蚁垤《罗摩衍那》 · 篇 2.56
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.56.1
अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् ।
प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥ २.५६.१ ॥
夜晚过去后,罗怙之乐Rāma轻轻唤醒了熟睡的Lakṣmaṇa。
2.56.2
सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् ।
सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥ २.५६.२ ॥
苏弥特拉之子啊,听那林中鸟儿婉转的鸣叫;出发的良辰已到,灭敌者啊。
2.56.3
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।
जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥ २.५६.३ ॥
Lakṣmaṇa被兄长及时唤醒,便抛开了睡意、昏沉和路上积累的疲劳。
2.56.4
ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् ।
पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥ २.५६.४ ॥
于是众人起身,触摸河中的吉祥之水,沿着仙人所指的道路前往Citrakūṭa。
2.56.5
ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।
सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥ २.५६.५ ॥
于是罗摩在适当的时候与苏弥特拉之子一同启程,并对眼如莲瓣的悉多说了这番话。
2.56.6
आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् ।
स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥ २.५६.६ ॥
维代希啊,你看,那些金苏木树在冬末已遍开花朵,缀满自身的花环,四处灼灼如燃烧的火焰。
2.56.7
पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् ।
फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥ २.५६.७ ॥
看那盛开的婆罗多迦树,人迹罕至,果实与枝叶低垂。我必定能在此生活。
2.56.8
पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण ।
मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥ २.५६.८ ॥
看啊,罗什曼那,那些悬挂的蜂巢大如一斗(drona),每棵树上都有蜜蜂所酿。
2.56.9
एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति ।
रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥ २.५६.९ ॥
这里水鸡在鸣叫,孔雀回应它,在这片遍布花毯的美丽林地之中。
2.56.10
मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् ।
चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥ २.५६.१० ॥
看这座奇跡山(吉陀罗古吒山),象群随行,鸟群鸣声回荡,高耸的山峰巍然挺立。
2.56.11
समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।
पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥ २.५६.११ ॥
亲爱的兄弟,在这片平坦、美丽、树木繁茂的圣洁吉陀罗古吒森林中,我们将感到喜乐。
2.56.12
ततः तौ पाद चारेण गच्चन्तौ सह सीतया ।
रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥ २.५६.१२ ॥
于是二人与悉多一同步行,抵达了美丽、令人心旷神怡的吉陀罗古吒山。
2.56.13
तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् ।
बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥ २.५६.१३ ॥
他们到达那座山,山上群鸟成群,盛产根茎与果实,景色宜人,水如湖泊。
2.56.14
मनोज्ञोऽयम् गिरिः सौम्य नानाद्रुमलतायुतः ।
बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥ २.५६.१४ ॥
好弟弟,这座山迷人,满是许多树木与藤蔓,盛产根茎与果实,景色宜人,在我看来,它有良好的生计条件。
2.56.15
मनयश्च महात्मानो वसन्त्य शिलोच्चये ।
अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥ २.५६.१५ ॥
伟大的圣贤们居住在这堆岩石之上。好弟弟,就让这里暂作我们的住所吧,我们在此欢愉。
2.56.16
अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥ २.५६.१६ ॥
他们来到修行处,都向跋弥致敬。
2.56.17
तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् ।
आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥ २.५६.१७ ॥
精通正法的大仙欢喜地款待他们,说道:“请坐”,并向他们致以欢迎。
2.56.18
ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः ।
सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥ २.५६.१८ ॥
于是,臂力强大的长兄、罗什曼那的兄长,依礼向大仙通报了自己,然后对罗什曼那说道。
2.56.19
लक्ष्मण आनय दारूणि दृढानि च वराणि च ।
कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥ २.५६.१९ ॥
罗什曼,取来坚固而优良的木材。温和的人啊,为我们建造一座居所吧,我的心已专注于此。
2.56.20
तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् ।
आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥ २.५६.२० ॥
苏弥特拉之子罗什曼听了这话,取来了各种树木;然后,制敌者啊,他建成了一座叶屋。
2.56.21
ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् ।
शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥ २.५६.२१ ॥
罗摩看见那座以绑扎的席子完成的美丽草屋,便对那专心侍奉的人说了这番话。
2.56.22
ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् ।
कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥ २.५६.२२ ॥
苏弥特拉之子啊,取来鹿肉,我们便在这草屋中举行祭祀吧。欲求长寿者应当行安宅之礼。
2.56.23
मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥ २.५६.२३ ॥
罗什曼,在此速杀一只鹿并带来。美目者啊,应依经典所定之仪轨而行;请记住法。
2.56.24
भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा ।
चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥ २.५६.२४ ॥
罗什曼明白了哥哥的话,这位杀敌英雄便照所说去做;罗摩于是又对他说话。
2.56.25
इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् ।
त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥ २.५६.२५ ॥
把这鹿肉煮熟,我们将用它举行祭祀。快些吧,温和的人:此时吉祥,此日也稳定而吉利。
2.56.26
स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् ।
अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥ २.५६.२६ ॥
那位勇猛的罗什曼那杀死了适合祭祀的黑鹿,然后苏弥private把它投入了燃烧的火中。
2.56.27
तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् ।
लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥ २.५६.२७ ॥
得知它已煮熟、充分烤过且血已流尽,罗什曼那便对人中之虎罗怙婆说道。
2.56.28
अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा ।
देवता देव सम्काश यजस्व कुशलो हि असि ॥ २.५६.२८ ॥
这只黑鹿已煮熟,四肢俱全。如神一般的人啊,请举行祭祀吧,你在此很是熟练。
2.56.29
रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः ।
सम्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥ २.५६.२९ ॥
罗摩沐浴之后,自持克制,品德高尚,精通诵咒,简要地诵出了祭祀仪式结束时所需的一切咒语。
2.56.30
इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः ।
बभूव च मनोह्लादो रामस्यामिततेजसः ॥ २.५६.३० ॥
祭拜了所有的神众之后,罗摩保持洁净,走进了居所,那位光辉无量的罗摩心中感到欢喜。
2.56.31
वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च ।
वास्तुसम्शमनीयानि मङ्गलानि प्रवर्तयन् ॥ २.५६.३१ ॥
他向众毗湿伐提神献祭,同样也向楼陀罗和毗湿奴献祭,并举行安定居所的吉祥仪式。
2.56.32
जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि ।
पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥ २.५६.३२ ॥
依照规定诵念咒语,并依礼在河中沐浴之后,罗摩为消除罪业献上了殊胜的供物。
2.56.33
वेदिस्थलविधानानि चैत्यान्यायतनानि च ।
आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ २.५६.३३ ॥
罗怙之后裔命人建立了与修行处相称的祭坛、神龛和圣域。
2.56.34
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि ।
अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥ २.५६.३४ ॥
以野生花环、果实、根茎、熟肉,依规定之水、诵咒、吠陀所载之仪轨,以及祭木与吉祥草。
2.56.35
तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।
तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥ २.५६.३५ ॥
二位罗怙后裔与悉多一同供养了众生之后,便走进那座极为美好的草屋;二人皆具吉祥之相。
2.56.36
ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् ।
यथा प्रदेशम् सुकृताम् निवाताम् ।
वासाय सर्वे विविशुः समेताः ।
सभाम् यथा देव गणाः सुधर्माम् ॥ २.५६.३६ ॥
众人一同走进那座以树叶覆盖、美丽、依地势精心建造、避风的草屋居住,犹如诸天众神走进善法殿。
2.56.37
अनेक नाना मृग पक्षि सम्कुले ।
विचित्र पुष्प स्तबलैः द्रुमैः युते ।
वन उत्तमे व्याल मृग अनुनादिते ।
तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥ २.५६.३७ ॥
这片优良的森林里满是各种鹿与鸟,树木开满奇妙的花朵,结成花簇,野兽与鹿的鸣叫在林中回响。那些已制服感官的人,就这样在此极其快乐地居住下来。
2.56.38
सुरम्यम् आसाद्य तु चित्र कूटम् ।
नदीम् च ताम् माल्यवतीम् सुतीर्थाम् ।
ननन्द हृष्टः मृग पक्षि जुष्टाम् ।
जहौ च दुह्खम् पुर विप्रवासात् ॥ २.५६.३८ ॥
他到达了极其秀美的奇栗山,看见有良好渡口的马利耶瓦蒂河,在这个有鹿与鸟类聚集的地方欣然欢喜,抛下了离开都城流亡的悲痛。