४.१९ ॥
这位仙人被鹿和飞鸟环绕,四周坐满了诸位牟尼,他以欢迎之言礼敬前来的罗摩,然后对他说道。
2.54.20
प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् ।
भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥ २.५४.२० ॥
接受了这份礼敬之后,婆罗堕遂对就座的罗怙后裔说了这番合乎法的话。
2.54.21
चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् ।
श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥ २.५४.२१ ॥
啊,迦恭特他,我很久以来终于见到你来到这里了。我也听说,你这次被放逐并无缘由。
2.54.22
अवकाशो विविक्तः अयम् महा नद्योह् समागमे ।
पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥ २.५४.२२ ॥
这处位于两条大河交汇处的幽静之地,既神圣又宜人。愿尊者在此安乐居住。
2.54.23
एवम् उक्तः तु वचनम् भरद्वाजेन राघवः ।
प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥ २.५४.२३ ॥
婆罗堕如此说完,一心为众生利益的罗怙后裔罗摩以吉祥之言作答。
2.54.24
भगवन्न् इत आसन्नः पौर जानपदो जनः ।
सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥ २.५४.२४ ॥
尊者啊,离这里不远,有城中和乡间的百姓。他们在这里见到我,便能轻易地得以相见,我对这座仙居便是如此想的。
2.54.25
आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः ।
अनेन कारणेन अहम् इह वासम् न रोचये ॥ २.५४.२५ ॥
人们还会来看望维德嘿和我。因此我不喜欢住在这里。
2.54.26
एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् ।
रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥ २.५४.२६ ॥
尊者,请看这一角落里的这处殊胜的修行处,那里值得享福的遮那迦之女维德嘿将会欢喜。
2.54.27
एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः ।
राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥ २.५४.२७ ॥
大仙人婆罗堕遮听了罗怙之子这番吉祥的话后,便说出了切中要义的言辞。
2.54.28
दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि ।
महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥ २.५४.२८ ॥
孩子,从这里起十克罗沙之处有一座山,你将在那里居住。那是大仙人常常光顾的圣山,四面望去都令人心悦。
2.54.29
गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः ।
चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥ २.५४.२९ ॥
这座山上有叶猴游荡,猿猴与熊罴常来栖息。它以“彩峰”之名闻名,宛如乾陀摩陀山。
2.54.30
यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते ।
कल्याणानि समाधत्ते न पापे कुरुते मनः ॥ २.५४.३० ॥
人所望见的彩峰诸峰有多远,他的心便多么专注于吉祥之事,心不会转向罪恶。
2.54.31
ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् ।
तपसा दिवम् आरूधाः कपाल शिरसा सह ॥ २.५४.३१ ॥
许多仙人在那里住了百个秋季,凭借苦行升上天界,与他们的骷髅碗之首同行。
2.54.32
प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् ।
इह वा वन वासाय वस राम मया सह ॥ २.५४.३२ ॥
我认为你的这处住所幽静而舒适。啊,罗摩,为了林中的生活,请与我一同留在这里。
2.54.33
स रामम् सर्व कामैः तम् भरद्वाजः प्रिय अतिथिम् ।
सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥ २.५४.३३ ॥
精通法的婆罗堕遵,以一切所需款待了与妻子、兄弟同来的贵客罗摩。
2.54.34
तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः ।
प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ २.५४.३४ ॥
在普拉雅加,罗摩走近那位大仙之后,吉祥的夜晚降临,他们继续讲述奇妙的故事。
2.54.35
सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः ।
भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥ २.५४.३५ ॥
与悉多同行的第三人,罗摩——迦古特土之裔——极为疲惫,习惯了安逸,在婆罗堕遵美丽的静修处安然度过了那一夜。
2.54.36
प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् ।
उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥ २.५४.३६ ॥
夜已过去,黎明到来,人中猛虎罗摩走近婆罗堕遵,对那光华闪耀的仙人说道。
2.54.37
शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे ।
उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥ २.५४.३७ ॥
持守真实德行的贤者啊,我们在您的修行处过了这一夜。请允许我们从此启程。
2.54.38
रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् ।
मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥ २.५४.३८ ॥
那夜过去,黎明来临时,婆罗堕遂说:“你们去芝盖陀山吧,那里充满蜂蜜、根茎与果实。”
2.54.39
वासमौपयिकम् मन्ये तव राम महाबल ।
नानानगगणोपेतः किन्नरोरगसेवितह् ॥ २.५४.३९ ॥
大力的罗摩啊,我认为那里适合你居住。那里有许多树林,常有紧那罗与蛇神往来。
2.54.40
मयूरनादाभिरुतो गजराजनिषेवितः ।
गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥ २.५४.४० ॥
你应前往那座著名的芝盖陀山,那里回荡着孔雀的鸣叫,常有象王栖息。
2.54.41
पुण्यश्च रमणीयश्च बहुमूलफलायुतः ।
तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥ २.५४.४१ ॥
那里神圣而美丽,盛产众多根茎与果实。那里四处有象群与鹿群漫游。
2.54.42
विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव ।
सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥ २.५४.४२ ॥
罗怙婆的后裔啊,它们在林边漫游,你将会看见它们;还有河流与泉源的高原、洞穴、峡谷和瀑布。
2.54.43
चरतः सीतया सार्धम् नन्दिष्यति मनस्तव ।
प्रहृष्ट कोयष्टिक कोकिल स्वनैः ।
र्विनादितम् तम् वसुधा धरम् शिवम् ।
मृगैः च मत्तैः बहुभिः च कुन्जरैः ।
सुरम्यम् आसाद्य समावस आश्रमम् ॥ २.५४.४३ ॥
与悉多同行,你的心必将欢喜。来到那座承载大地、吉祥的山上,这座极其优美的修行处,回荡着杜鹃与豺狼欢快的鸣叫,周围有许多醉意的鹿与象,在此安居吧。