蚁垤《罗摩衍那》 · 篇 2.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.60.1
ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।
धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥ २.६०.१ ॥
于是考莎厘雅浑身颤抖,仿佛被鬼魅附身,一次次倒在地上,如同失去生气,对御者说道。
2.60.2
नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।
तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥ २.६०.२ ॥
请带我去到伽库特斯塔之后罗摩所在之处,去到悉多与罗什曼那所在之处;没有他们,我在这里连一刻也活不下去。
2.60.3
निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।
अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥ २.६०.३ ॥
快快调转车马,或者带我去往檀陀迦森林。若我不能追随他们,我便要去阎摩的住所了。
2.60.4
बाष्प वेगौपहतया स वाचा सज्जमानया ।
इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥ २.६०.४ ॥
他的声音被泪水的涌流哽咽而颤抖,他一边安慰王后,一边合掌说道。
2.60.5
त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।
व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥ २.६०.५ ॥
放下忧愁与迷乱,以及由悲痛而生的慌乱;抖落你的煎熬。罗ghava将在森林中居住。
2.60.6
लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।
आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥ २.६०.६ ॥
罗什曼那也在森林中侍奉罗摩的双足,精通法义、克制诸根,正在供奉那至高的世界。
2.60.7
विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।
विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥ २.६०.७ ॥
即使在荒僻的森林中,悉多如同身处家中般安居,心完全托付于罗摩,无所畏惧,获得安心。
2.60.8
न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।
उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥ २.६०.८ ॥
我在她身上看不到哪怕极细微的忧伤;在我看来,毗提诃公主正适合那些流亡之人。
2.60.9
नगर उपवनम् गत्वा यथा स्म रमते पुरा ।
तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥ २.६०.९ ॥
如同往昔前往城中园林时的欢喜,悉多即使在荒无人烟的森林中也同样欢喜。
2.60.10
बाला इव रमते सीता बाल चन्द्र निभ आनना ।
रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥ २.६०.१० ॥
悉多面如新月,如孩童般欢喜;她一心眷恋罗摩,心志不颓,这位贞洁的妻子即使在荒僻的森林中也欢喜。
2.60.11
तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।
अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥ २.६०.११ ॥
她的心已系于他身,生命也依附于他;若无罗摩,即便是阿逾陀,对她而言也如同森林一般。
2.60.12
परि पृच्चति वैदेही ग्रामामः च नगराणि च ।
गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥ २.६०.१२ ॥
毗提诃公主看见江河的流向和种种树木,也询问村落与城市。
2.60.13
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।
अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥ २.६०.१३ ॥
她可以问罗摩或罗什曼那而得知;然而离阿逾陀仅一俱卢舍,她却仿佛是外出游乐一般。
2.60.14
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।
कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥ २.६०.१४ ॥
我想起了凯凯伊突然说出的这句话;如今那句话却不再清楚地浮现在我心中。
2.60.15
ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।
ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥ २.६०.१५ ॥
然而御者摒弃了那因疏忽而说出的话,温和而令人欢喜地对王后说道。
2.60.16
अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।
न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥ २.६०.१६ ॥
路途、风势、慌乱与烈日,都未减损毗提诃公主如月光般的光彩。
2.60.17
सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।
वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥ २.६०.१७ ॥
那张如莲花、如满月般光辉的面容,是慷慨的毗提诃公主的面容,并未颤抖。
2.60.18
अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।
अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥ २.६०.१८ ॥
因未被紫胶红汁染色,她的双足至今仍如莲花蓓蕾般光彩照人。
2.60.19
नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।
इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥ २.६०.१९ ॥
脚环铃声叮当,这位美丽的女子走路如同嬉戏;即便此刻,维德赫希也已褪下了那些彩色的饰物。
2.60.20
गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।
न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥ २.६०.२० ॥
即使看见大象、狮子或老虎,她在森林中寻得庇护,依靠着罗摩的臂膀,也不会生出惧意。
2.60.21
न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।
इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥ २.६०.२१ ॥
他们不值得悲伤,你自己也不值得悲伤,人民的君主同样不值得悲伤;这件事迹将在世间永远流传。
2.60.22
विधूय शोकम् परिहृष्ट मानसा ।
महर्षि याते पथि सुव्यवस्थिताः ।
वने रता वन्य फल अशनाः पितुः ।
शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥ २.६०.२२ ॥
抛开悲伤,心怀欢喜,在大仙离去之后坚定地行于道路,在林中怡然自得,以野果为食,他们遵守着父亲吉祥的誓愿。
2.60.23
तथा अपि सूतेन सुयुक्त वादिना ।
निवार्यमाणा सुत शोक कर्शिता ।
न चैव देवी विरराम कूजितात् ।
प्रिय इति पुत्र इति च राघव इति च ॥ २.६०.२३ ॥
尽管车夫以合理的话语加以劝阻,那因丧子之痛而消瘦的王后仍未止住哭声;她一边呼喊“我的爱”“我儿”“罗怙之后”,一边继续悲泣。