Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.64

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.64.1

वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।
विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥ २.६४.१ ॥

праведный Рагхава, оплакивая неподобающую гибель великого мудреца, вновь обратился к Каушалье.

2.64.2

तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।
एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥ २.६४.२ ॥

因无知犯下了那大罪,感官慌乱,我独自以心思索:如今怎样才能再有善业呢?

2.64.3

ततः तम् घटम् आदय पूर्णम् परम वारिणा ।
आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥ २.६४.३ ॥

随后,我取了那盛满水的水罐,依照所指的路径前行,抵达了那座修行之所。

2.64.4

तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।
अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥ २.६४.४ ॥

在那里,我看见他的父母:虚弱、失明、年老而无人依靠,好像两只折断了翅膀的鸟。

2.64.5

तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।
ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥ २.६४.५ ॥

他们坐在那里,无法走动,只能以言语度日,因我而失去了那份希望,黯然神伤,如同孤儿。

2.64.6

शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।
तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥ २.६४.६ ॥

我心中被悲痛所伤,意识因恐惧而颤抖,走到那修行之所,又陷入了悲伤之中。

2.64.7

पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।
किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥ २.६४.७ ॥

仙人听到我的脚步声,便说道:“孩子,为何迟迟不归?快把水拿来。”

2.64.8

यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।
उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥ २.६४.८ ॥

亲爱的孩子,因为你在水中嬉戏,你的母亲正在焦急;快进入修行所吧。

2.64.9

यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।
न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥ २.६४.९ ॥

孩子,若你的母亲或我有何过错,亲爱的孩子,你作为苦行者,不应将其放在心上。

2.64.10

त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।
समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥ २.६४.१० ॥

你是无依者的依靠,是盲人的眼睛。我们的性命系于你身,你却一言不发。

2.64.11

मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।
हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥ २.६४.११ ॥

我见到仙人,心中惊恐,便以模糊颤抖、字音断续的声音,惶恐地回答他。

2.64.12

मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।
आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥ २.६४.१२ ॥

我以心中的动作与神态克制言语之力,向他说明了,孩子,由灾祸而生的恐惧。

2.64.13

क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।
सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥ २.६४.१३ ॥

我是刹帝利达舍罗陀,并非大德之子。这痛苦为善人所鄙弃,是由我自己的行为所生而降临到我身上的。

2.64.14

भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।
जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥ २.६४.१४ ॥

尊者啊,我来到萨拉尤河岸,弓从手中滑落,想要杀掉某只猛兽,或是来到水边的一头大象。

2.64.15

ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।
द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥ २.६४.१५ ॥

这时,我听到水中灌满水罐的声音,心想:“这是一头象。”于是我用箭射中了它。

2.64.16

गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।
विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥ २.६४.१६ ॥

随后我来到河岸,看见一位苦行者躺在地上,心口被箭射穿,已经气绝。

2.64.17

भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।
विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥ २.६४.१७ ॥

尊者啊,我察觉那声音,想杀那头象,便向水中射出一支铁箭,您的儿子因此被射倒。

2.64.18

ततस्तस्यैव वचनादुपेत्य परितप्यतः ।
स मया सहसा बण उद्धृतो मर्मतस्तदा ॥ २.६४.१८ ॥

于是我依他的话走近他,趁他哀号之际,猛地从他的要害处拔出了箭。

2.64.19

स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।
भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥ २.६४.१९ ॥

他被那支拉出的箭射中,便当场升往天界,哀叹着为两位受敬的盲人而悲痛,如此哭诉。

2.64.20

अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।
शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥ २.६४.२० ॥

出于无知,我突然射伤了你的儿子。事已如此,剩下的事就随它去吧;贤者啊,请对我施以恩惠。

2.64.21

स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।
नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥ २.६४.२१ ॥

听到那残酷的话,他深深叹息,因悲伤而憔悴,这位受敬的仙人无法给他带来剧痛。

2.64.22

सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥ २.६४.२२ ॥

他满面泪水,深深叹息,因悲伤而憔悴,这位大光辉的仙人对我说话,我合掌站在他面前。

2.64.23

यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।
फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥ २.६४.२३ ॥

若不是你亲口告诉我这恶行,国王啊,它的果报会让你的头立刻炸裂成十万片。

2.64.24

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।
ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥ २.६४.२४ ॥

国王啊,刹帝利杀害林居者,尤其是有意为之,甚至能使持金刚杵的因陀罗失去其位。

2.64.25

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।
ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥ २.६४.२५ ॥

若有人明知故犯,向正在苦修的仙人、这样的梵行者投掷武器,他的头颅便会裂为七片。

2.64.26

अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।
अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥ २.६४.२६ ॥

你是出于无知才做下此事,所以你还活着。否则罗怙族今日便会灭绝,你又怎能幸存?

2.64.27

नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत ।
अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥ २.६४.२७ ॥

他们对我说:"大王,带我们到那个地方去。"如今我们二人都想见那个儿子,这将是最后一面。

2.64.28

रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।
शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥ २.६४.२८ ॥

他躺在地上,全身沾满鲜血,鹿皮衣散乱,昏迷不醒,已落入法王阎摩的掌控之中。

2.64.29

अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ ।
अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥ २.६४.२९ ॥

于是我独自把那两位极度悲痛的人带到那个地方,让他们与那位仙人及其妻子一同触摸了儿子。

2.64.30

तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।
निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥ २.६४.३० ॥

二位苦行者触摸了自己的儿子,走到他身边,伏倒在他的身体上。他的父亲于是说了这些话。

2.64.31

न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।
किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥ २.६४.३१ ॥

正直的儿子啊,难道我不是你所爱的吗?看看你的母亲吧。柔弱的儿子啊,你为何不拥抱我?至少说一句话吧。

2.64.32

न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।
किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥ २.६४.३२ ॥

正直的儿子啊,难道我真的不是你所爱的吗?看看你的母亲吧。柔弱的儿子啊,你为何不拥抱我?至少说一句话吧。

2.64.33

कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।
अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥ २.६४.३३ ॥

深夜里,我还能听到谁那悦耳动人的诵读呢?无论是经典,还是其他典籍,尤其是在学习之时?

2.64.34

को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।
श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥ २.६४.३४ ॥

谁在完成黄昏祭拜、沐浴、献祭和用餐之后,坐在我身边,赞美我呢,儿子啊?我被悲伤和恐惧所折磨。

2.64.35

कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।
भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥ २.६४.३५ ॥

谁带来块根、茎块和果实,像款待贵客一样款待我呢?我如今无力行事,无所依靠,无人引领。

2.64.36

इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।
कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥ २.६४.३६ ॥

儿子啊,我该如何供养你这盲目、年迈、苦修的母亲?她可怜,只一心思念着你。

2.64.37

तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।
श्वो मया सह गन्ता असि जनन्या च समेधितः ॥ २.६४.३७ ॥

留下,孩子,不要走向阎摩的居所。明天你将与我同行,由你的母亲养育。

2.64.38

उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।
क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥ २.६४.३८ ॥

我们两人,被悲痛折磨,在森林中无依无靠、可怜无助,失去了你,很快便会前往阎摩的居所。

2.64.39

ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।
क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥ २.६४.३९ ॥

于是,我见到毗婆娑之子阎摩,便对他说:愿法王对我宽容,愿他赡养我的父母。

2.64.40

दातुमर्हति धर्मात्मा लोकपालो महायशाः ।
ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥ २.६४.४० ॥

这位心怀正法、世界守护者、大名远扬的神,有资格将这份不灭的无畏布施赐予像我这样的人。

2.64.41

अपापो असि यथा पुत्र निहतः पाप कर्मणा ।
तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥ २.६४.४१ ॥

孩子,你是无罪的,却被行恶之人所杀。凭借这份真实,你应迅速前往持兵作战的勇士之界。

2.64.42

यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।
हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥ २.६४.४२ ॥

凡在战阵中不退缩的英雄所走的路,以及面对敌人而阵亡者所走的至高之路——孩子,你要走那至高之路。

2.64.43

याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।
नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥ २.६४.४३ ॥

儿啊,去吧,走上萨加罗、赛比耶、迪利普、遮那梅遮耶、那呼沙和敦都马罗所到达的那条道路。

2.64.44

या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।
भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥ २.६४.४४ ॥

一切善人之道,因诵读吠陀与战死而得之道,施地者与持火者之道,以及守持一妻誓愿者之道——

2.64.45

गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।
देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥ २.६४.४५ ॥

施舍千牛者之道,供养师长者之道,以及舍弃身体者之道——儿啊,去那条道路吧。

2.64.46

न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।
स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥ २.६४.४६ ॥

生于此族的人不会走向不祥之道;但杀害你、我的亲人的那人,将走向那里。

2.64.47

एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।
ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥ २.६४.४७ ॥

他在那里如此悲苦地一再哀叹;随后,他与妻子一同着手为他举行供水之仪。

2.64.48

स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।
स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥ २.६४.४८ ॥

然而那位仙人之子,通晓法的人,凭自己的业力获得神圣之形,很快便与因陀罗一同升上天界。

2.64.49

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।
आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥ २.६४.४९ ॥

苦行者与因陀罗一同对两位老人说话,安慰他们片刻后,对父母说了这番话。

2.64.50

स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।
भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥ २.६४.५० ॥

凭借你们二位的侍奉,我获得了伟大的境界;你们二位也很快会来到我所在之处。

2.64.51

एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।
आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥ २.६४.५१ ॥

说完这些话,这位调伏诸根的仙人之子迅速乘上那辆神圣而光耀的飞车升上天界。

2.64.52

स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥ २.६४.५२ ॥

于是这位大光辉的苦行者与妻子一同迅速完成奉水之礼,对合掌站在近旁的我说道。

2.64.53

अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।
यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥ २.६४.५३ ॥

大王啊,现在就杀了我吧;死亡对我并无痛苦,因为你一箭便使我这唯一的独子之父变成了无子之人。

2.64.54

त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।
तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥ २.६४.५४ ॥

你因无知杀死了我纯洁的儿子;因此我要以极其可怕的痛苦诅咒你。

2.64.55

पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।
एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥ २.६४.५५ ॥

儿啊,我如今因失子而生的这份悲痛;同样,国王啊,你也将因失子之痛而结束你的生命。

2.64.56

अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।
तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥ २.६४.५६ ॥

因为你身为刹帝利,出于无知杀死了一位仙人,所以,人主啊,杀害婆罗门的罪孽不会很快降临到你身上。

2.64.57

त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।
जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥ २.६४.५७ ॥

如此可怕的心境,带来生命的终结,也将很快降临到你身上,正如它降临到献上祭礼酬金的人身上。

2.64.58

एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।
चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥ २.६४.५८ ॥

他们对我施下这一诅咒,又悲痛哀叹许久,将两人的遗体置于柴堆之上,夫妇二人便升往天界了。

2.64.59

तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।
तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥ २.६४.५९ ॥

我想到此事,王后啊,自己便想起了年少时所犯的罪过:那时我凭声音开弓射箭。

2.64.60

तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।
अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥ २.६४.६० ॥

王后啊,那业行的果报如今已经成熟降临,正如有人吃了不宜的食物,病便在食物的精华中生起。

2.64.61

तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।
यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥ २.६४.६१ ॥

因此,善良的夫人啊,由于那位高尚之子的话语,我今日将因丧子之痛而舍弃生命。

2.64.62

चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।
इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥ २.६४.६२ ॥

考莎莉雅啊,我的眼睛看不见你;请好好地触摸我。说完这话,国王既惊恐又哭泣,对他的妻子说道。

2.64.63

एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।
सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥ २.६४.६३ ॥

王后啊,我对罗伽瓦所做的,正合我身;他对我所做的,也正合他身。

2.64.64

दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।
कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥ २.६४.६४ ॥

世上哪位智者会抛弃即使品行不端的儿子?而哪个被流放的儿子不会怨恨父亲呢?

2.64.65

यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥ २.६४.६५ ॥

若今日罗摩哪怕触碰我一次,或能与我相见,人们便不会看见我已前往阎摩之国。

2.64.66

चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।
दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥ २.६४.६६ ॥

我的眼睛已看不见你;我的记忆正在消失。考莎莉雅啊,这些毗婆娑多阎摩的使者正在催促我。

2.64.67

अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।
न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥ २.६४.६७ ॥

那么,在我生命的尽头,还有什么比不能见到精通法义、真正勇武的罗摩更痛苦的呢?

2.64.68

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।
उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥ २.६४.६८ ॥

因未见那位爱子而生的悲痛,无可补救,正如烈日晒干少许水,干涸着我的生命之气。

2.64.69

न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।
मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥ २.६४.६९ ॥

在第十五年再次见到罗摩那美好吉祥、戴着耳环的面容的人,既不是人,也不是神。

2.64.70

पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।
धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥ २.६४.७० ॥

能再次见到罗摩面容的人真是有福:眼如莲瓣,眉目俊美,牙齿整齐,鼻梁秀挺,宛如星辰之主(月亮)。

2.64.71

सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥ २.६४.७१ ॥

能见到我夫君罗摩那张芬芳、如秋月与盛开莲花般的面容的人,真是有福。

2.64.72

निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।
द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥ २.६४.७२ ॥

在森林流放结束、重返阿逾陀的罗摩身上,快乐的人们将看见他,如同看见金星沿其轨道运行。

2.64.73

कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।
वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥ २.६४.७३ ॥

哦,考沙利雅!我的心因迷惑而混乱,心仿佛正在沉没;声音、触觉与味道,我已不能如常感知。

2.64.74

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।
क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥ २.६४.७४ ॥

心神既已毁坏,我的诸根皆将衰败,犹如油尽灯灭、光芒渐消。

2.64.75

अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।
सम्सादयति वेगेन यथा कूलम् नदी रयः ॥ २.६४.७५ ॥

这由我自身生起的忧愁,猛烈地摧倒了我这无依无靠、神志昏乱之人,犹如河流的激流冲垮河岸。

2.64.76

हा राघव महा बाहो हा मम आयास नाशन ।
हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥ २.६४.७६ ॥

哎呀,罗怙王子!大臂者啊!哎呀,解除我忧苦的人!哎呀,父亲所爱的人!我的主啊!哎呀,儿啊!今日你去了何方?

2.64.77

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।
हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥ २.६४.७७ ॥

哎呀,考沙利雅!我将要死去了。哎呀,苏弥特拉,苦行女啊!哎呀,残忍的吉迦伊,我的仇敌,玷污家族的人!

2.64.78

राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥ २.६४.७८ ॥

国王十车王悲叹之间,寿终而逝。

2.64.79

यथा तु दीनम् कथयन् नर अधिपः ।
प्रियस्य पुत्रस्य विवासन आतुरः ।
गते अर्ध रात्रे भृश दुह्ख पीडितः ।
तदा जहौ प्राणम् उदार दर्शनः ॥ २.६४.७९ ॥

那人间之主悲切地诉说着,因心爱之子被流放而痛苦万分,午夜已过,他被极大的悲伤所折磨,便在那时断送了生命气息,这位容貌高贵的国王。