Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.63

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.63.1

प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः ।
अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥ २.६३.१ ॥

国王十车因悲痛而一再惊醒,心神被哀伤所伤,于是陷入了忧虑之中。

2.63.2

राम लक्ष्मणयोः चैव विवासात् वासव उपमम् ।
आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥ २.६३.२ ॥

因罗摩与罗什曼那被流放,灾祸降临于他身上——他本如因陀罗一般——正如阿修罗使黑暗笼罩太阳。

2.63.3

सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः ।
विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥ २.६३.३ ॥

罗摩与妻子离去后,科萨拉之主追念自己的过失,想要与那双眼如墨的考沙利雅说话。

2.63.4

स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् ।
अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥ २.६३.४ ॥

罗摩入林后的第六个夜晚,午夜时分,国王十车不断追念自己所犯的过错。

2.63.5

स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः ।
कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥ २.६३.५ ॥

那位因丧子之痛而煎熬的国王,追念自己的过失,对同样因丧子而痛苦的考沙利雅说出了这些话。

2.63.6

यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् ।
तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥ २.६३.६ ॥

吉祥的人啊,人所做的无论善恶,善良的女子啊,行为者所得到的正是由自己的行为所产生的那个果报。

2.63.7

गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् ।
दोषम् वा यो न जानाति स बालैति ह उच्यते ॥ २.६३.७ ॥

在行事之初,不知其果报之轻重与其过失者,被称为孩童。

2.63.8

कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति ।
पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥ २.६३.८ ॥

有人砍伐芒果林,却去浇灌波罗奢树;见花而贪求果实,待果实成熟之时便悲叹。

2.63.9

अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति ।
स शोचेत्फलवेलायाम् यथा किम्शुकसेचकः ॥ २.६३.९ ॥

不知其果而追逐行为者,到结果之时将悲叹,如同浇灌金合欢树的人。

2.63.10

सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् ।
रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥ २.६३.१० ॥

我这个人,砍伐了芒果林,去浇灌波罗奢树;在果实来临时抛弃了罗摩,如今愚昧的我在事后悲叹。

2.63.11

लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता ।
कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥ २.६३.११ ॥

啊,考撒尔雅!我知那少年是闻声射箭者,便因那持弓少年的声音犯下了此罪。

2.63.12

तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् ।
सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥ २.६३.१२ ॥

王后啊,我自己造成的这份痛苦now降临到我身上,就如孩童因迷惑而误食毒药。

2.63.13

यथान्यः पुरुषः कश्चित्पलाशैर्मोहितो भवेत् ।
एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥ २.६३.१३ ॥

正如另一人可能被palāśa的果实所迷惑,我也不知道这由闻声箭所致的果报。

2.63.14

देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् ।
ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥ २.६३.१४ ॥

王后啊,那时你还未出嫁,我即将成为太子;这时雨季到来,它增长迷醉与欲望。

2.63.15

उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः ।
परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥ २.६३.१५ ॥

太阳吸取大地的水分,以光线炙烤世界,然后进入可怖的方位。

2.63.16

उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः ।
ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥ २.६३.१६ ॥

炎热立即隐没,柔润的云朵显现;于是青蛙、鹿与孔雀都欢喜起来。

2.63.17

क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः ।
वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥ २.६३.१७ ॥

鸟儿上翅被淋湿,仿佛艰难地洗了澡,飞向树梢被风雨摇动的树木。

2.63.18

पतितेन अम्भसा चन्नः पतमानेन च असकृत् ।
आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥ २.६३.१८ ॥

被落下的雨水反复淋湿的发情大象,闪耀如同山岳,又如同水的聚集。

2.63.19

पाण्डुरारुणवर्णानि स्रोताम्सि विमलान्यपि ।
सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥ २.६३.१९ ॥

山中矿物中流出淡红色的溪流,虽本清澈,却夹杂灰烬,如蛇般蜿蜒而下。

2.63.20

आकुलारुणतोयानि स्रोताम्सि विमलान्यपि ।
उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥ २.६३.२० ॥

雨季来临时,溪流虽本清澈,却变得水浑而泛红,偏离了原来的河道。

2.63.21

तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।
व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥ २.६३.२१ ॥

在那极为宜人的季节,手持弓箭、立志操练的车战勇士沿着萨拉尤河而行。

2.63.22

निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् ।
अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥ २.६३.२२ ॥

若不能自制、在夜里想杀死来到水边或河边的水牛或大象,或其他某种野兽或狗。

2.63.23

तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।
तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥ २.६३.२३ ॥

在那僻静之处,夜里,我拉满弓,击中了那个来到岸边、藏匿着的野兽。

2.63.24

अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् ।
अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥ २.६३.२४ ॥

听到另一只凶猛的鹿靠近的声音后,我又在黑暗中听到水中灌满水罐的声音。

2.63.25

अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः ।
ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥ २.६३.२५ ॥

我看不见,听到如象吼般的声音,便拔出一支燃烧的箭,如同毒蛇一般。

2.63.26

शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।
अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥ २.६३.२६ ॥

我想得到大象,便瞄准那声音射出;我射出了一支锐利的箭,如同毒蛇一般。

2.63.27

तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः ।
हा हा इति पततः तोये बाणाभिहतमर्मणः ॥ २.६३.२७ ॥

那时黎明时分,林中居民清晰的声音响起:"哎呀,哎呀!"——那是被箭射中要害、跌入水中之人的呼喊。

2.63.28

तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।
कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥ २.६३.२८ ॥

那支箭落下时,那里响起一个人的声音:"像我们这样的苦行者,兵器怎么会落到身上?"

2.63.29

प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः ।
इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥ २.६३.२९ ॥

"我夜里来到幽静的河边,却被一支箭射中——是谁?射的是谁?我做了什么?"

2.63.30

ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः ।
कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥ २.६३.३० ॥

"对于放下权杖、在林中以野果为生的圣人,像我这样的人怎能被兵器判定死亡?"

2.63.31

जटा भार धरस्य एव वल्कल अजिन वाससः ।
को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥ २.६३.३१ ॥

杀我这个背负发髻、身着树皮与鹿皮的人,对谁有利?或者我对他做了什么恶事?

2.63.32

एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् ।
न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥ २.६३.३२ ॥

如此徒劳开始、只带来祸患的事情,没有任何善人会认为是好的,正如与老师之妻同床的人一样。

2.63.33

नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः ।
मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥ २.६३.३३ ॥

我并不那么为自己失去生命而悲伤;我为母亲和父亲两人而悲伤,因为有一个像我这样的儿子。

2.63.34

तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया ।
मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥ २.६३.३४ ॥

我死之后,这对由我长期供养的年迈夫妇,将由谁、以何种生计来维持呢?

2.63.35

वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः ।
केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥ २.६३.३५ ॥

两位老人,即我的母亲和父亲,还有我,都被同一支箭射倒。那个愚蠢、心智未成熟的人,是用什么方法把我们全都杀死的?

2.63.36

तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः ।
कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥ २.६३.३६ ॥

他听到我那悲切的声音,手中的弓和箭便从这位追求正法的人手中掉落,他痛苦地倒在地上。

2.63.37

तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु ।
सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥ २.६३.३७ ॥

我听到他在夜里的凄惨哀号,悲痛之力使我惊慌失措,失去了知觉。

2.63.38

तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः ।
अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥ २.६३.३८ ॥

我来到那里,心情悲痛、精神紊乱,看见萨拉尤河岸边一位苦行者被箭射死。

2.63.39

अवकीर्णजटाभारम् प्रविद्धकलशोदकम् ।
पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥ २.६३.३९ ॥

披散着纠结的发髻,水罐被抛弃,水已洒出,身上沾满尘土与鲜血,他躺在那里,被箭折磨着。

2.63.41

स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् ।
किम् तव अपकृतम् राजन् वने निवसता मया ।
जिहीर्षुर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥ २.६३.४१ ॥

他睁眼看着我——我惊恐不安地站在那里——说道:“大王,我住在森林里,究竟对你有何冒犯?我只是为年迈的父母来取水,你为何射伤我?”

2.63.42

एकेन खलु बाणेन मर्मणि अभिहते मयि ।
द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥ २.६३.४२ ॥

我的要害被一支箭射中,我那两位双目失明、年迈的父母必定会死去。

2.63.43

तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ ।
चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥ २.६३.४३ ॥

那两位虚弱、双目失明、口渴的老人,正在等待我,他们必定会长久地抱着那期盼已久的希望,承受那痛苦的思念。

2.63.44

न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा ।
पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥ २.६३.४४ ॥

的确,苦修与学问都没有结果,因为父亲不知道我倒卧在地上。

2.63.45

जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः ।
चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥ २.६३.४५ ॥

即便知道,无力且不能行动的人又能做什么呢?正如一棵被砍的树,另一棵树无法救它。

2.63.46

पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।
न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥ २.६३.४६ ॥

啊,罗怙婆,你亲自快去告诉我的父亲,免得他愤怒之时像林中点燃的火一样将你焚烧。

2.63.47

इयम् एक पदी राजन् यतः मे पितुर् आश्रमः ।
तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥ २.६३.४७ ॥

啊,国王,这是一条单行小径,沿着它便是我父亲的净修林。去安抚他吧,免得他愤怒之下诅咒你。

2.63.48

विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः ।
रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥ २.६३.४८ ॥

啊,国王,请把我从箭中解救出来;一支利箭射入了我的要害,轻柔地阻住我,正如水流阻住高岸。

2.63.50

सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।
दुःखितस्य च दीनस्य मम शोकातुरस्य च ।
लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥ २.६३.५० ॥

带着箭的人以生命之气受苦;拔去箭便会死亡。那时,苦行者之子在心中察觉到了对我——痛苦、可怜、被悲伤折磨的人——的忧虑。

2.63.51

ताम्यमानः स माम् दुःखादुवाच परमार्तवत् ।
सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥ २.६३.५१ ॥

他因悲痛而极度煎熬,身体下沉、四肢扭曲,向我说话,并走向毁灭。

2.63.52

सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् ।
ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥ २.६३.५२ ॥

我以坚毅稳住自己,心将归于安定。愿因杀害婆罗门而生的罪过从心中除去。

2.63.53

न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा ।
शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥ २.६३.५३ ॥

大王啊,我不是再生族;愿你心中没有痛苦。国土之主啊,我是吠舍男子与首陀罗女子所生。

2.63.54

विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥ २.६३.५४ ॥

他在地上旋转、挣扎、颤抖。

2.63.55

तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् ।
तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥ २.६३.५५ ॥

他俯身之时,我拔出了那支箭。

2.63.56

जल आर्द्र गात्रम् तु विलप्य कृच्चान् ।
मर्म व्रणम् सम्ततम् उच्चसन्तम् ।
ततः सरय्वाम् तम् अहम् शयानम् ।
समीक्ष्य भद्रे सुभृशम् विषण्णः ॥ २.६३.५६ ॥

他浑身湿透,艰难地哀叹。因要害处的伤口而不断呻吟,躺在萨拉尤河中。看到他,哦,善良的女子,我极为悲伤。