Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.58

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.58.1

प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः ।
थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥ २.५८.१ ॥

国王从昏厥中苏醒过来后,为了了解罗摩的情况,便召唤了那位御者。

2.58.2

तदा सूतो महाराज कृताञ्जलिरुपस्थितः।
राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥ २.५८.२ ॥

那时,大王啊,御者双手合十前来站立,他只为罗摩悲痛,充满了忧伤与哀愁。

2.58.3

वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् ।
विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥ २.५८.३ ॥

他年老且极其悲痛,好似刚被鳄鱼抓住的大象,深深叹息,陷入沉思,又像一头病倒的象。

2.58.4

राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् ।
अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥ २.५८.४ ॥

国王看到御者走近,满身尘土,肢体散乱,满面泪水,形容憔悴,便极其悲痛地说道。

2.58.5

क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः ।
सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥ २.५८.५ ॥

那位正直的罗摩,栖身于树根之下,将住在何处?那自幼享受极大安乐的罗怙之后,将吃什么呢?

2.58.6

दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः ।
भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥ २.५८.६ ॥

苏曼陀罗啊!不应受苦的人正在受苦;配享卧榻的国王之子,怎么会像无依无靠的人一样睡在地上呢?

2.58.7

यम् यान्तम् अनुयान्ति स्म पदाति रथ कुञ्जराः ।
स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥ २.५८.७ ॥

当他出行时,步兵、战车与象军曾随他而行;如今罗摩已投入这荒无人烟的森林,将如何生活呢?

2.58.8

व्यालैः मृगैः आचरितम् कृष्ण सर्प निषेवितम् ।
कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥ २.५८.८ ॥

那两位王子与毗提诃同行,如何抵达这片有猛兽和鹿群出没、黑蛇盘踞的森林?

2.58.9

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।
राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥ २.५८.९ ॥

啊,苏曼特罗!与柔弱而如苦行者的悉多同行,那两位王子如何下车,徒步离去?

2.58.10

सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ ।
वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥ २.५८.१० ॥

御者啊,你确实成功了,因为你看见了我那两个儿子进入森林边缘,如同双马童前往曼达拉山。

2.58.11

किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः ।
सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥ २.५८.११ ॥

罗摩说了什么话?罗什曼那说了什么?啊,苏曼特罗!到达森林后,摩提里说了什么?

2.58.12

आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय ।
जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥ २.५८.१२ ॥

御者啊,请叙述罗摩的坐、卧与饮食。我唯有借此而活,正如耶阇第在善人之中得以存活。

2.58.13

उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥ २.५८.१३ ॥

他以被泪水哽咽的声音对国王说道。

2.58.14

अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् ।
अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥ २.५८.१४ ॥

"大王,Rāghava 遵守法度,对我说道。" 他合掌低头,行礼致敬。

2.58.15

सूत मद्वचनात् तस्य तातस्य विदित आत्मनः ।
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ २.५८.१५ ॥

"御者啊,依我的话,向我父亲的双足低首致敬,他是自知者,是值得敬礼的大德。"

2.58.16

सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया ।
आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥ २.५८.१६ ॥

"御者啊,依我的话,告诉内宫所有人:问候大家安好,并按各人的身份致以敬意。"

2.58.17

माता च मम कौसल्या कुशलम् च अभिवादनम् ।
अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥ २.५८.१७ ॥

"向我的母亲考萨利亚问安致敬;也嘱咐她务必谨慎;并转达这番话。"

2.58.18

धर्मनित्या यथाकालमग्न्यगारपरा भव ।
देवि देवस्य पादौ च देववत् परिपालय ॥ २.५८.१८ ॥

"王妃啊,恒守法度,按时专心于火堂;像对待神明一样,侍奉神(国王)的双足。"

2.58.19

अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु ।
अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥ २.५८.१९ ॥

舍弃骄傲与自尊,恭敬对待诸母。像对待母亲一样侍奉国王与高贵的夫人吉卡伊。

2.58.20

कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् ।
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥ २.५८.२० ॥

对待王子婆罗多,应当如同国王一般行事,因为国王以财富为首要;所以要牢记王者之法。

2.58.21

भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च ।
सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥ २.५८.२१ ॥

代我向婆罗多问候,询问他的近况。对待所有的母亲,都要依法而行。

2.58.22

वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः ।
पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥ २.५८.२२ ॥

也要对伊克舒婆迦家族的喜悦、臂力强大的婆罗多说:你身为太子,应当护卫和侍奉在王位上的父亲。

2.58.23

अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः ।
कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥ २.५८.२३ ॥

国王年事已高,不要限制或阻拦他。你身为太子,只需遵循他的命令而生活。

2.58.24

अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् ।
मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥ २.५८.२४ ॥

他一再流泪,对我说:“你的母亲,如同我的母亲一样,应当被尊敬,因为她渴望着儿子。”

2.58.25

रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥ २.५८.२५ ॥

莲花般赤红双眼的罗摩不断流泪。

2.58.26

लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् ।
केन अयम् अपराधेन राज पुत्रः विवासितः ॥ २.५८.२६ ॥

罗什曼那极为愤怒,叹息着说道:“这位王子因何过错被放逐?”

2.58.27

राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् ।
कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥ २.५८.२७ ॥

国王因急于听从凯凯伊的命令,做了或当或不当的事,我们因此受苦。

2.58.28

यदि प्रव्राजितः रामः लोभ कारण कारितम् ।
वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥ २.५८.२८ ॥

如果罗摩是因贪欲或为了兑现恩赐而被放逐,那么这完全是恶行。

2.58.29

इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् ।
रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥ २.५८.२९ ॥

这一切都是依国王的意愿而做的;但我看不出抛弃罗摩的任何理由。

2.58.30

असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् ।
जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥ २.५८.३० ॥

此事未经深思、出于心智轻率,违背法道,必将引起众人对罗ghava被放逐的哀号。

2.58.31

अहम् तावन् महा राजे पितृत्वम् न उपलक्षये ।
भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥ २.५८.३१ ॥

至于大王,我看不出他有父亲的样子。对我来说,罗怙婆就是兄长、主人、亲族和父亲。

2.58.32

सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् ।
सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥ २.५८.३२ ॥

抛弃了为一切世人所爱、致力于众生福祉的他,以此行为,世人怎会对你心存亲近?

2.58.33

सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् ।
सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥ २.५८.३३ ॥

放逐了令一切臣民欢喜的正法之人罗摩,又与整个世界对立,你如何能成为国王?

2.58.34

जानकी तु महा राज निःश्वसन्ती तपस्विनी ।
भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥ २.५८.३४ ॥

然而,大王啊,悉达女深深叹息,这位苦行女仿佛心被鬼魅所伤,呆立在那里。

2.58.35

अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी ।
तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥ २.५८.३५ ॥

这位从未经历过如此灾难的名门公主,因悲痛而哭泣,竟一言未对我说。

2.58.36

उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता ।
मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥ २.५८.३६ ॥

她望着丈夫,面容枯槁,看见我离去,便忽然落下泪来。

2.58.37

तथैव रामः अश्रु मुखः कृत अन्जलिः ।
स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः ।
तथैव सीता रुदती तपस्विनी ।
निरीक्षते राज रथम् तथैव माम् ॥ २.५८.३७ ॥

同样,罗摩泪流满面,合掌而立,由罗什曼那的手臂扶持着。同样,哭泣的苦行女悉多凝视着国王的车,也凝视着我。