蚁垤《罗摩衍那》 · 篇 2.62
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.62.1
एवम् तु क्रुद्धया राजा राम मात्रा सशोकया ।
श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥ २.६२.१ ॥
当罗摩的母亲愤怒而悲伤地说出严厉的话语时,痛苦的国王陷入了沉思。
2.62.2
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः ।
अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥ २.६२.२ ॥
国王沉思之后,心神慌乱,昏厥过去;过了很久,这位令敌人战栗的国王才恢复了知觉。
2.62.3
स सम्ज्ञामुपलभ्यैव दीर्घमुष्णम् च निःससन् ।
कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥ २.६२.३ ॥
他恢复知觉,长长地、热热地叹息,看到身旁的考莎利亚,于是又陷入忧虑之中。
2.62.4
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।
यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥ २.६२.४ ॥
他沉思之时,想起了先前出于无知、以听声箭射出的那桩罪过。
2.62.5
अमनाः तेन शोकेन राम शोकेन च प्रभुः ।
द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥ २.६२.५ ॥
因这份悲伤和对罗摩的悲伤,心神不宁,这位伟大的国王被两种忧愁折磨。
2.62.6
दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः ।
वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥ २.६२.६ ॥
国王被两种悲痛煎熬,颤抖着合掌,低着头,向考莎利亚请求宽恕,对她说话。
2.62.7
प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः ।
वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥ २.६२.७ ॥
考莎厘雅啊,我恳求你;看,我在你面前合十。你一向对别人也慈爱而仁慈。
2.62.8
भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा ।
धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥ २.६२.८ ॥
对女人而言,丈夫确实就是神,无论他有德还是无德。对于思考法义的人,女王啊,他就是显现的神。
2.62.9
सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर ।
न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥ २.६२.९ ॥
你一向笃守法义,通晓上下诸界。即使你自己悲伤,也不该对极其悲伤的人说不悦耳的话。
2.62.10
तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥ २.६२.१० ॥
考莎厘雅听到国王那悲悯的话语、那可怜人的言辞,便像新水溢出的水道一样落下泪来。
2.62.11
स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् ।
सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥ २.६२.११ ॥
她哭泣着,将如莲花般合起的双手放在国王头上,惊惶而慌乱,急忙说出了这些话。
2.62.12
प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते ।
याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥ २.६२.१२ ॥
请息怒吧;我低头恳求,伏倒在地上于你的脚前。天神啊,我已经恳求过了;你不该杀我,我也不应被你所杀。
2.62.13
न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥ २.६२.१३ ॥
英雄啊,被丈夫取悦的女子,对于值得称赞的智者而言,在两个世界中都不是这样的。
2.62.14
जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् ।
पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥ २.६२.१४ ॥
精通法者啊,我知道法,也知道你是说真话的人;但我因失子之痛而悲苦,说了一些话。
2.62.15
शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥ २.६२.१५ ॥
悲伤毁坏坚忍,悲伤毁坏所学,悲伤毁坏一切;没有与悲伤相等的敌人。
2.62.16
शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः ।
सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥ २.६२.१६ ॥
敌人手中打来的一击尚可忍受,但降临的悲伤,哪怕极其细微,也无法忍受。
2.62.17
दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः ।
यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥ २.६२.१७ ॥
英雄啊,即使是精通法的人、熟读经典的人,以及为法与利的疑惑所困扰的苦行者,当心智被悲伤迷惑时,也会迷惘。
2.62.18
वन वासाय रामस्य पन्च रात्रः अद्य गण्यते ।
यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥ २.६२.१८ ॥
今天已经数过罗摩入林流放的五夜,而对于被悲伤击碎了欢乐的我来说,它们等同于五年。
2.62.19
तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते ।
अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥ २.६२.१९ ॥
她思念着他,这份悲痛在她心中增长,就像大海之水在河流的冲击下不断涨起。
2.62.20
एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः ।
मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥ २.६२.२० ॥
在考莎利亚说着这些吉祥的话时,太阳的光芒变得微弱,黑夜渐渐过去。
2.62.21
तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः ।
शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥ २.६२.२१ ॥
国王因王后考莎利亚的话稍得安慰,却仍被悲痛压倒,终于陷入了睡眠。