Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.71

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.71.1

स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।
ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥ २.७१.१ ॥

勇猛的他面向东方从王宫出发。随后光辉的他渡过苏达玛河并凝望它。

2.71.2

ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।
शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥ २.७१.२ ॥

伊克瓦库家族的荣耀之子渡过了沙塔德鲁河。此河清凉,两岸遥远,向西流淌,波涛起伏。

2.71.3

एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।
शिलाम् आकुर्वतीम् तीर्त्वा आग्नेयम् शल्य कर्तनम् ॥ २.७१.३ ॥

渡过埃拉达那河,到达远方的帕尔帕塔,又渡过希拉河与阿库尔瓦蒂河,来到火神之地“拔刺”。

2.71.4

सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।
अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥ २.७१.४ ॥

他信守诺言,纯洁而光荣,凝望着希拉瓦哈河,越过大山,朝着恒车林而去。

2.71.5

सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।
उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥ २.७१.५ ॥

他以凶猛的水势渡过萨拉斯瓦蒂河与恒河,进入了位于勇鱼国以北的婆罗遮林。

2.71.6

वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।
यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥ २.७१.६ ॥

他抵达并渡过了名为库林伽、湍急清凉、被群山环绕的亚穆纳河,于是安抚了军队。

2.71.7

शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।
तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥ २.७१.७ ॥

他使疲惫的马匹身体降温并加以安抚,在那里沐浴饮水,又取了水带着,继续前行。

2.71.8

राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।
भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥ २.७१.८ ॥

王子乘坐名为跋陀罗的吉祥车辆,穿过那座少有人至的大森林,犹如风穿过天空。

2.71.9

भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।
उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥ २.७१.९ ॥

罗怙之后迅速来到大河婆吉罗提(恒河),河水难以渡过,水流如日光;他来到了著名的普拉格瓦塔城附近。

2.71.10

स गङ्गाम् प्राग्वटे तीर्त्वे समायात्कुटिकोष्ठिकाम् ।
सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥ २.७१.१० ॥

他在普拉格瓦塔渡口来到恒河,与军队一同抵达库提科施提卡聚落;渡过之后,又来到法增之地。

2.71.11

तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।
वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥ २.७१.११ ॥

从门的南侧经过,他来到遮浮普罗斯塔;十车王之子又前往名为瓦卢他的可爱村庄。

2.71.12

तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।
उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥ २.७१.१२ ॥

在那片可爱的森林中驻扎之后,他面向东方出发,前往乌吉哈那的花园,那里有普里雅迦树。

2.71.13

सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।
अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥ २.७१.१३ ॥

到达娑罗树与波利耶迦树之处,骑上快马,随后遣散军队,婆罗多急速前行。

2.71.14

वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।
अन्या नदीः च विविधाः पार्वतीयैः तुरम् गमैः ॥ २.७१.१४ ॥

在一切渡口处驻扎,渡过乌塔纳迦河,并借山地马匹渡过其他各条河流。

2.71.15

हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।
ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥ २.७१.१५ ॥

骑上象背,他渡过了库提迦河;那位人中之虎又在劳希提耶渡过了迦毗婆提河。

2.71.16

एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।
कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥ २.७१.१६ ॥

在一萨拉处渡过斯堤努玛提河,在毗那陀渡过戈玛提河;到达羯陵伽城,那时又抵达娑罗林。

2.71.17

भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।
वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥ २.७१.१७ ॥

婆罗多迅速赶来,他的坐骑已极度疲惫;穿过森林后,在夜尽的破晓时分抵达。

2.71.18

अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।
ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥ २.७१.१८ ॥

他看见了由摩奴王所建的阿逾陀;在路上住了七夜之后,那位人中之虎看见了这座城。

2.71.19

अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।
एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥ २.७१.१९ ॥

他望见前方的阿约迪亚,在车中对御者说:这座拥有吉祥园林的荣耀之城,如今对我已不太可爱了。

2.71.20

अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।
यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥ २.७१.२० ॥

御者啊,远望阿约迪亚,城墙呈苍白的土色,那里居住着行祭、德行圆满、精通吠陀的婆罗门。

2.71.21

भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।
अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥ २.७१.२१ ॥

此城多为仙人所充满,由最优秀的王仙所守护。从前在阿约迪亚,常可听到巨大而喧闹的声音。

2.71.22

समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।
उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥ २.७१.२२ ॥

如今我再听不到四面传来的男女喧闹声。白昼与傍晚在园林中嬉戏的人们,如今都已停歇了。

2.71.23

समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।
तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥ २.७१.२३ ॥

往昔人们四处奔走之时,它们在我看来光彩耀目;今日却被恋人们抛弃,仿佛在哭泣。

2.71.24

अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।
न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥ २.७१.२४ ॥

御者啊,这座城在我看来如同森林;这里既看不到车辆,也看不到大象和马匹。

2.71.25

निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।
उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥ २.७१.२५ ॥

如从前一般,当显贵之人出城或入城时,园林因醉饮欢乐的人群而生辉。

2.71.26

जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।
तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥ २.७१.२६ ॥

那些曾是人们欢爱相会之处、极为美好的地方,如今我要说它们全都毫无欢乐。

2.71.27

स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।
नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥ २.७१.२७ ॥

沿路落叶的树木仿佛在悲叫,然而直到今日,也听不到那些沉醉的走兽飞禽的声音。

2.71.28

सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।
चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥ २.७१.२८ ॥

许多人以清晰甜美的声音轻声交谈,檀香与沉香混合的香烟,其无比的芬芳四处弥漫。

2.71.29

प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।
भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥ २.७१.२९ ॥

那清风为何今日不再像从前那样吹拂?它曾拂过鼓槌、鼙鼓与琵琶之弦,使乐声再度响起。

2.71.30

किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।
अनिष्टानि च पापानि पश्यामि विविधानि च ॥ २.७१.३० ॥

往日那声响总是奔流不息,今日为何戛然而止?我看到种种不祥和罪恶的征兆。

2.71.31

निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।
सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥ २.७१.३१ ॥

不祥的征兆出现了,所以你的心很忧伤。车夫啊,在我的亲族之中,一切安好是难得的。

2.71.32

तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।
विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥ २.७१.३२ ॥

即使没有真正的迷惑之因,我的心仿佛也在下沉。我沮丧、恐惧,感官极为慌乱。

2.71.33

भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।
द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥ २.७१.३३ ॥

婆罗多迅速进入了由甘蔗王族守护的城市;他的疲惫车马从名为毗阇衍多的城门进入。

2.71.34

द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।
स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥ २.७१.३४ ॥

守门的人起身,以胜利的祝愿向他致意并问候他。他与他们同行,但心中被诸多思虑占据;他以敬意回报了守门人和那些人。

2.71.35

सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।
किमहम् त्वरयानीतः कारणेन विनानघ ॥ २.७१.३५ ॥

罗怙王族的那人对疲惫的马主御者说:“无瑕之人啊,为何无缘无故地如此匆忙地把我带来?”

2.71.36

अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।
श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥ २.७१.३६ ॥

我的心充满对凶兆的忧惧,我的心性仿佛也在沉落。我们曾听说,往昔国王覆灭之时,便有这样的事发生。

2.71.37

आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।
सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥ २.७१.३७ ॥

御者啊,我在这里看到所有这些迹象:未经打扫,粗陋而荒废。

2.71.38

असम्यतकवाटानि श्रीविहीनानि सर्वशः ।
बलिकर्मविहीनानि धूपसम्मेदनेन च ॥ २.७१.३८ ॥

门扉关闭不严,全然失去光彩,没有祭献之礼,也没有香烟缭绕的气息。

2.71.39

अनाशितकुटुम्बानि प्रभाहीनजनानि च ।
अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥ २.७१.३९ ॥

我看见那些家中断炊、人们失去光彩、带着衰败之兆的住宅。

2.71.40

अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।
देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥ २.७१.४० ॥

神庙花环的光彩已逝,庭院未扫,空寂无人,不再像从前那样光亮。

2.71.41

देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।
माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥ २.७१.४१ ॥

神像被丢弃,祭祀的集会也是如此;花肆与今日的货摊也都不见光彩。

2.71.42

दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।
ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥ २.७१.४२ ॥

今日商人也不像从前那样出现在此;他们心中因忧虑而不安,又因生意败落而被束缚。

2.71.43

देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥ २.७१.४३ ॥

在神庙与灵塔中,鸟群也同样显得忧郁。

2.71.44

मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।
सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥ २.७१.४४ ॥

我看到城中男女,面容黯淡,双目含泪,悲伤沉思,形容消瘦,焦虑不安。

2.71.45

तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥ २.७१.४५ ॥

他在阿逾陀看到这些不祥之兆后,便前往王宫。

2.71.46

ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।
रजो अरुण द्वार कपाट यन्त्राम् ।
दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।
दुह्खेन सम्पूर्णतरः बभूव ॥ २.७१.४६ ॥

他看到这座城市:高塔与楼台空无一人,街道因尘土而泛红,门扉紧闭,却光辉如因陀罗之城,他心中更加充满悲伤。

2.71.47

बहूनि पश्यन् मनसो अप्रियाणि ।
यानि अन्न्यदा न अस्य पुरे बभूवुः ।
अवाक् शिरा दीन मना नहृष्टः ।
पितुर् महात्मा प्रविवेश वेश्म ॥ २.७१.४७ ॥

他看到城中许多令心烦意乱的景象,那是往日从未发生过的。他低着头,心中悲伤,毫无喜色,这位大德之人走进了父亲的宫殿。