Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.67.1

आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला ।
आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥ २.६७.१ ॥

那夜充满哀号、毫无欢乐,人们的喉咙与眼睛都被泪水浸湿,在阿约提亚漫长地过去了。

2.67.2

व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः ।
समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥ २.६७.२ ॥

夜晚过去,太阳升起之时,辅佐国王者与再生族(婆罗门)聚集起来,前往议事厅。

2.67.3

मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः ।
कात्ययनो गौतमः च जाबालिः च महा यशाः ॥ २.६७.३ ॥

摩根德耶、牟德伽利耶、婆摩提婆、迦叶波、迦旃延、乔达摩,以及大名远扬的阇婆离。

2.67.4

एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् ।
वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥ २.६७.४ ॥

这些再生族与大臣们一同,各自发言,都面向最优秀的王家祭司婆private Vasiṣṭha。

2.67.5

अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा ।
अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥ २.६७.५ ॥

自从国王因丧子之痛而化为五大(死亡),那一夜对我们而言如百年般悲痛,已经过去。

2.67.6

स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः ।
लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥ २.६७.६ ॥

伟大的国王已升天;罗摩入林隐居;光辉的罗什曼那也与罗摩一同前往。

2.67.7

उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ ।
पुरे राज गृहे रम्ये मातामह निवेशने ॥ २.६७.७ ॥

婆罗多与设睹卢那二人,皆是炙烤敌人者,在俱迦耶国,城中华美的王宫里,在外祖父的府邸中。

2.67.8

इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् ।
अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥ २.६७.८ ॥

愿此刻便在此册立一位伊刹婆迦族的国王,免得我们这无王的国家走向毁灭。

2.67.9

न अराजले जन पदे विद्युन् माली महा स्वनः ।
अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥ २.६७.९ ॥

在无王之国,缠绕闪电、雷声轰鸣的云不降雨;雨神也不以天水润泽大地。

2.67.10

न अराजके जन पदे बीज मुष्टिः प्रकीर्यते ।
न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥ २.६७.१० ॥

在无王之国,无人撒下一把种子;在无王之地,儿子不再听从父亲,妻子也不再顺从丈夫。

2.67.11

अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके ।
इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥ २.६७.११ ॥

无王之国没有财富,也留不住妻子;这是大灾难,此外还有别的灾祸。无王之国,真理又从何处立足?

2.67.12

न अराजके जन पदे कारयन्ति सभाम् नराः ।
उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥ २.६७.१२ ॥

在无王之国,人们不建造议事厅,不营造美丽的园林,也不欢欣地兴建神圣的殿堂。

2.67.13

न अराजके जन पदे यज्ञ शीला द्विजातयः ।
सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥ २.६७.१३ ॥

不是在无王之国,那里热衷祭祀的再生者、克己的婆罗门坚守誓愿,不断地举行长期的祭祀法会。

2.67.14

न अराजके जनपदे महायज्ञेषु यज्वनः ।
ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥ २.६७.१४ ॥

不是在无王之国,那里富足的婆罗门作为大祭的施主,慷慨地布施丰厚的酬礼。

2.67.15

न अराजके जन पदे प्रभूत नट नर्तकाः ।
उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥ २.६७.१५ ॥

不是在无王之国,那里有众多的演员与舞者,节庆与集会兴盛,增益国家的繁荣。

2.67.16

न अरजके जन पदे सिद्ध अर्था व्यवहारिणः ।
कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥ २.६७.१६ ॥

不是在无王之国,那里事业有成的商人喜好故事,沉浸于故事之中,并与爱听故事的人相处欢欣。

2.67.17

न अराजके जनपदे उद्यानानि समागताः ।
सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥ २.६७.१७ ॥

不是在无王之国,那里身饰黄金的少女们在傍晚聚集,前往园林嬉戏。

2.67.18

न अराजके जन पदे वाहनैः शीघ्र गामिभिः ।
नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥ २.६७.१८ ॥

不是在无王之国,那里多情的男子乘坐快车,与女眷一同前往森林。

2.67.19

न अराकजे जन पदे धनवन्तः सुरक्षिताः ।
शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥ २.६७.१९ ॥

在无王的国土中,富人并不安全;以耕种、牧牛和守护为生的人也不敢敞开门户而睡。

2.67.20

न अराजके जनपदे बद्दघण्टा विषाणीनः ।
आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥ २.६७.२० ॥

在无王的国土中,系着铃铛、长着象牙、六十岁的大象不会在王道上漫步。

2.67.21

न अराजके जनपदे शरान् सम्ततमस्यताम् ।
श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥ २.६७.२१ ॥

在无王的国土中,听不到不断射箭的声音,也听不到练习武器时拍掌的响声。

2.67.22

न अराजके जन पदे वणिजो दूर गामिनः ।
गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥ २.६७.२२ ॥

在无王的国土中,远行的商人载满大量货物,不能平安地走在道路上。

2.67.23

न अराजके जन पदे चरति एक चरः वशी ।
भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥ २.६७.२३ ॥

在无王的国土中,独行、自制、以自我观照自我、傍晚回到住所的隐士,不会四处游走。

2.67.24

न अराजके जन पदे योग क्षेमम् प्रवर्तते ।
न च अपि अराजके सेना शत्रून् विषहते युधि ॥ २.६७.२४ ॥

在无王的国土中,所得与守护(瑜伽-克谢玛)不能运行;无王之军在战场上也抵挡不住敌人。

2.67.25

न अराजके जनपदे हृष्टैः परमवाजिभिः ।
नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥ २.६७.२५ ॥

在无王的国土中,欢喜的人们不会突然乘着驾以良马的战车、装饰一新而出行。

2.67.26

न अराजके जनपदे नराः शास्त्रविशारदाः ।
सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥ २.६७.२६ ॥

在无王的国土中,精通经典的人不会聚集,也不会留居于森林与园林之中。

2.67.27

न अराजके जनपदे माल्यमोदकदक्षिणाः ।
देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥ २.६७.२७ ॥

在无王的国土中,守持戒律的人不会为供奉诸神而准备花环、甜点和布施。

2.67.28

न अराजके जनपदे चन्दनागुरुरूषिताः ।
राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥ २.६७.२८ ॥

在无王的国土中,涂抹檀香与沉香的王子们,不会如春天的树木那般光彩夺目。

2.67.29

यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् ।
अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥ २.६७.२९ ॥

正如无水之河、无草之林、无牧人之牛,无王之国亦是如此。

2.67.30

ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः ।
तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥ २.६७.३० ॥

旗帜是战车的标志,烟是火的标志;我们的旗帜——那位国王,已从此处升入神界。

2.67.31

न अराजके जन पदे स्वकम् भवति कस्यचित् ।
मत्स्या इव नरा नित्यम् भक्षयन्ति परस्परम् ॥ २.६७.३१ ॥

在无王之国,任何人都不能拥有自己的东西;人们总是像鱼一样互相吞食。

2.67.32

येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः ।
ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥ २.६७.३२ ॥

即使是越过礼法界限、心无疑惑的无信者,在王者刑罚的压制下,也会变得适合得到善果。

2.67.33

यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।
तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥ २.६७.३३ ॥

正如身体的视觉时时发挥作用,人王也是国家中真理与法的源头。

2.67.34

राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् ।
राजा माता पिता चैव राजा हितकरो नृणाम् ॥ २.६७.३४ ॥

王即是真理,王即是法;王是有家族者的家族;王即是母亲与父亲;王是人们的利益所在。

2.67.35

यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।
विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥ २.६७.३५ ॥

阎摩、毗沙门(俱毗罗)、因陀罗和大力的伐楼那,都因王者的德行与伟大而被其所超越。

2.67.36

अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन ।
राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥ २.६७.३६ ॥

唉!若世上没有能分辨善恶的王,这一切便只是一片黑暗,什么都无法被辨认。

2.67.37

जीवति अपि महा राजे तव एव वचनम् वयम् ।
न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥ २.६७.३७ ॥

只要伟大的国王在世,我们都不会违背你的话,正如大海不越过its海岸。

2.67.38

स नः समीक्ष्य द्विज वर्य वृत्तम् ।
नृपम् विना राज्यम् अरण्य भूतम् ।
कुमारम् इक्ष्वाकु सुतम् वदान्यम् ।
त्वम् एव राजानम् इह अभिषिन्चय ॥ २.६७.३८ ॥

二生者中最优秀的人啊!考虑我们的处境:没有国王,王国已变成荒野。请你亲自在此将慷慨的王子,伊克瓦库之子,立为国王。