蚁垤《罗摩衍那》 · 篇 2.66
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.66.1
तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।
हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥ २.६६.१ ॥
见国王已升天,安静如熄灭之火,如无水之大海,如失去光辉的太阳。
2.66.2
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।
उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥ २.६६.२ ॥
考莎厘雅双眼含泪,因种种悲痛而憔悴,她将国王的头抱在怀中,回答了吉迦伊。
2.66.3
सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।
त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥ २.६६.३ ॥
吉迦伊啊,愿你心愿得偿。无刺的王国任你享用。抛弃国王,一心一意,你这残忍、行为邪恶的女人!
2.66.4
विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।
विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥ २.६६.४ ॥
罗摩离我而去,我的丈夫也升天了。我如同迷途、离开商队的旅人,没有勇气活下去。
2.66.5
भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।
इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥ २.६६.५ ॥
丢下作为自己神明的丈夫,哪个女人还想在别处活下去?除非是抛弃了正法的吉迦伊。
2.66.6
न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।
कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥ २.६६.६ ॥
贪婪者不察其过,如同吞食毒果。因为驼背女,罗怙族的家系被吉迦伊毁灭了。
2.66.7
अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।
सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥ २.६६.७ ॥
国王受不当之命所驱,将罗摩与其妻一同放逐;闻此消息,遮那伽也将如我一般倒下。
2.66.8
स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।
रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥ २.६६.८ ॥
那位正直的罗摩,眼如莲瓣,今日不知我已无依无靠、成了寡妇;他已从此地走向生命的丧失。
2.66.9
विदेह राजस्य सुता तहा सीता तपस्विनी ।
दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥ २.६६.९ ॥
毗提诃王之女、苦行的悉多,本不该承受苦难,在林中必将深感不安。
2.66.10
नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।
निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥ २.६६.१० ॥
夜间听闻猛兽飞禽那可怖的吼叫,她必定惊恐,前去依附罗怙之后。
2.66.11
वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।
सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥ २.६६.११ ॥
那位年老且子嗣稀少、时时思念毗提诃的人,被悲痛所笼罩,必将舍弃生命。
2.66.12
साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।
इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥ २.६६.१२ ॥
我这忠于丈夫的人,今日就要走向天命所定的终点;拥抱此身,我将投入火中。
2.66.13
ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।
व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥ २.६६.१३ ॥
于是侍从们拥抱着哀哭的苦行女人考莎利耶,她因极度悲痛而受苦,将她从那里带走了。
2.66.14
तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।
राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥ २.६६.१४ ॥
于是大臣们将大地之主安放在油缸之中,随后遵照吩咐依次完成了国王的一切仪式。
2.66.15
न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।
सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥ २.६६.१५ ॥
然而没有王子,大臣们不愿召集朝会;他们虽通晓一切,此时仍守护着大地之主。
2.66.16
तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।
हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥ २.६६.१६ ॥
然而这些女人见大臣们安放于油缸中的那位人主,知道他已死去,便哀哭起来:“哎呀,他死了!”
2.66.17
बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।
रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥ २.६६.१७ ॥
她们举起双臂,泪流满面,哭泣不止,因悲痛而备受煎熬的那些可怜女人,凄凄惨惨地哀号起来。
2.66.18
हा महाराज रामेण सततम् प्रियवादिना ।
विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥ २.६६.१८ ॥
哎呀,大王!我们失去了总说悦耳之言、诺言不欺的罗摩,您为何要抛弃我们?
2.66.19
कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।
कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥ २.६६.१९ ॥
因吉凯伊的恶念而与罗伽婆(罗摩)分离,我们这些寡妇如何能与这个杀夫者同住?
2.66.20
स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।
वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥ २.६६.२० ॥
罗摩——始终是我们和您的主人,自制而光辉——舍弃王者的荣耀,已入森林而去。
2.66.21
त्वया तेन च वीरेण विना व्यसनमोहिताः ।
कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥ २.६६.२१ ॥
没有您和那位英雄,我们被悲痛迷惑,又被吉凯伊玷污,如何能够度日?
2.66.22
यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।
सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥ २.६६.२२ ॥
她已舍弃了君王、罗摩、大力的罗什曼那,以及与他们同在的悉多,还有谁是她不会舍弃的呢?
2.66.23
ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।
व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥ २.६६.२३ ॥
罗伽婆的那些贵妇,被泪水和深重的悲痛所笼罩,失去了欢乐,痛苦地辗转挣扎。
2.66.24
निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।
पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥ २.६६.२४ ॥
没有了这位大德之王,阿逾陀城不再光彩——如同没有星辰的夜晚,如同被丈夫抛弃的女子。
2.66.25
बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।
शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥ २.६६.२५ ॥
众人泪流满面,贵族妇女高呼“哎呀”;空荡的广场与屋内深处——这座城市不再像往昔那样光彩照人。
2.66.26
गत प्रभा द्यौर् इव भास्करम् विना ।
व्यपेत नक्षत्र गणा इव शर्वरी ।
निवृत्तचारः सहसा गतो रविः ।
प्रवृत्तचारा राजनी ह्युपस्थिता ॥ २.६६.२६ ॥
如同太阳不在时天空失去光辉,如同群星离散的夜晚——仿佛太阳突然停止运行而离去,夜晚开始运行而降临。
2.66.27
ऋते तु पुत्राद्दहनम् महीपते ।
र्नरोचयन्ते सुहृदः समागताः ।
इतीव तस्मिन् शयने न्यवेशय ।
न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥ २.६६.२७ ॥
众友人聚集,心想“若无子嗣,国王不宜火化”,便将国王安放在那张床上,一边思念那位容貌不可思议的国王。
2.66.28
गतप्रभा द्यौरिव भास्करम् विना ।
व्यपेतनक्षत्रगणेव शर्वरी ।
पुरी बभासे रहिता मह आत्मना ।
न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥ २.६६.२८ ॥
如同太阳不在时天空失去光辉,如同群星离散的夜晚——失去了这位大德之王的城市不再光彩照人;其道路与广场上,人们哽咽难言,一片骚动。
2.66.29
नराः च नार्यः च समेत्य सम्घशो ।
विगर्हमाणा भरतस्य मातरम् ।
तदा नगर्याम् नर देव सम्क्षये ।
बभूवुर् आर्ता न च शर्म लेभिरे ॥ २.६६.२९ ॥
男女相聚成群,纷纷指责婆罗多之母——当时,国王驾崩,城中众人皆悲痛不已,无处得慰。