蚁垤《罗摩衍那》 · 篇 2.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.55.1
उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ ।
महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥ २.५५.१ ॥
两位王子在那里过了一夜,这两位降伏敌人的王子恭敬地向大仙行礼,然后朝那座山走去。
2.55.2
तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह ।
प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥ २.५५.२ ॥
大仙为他们做了祈福的仪式,看见他们出发,便像父亲跟随儿子一样跟在他们后面。
2.55.3
ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः ।
भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥ २.५५.३ ॥
于是这位大仙、大光明的婆罗堕遮开始对真正勇武的罗摩说话。
2.55.4
गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।
कालिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥ २.५५.४ ॥
你们二位,人中之雄牛,到达恒河与亚穆纳河的交汇处后,应当沿着那条向西流淌的亚穆纳河前行。
2.55.5
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् ।
तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥ २.५५.५ ॥
随后,你们到达湍急的卡林蒂河,看见它古老而常被使用的渡口,哦,罗怙之后裔们,
2.55.6
तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीं नदीम् ।
ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥ २.५५.६ ॥
你们二位在那里做一只木筏,渡过安舒玛蒂河;然后,到达一棵枝叶青翠的大榕树,
2.55.7
विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् ।
तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥ २.५५.७ ॥
那棵茂盛幽暗、栖满众多熊与猴、为成就的圣者所侍奉的大树,愿悉多合掌向它祈求吉祥的祝福。
2.55.8
समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा ।
क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥ २.५५.८ ॥
到达那棵树后,可以停留,也可以越过;然后再走一克罗沙,你们就会看到那片深蓝色的森林。
2.55.9
पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः ।
स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥ २.५५.९ ॥
那条路上混杂着柏拉沙树与枣树,因亚穆纳地区的竹林而美丽,是通往吉特拉库塔的道路,我已走过许多次。
2.55.11
रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः ।
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।
उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥ २.५५.११ ॥
在那片美丽柔和、远离林火的地方,罗摩向仙人致敬,说“就这样吧”,便让他返回。那位仙人离去后,罗摩对罗什曼那说道。
2.55.13
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।
सीतामेवाग्रतः कृत्वा कालिन्दीम् जग्मतुर्नदीम् ।
अथा साद्य तु कालिन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥ २.५५.१३ ॥
“苏弥special之子啊,我们真是有福之人,因为仙人怜悯我们。”他们让悉多走在前面,向迦林地河而去;到达水流湍急的迦林地河后——
2.55.14
तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥ २.५५.१४ ॥
两人捆扎一捆木材,做成了一只大木筏。
2.55.15
शुष्कैर्वम्शैः समास्तीर्णमुशीरैश्च समावृतम् ।
ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥ २.५५.१५ ॥
铺着干竹子,覆以乌尸罗草;然后勇猛的罗什曼那用柳枝和阎浮树枝。
2.55.16
चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।
तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥ २.५५.१६ ॥
罗什曼那砍下树枝,为悉多做了一个舒适的座位;罗摩之子、十车王之子罗摩,让他心爱的妻子坐在那里,仿佛不可思议的光辉。
2.55.18
प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः ।
आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥ २.५५.१८ ॥
罗摩持武器,把坚硬的木料绑在木筏上;先让悉多登上,两人便扶住那捆扎好的结构。
2.55.19
ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ ।
कालिन्दीमध्यमायाता सीता त्वेनामवन्दत ॥ २.५५.१९ ॥
于是这两位英雄、十车王之子渡过河去;悉多到达迦梨因提河中央时,向它行礼。
2.55.20
स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् ।
यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥ २.५५.२० ॥
愿平安,女神!我渡过你;愿我丈夫的誓愿带我到彼岸。我将以十万头牛和一百罐美酒供养你。
2.55.21
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।
कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥ २.५५.२१ ॥
愿罗摩回到由甘蔗王族守护的都城时平安。随后,悉多合掌向迦梨因提河祈求。
2.55.22
तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी ।
ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥ २.५५.२२ ॥
美貌的悉多到达南岸,乘筏渡过了湍急、以波浪为花环的阿姆舒玛蒂河。
2.55.23
तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् ।
ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥ २.५५.२३ ॥
他们穿过岸边众多的树木渡过了亚穆纳河;过河后,弃筏,从亚穆纳森林出发前行。
2.55.24
श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् ।
न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥ २.५५.२४ ॥
他们来到一棵幽暗、清凉、绿叶的榕树下;悉多走近榕树,说出了这些话。
2.55.25
नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् ।
कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥ २.५५.२५ ॥
伟大的树啊,向你致敬!愿我的夫君完成誓愿,愿我得见光荣的考萨利亚与苏弥特拉。
2.55.26
अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥ २.५५.२६ ॥
于是,看到无瑕的悉多在祈祷,
2.55.27
दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् ।
सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥ २.५५.२७ ॥
罗摩看到心爱而顺从的悉多,对罗什曼那说:“婆罗多的幼弟啊,你带着悉多走在前面。”
2.55.28
पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर ।
यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥ २.५५.२८ ॥
人中之最,我将持械在后随行。无论遮那伽之女想要什么果实或花朵,
2.55.29
तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।
गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥ २.५५.२९ ॥
凡是毗提诃女所需、令其心喜的,都应给予她。二人行走时,遮那伽之女走在他们中间。
2.55.30
मातङ्गयोर्मद्यगता शुभा नागवधूरिव ।
एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥ २.५५.३० ॥
她行走于两头象之间,明艳如蛇女,凝望着每一棵树、每一丛灌木、每一条满是花朵的藤蔓。
2.55.31
अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला ।
रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥ २.५५.३१ ॥
她看见从未见过的、种类繁多的美丽花树,那柔弱的女子便问罗摩。
2.55.32
सीतावचनसम्रब्द अनयामास लक्स्मणः ।
विचित्रवालुकजलाम् हससारसनादिताम् ॥ २.५५.३२ ॥
悉多的话令罗什曼那急切起来,他便引领她们来到一条河边,河水清澈,沙岸奇异,天鹅与鹤鸣之声回荡其间。
2.55.33
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।
क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥ २.५५.३३ ॥
那时,遮那伽王之女见到河流,心中欢喜。又行一克罗舍之远,罗摩与罗什曼那两兄弟便到达了那里。
2.55.34
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ।
विहृत्य ते बर्हिणपूगनादिते ।
शुभे वने वानरवारणायुते ।
समम् नदीवप्रमुपेत्य सम्मतम् ।
निवासमाजग्मु रदीनदर्शनाः ॥ २.५५.३४ ॥
他们猎杀了许多洁净的鹿,在亚穆纳河的森林中游荡。漫步于那片美丽的森林——孔雀群的鸣叫回荡其间,猴子与大象满布其中——他们来到河岸平坦宜人之处,然后返回了居所。