Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.72

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.72.1

अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये ।
जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥ २.७२.१ ॥

婆罗多先在父亲的宫中见到了父亲,然后前往母亲的宫中去见母亲。

2.72.2

अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् ।
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥ २.७२.२ ॥

凯刻伊见到流亡归来的儿子到来,欣喜地立即起身,离开了金色的座位。

2.72.3

स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् ।
भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥ २.७२.३ ॥

正义的婆罗多走进失去光彩的自家宫室,见到母亲,便握住了她那吉祥的双足。

2.72.4

सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।
अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥ २.७२.४ ॥

她嗅了嗅荣耀的婆罗多的头,拥抱他,让他坐在膝上,然后开始询问。

2.72.5

अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः ।
अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥ २.७२.५ ॥

你离开外祖父家只过了几个夜晚;你乘车急速赶来,难道路途的疲劳没有困扰你吗?

2.72.6

आर्यकः ते सुकुशलो युधा जिन् मातुलः तव ।
प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥ २.७२.६ ॥

你的外祖父安好,你的舅舅尤达吉特也安好。孩子,你应当把旅途中一切平安的消息都告诉我。

2.72.7

एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः ।
आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥ २.७२.७ ॥

凯刻伊如此询问,王子、莲花眼的婆罗多便将所有喜讯告诉了母亲。

2.72.8

अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः ।
अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥ २.७२.८ ॥

自离开尊贵的外祖父的府邸,今天已是第七个夜晚。母亲安好,父亲安好,我的舅舅尤达吉特也安好。

2.72.9

यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः ।
परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥ २.७२.९ ॥

国王赐予我的财物和珍宝使我在路上疲惫,所以我先行到达了。

2.72.10

राज वाल्य हरैः दूतैः त्वर्यमाणो अहम् आगतः ।
यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥ २.७२.१० ॥

在国王迅捷使者的催促下,我赶来了。我想问的,母亲,您应当告诉我。

2.72.11

शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः ।
न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥ २.७२.११ ॥

你那镶金的卧榻空空如也,而伊克瓦库的百姓在我看来也不见欢欣。

2.72.12

राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने ।
तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥ २.७२.१२ ॥

国王大多在此,在母亲的府中;但今天我却见不到他,我正是为了见他而来。

2.72.13

पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः ।
आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥ २.७२.१३ ॥

我将抱住父亲的双脚。母亲,请告诉我这个询问者:或者他在长母考舍厘雅的住处吗?

2.72.14

तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।
अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥ २.७२.१४ ॥

凯盖伊回答他,仿佛令人愉悦,却可怕而令人不快,被王国的贪欲所迷惑,明知却对不知者说。

2.72.15

या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः ।
राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥ २.७२.१५ ॥

你父亲已去往众生所去的那归宿:那位君王,大德、光耀、行祭者、善人的依归。

2.72.16

तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः ।
पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥ २.७२.१६ ॥

婆罗多听到这话,他正直、出身高贵、清净,忽然倒在地上,被对父亲的悲痛之力所压垮。

2.72.17

हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् ।
निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥ २.७२.१७ ॥

"哎呀!哎呀!我完了!"婆罗多说出这样可怜而凄惨的话,那大臂、勇猛的人伸开双臂倒下了。

2.72.18

ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः ।
विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥ २.७२.१८ ॥

于是婆罗多被悲痛所包围,因父亲之死而伤痛,这位大光辉者心神迷乱、慌乱,开始哀哭。

2.72.19

एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा ।
शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥ २.७२.१९ ॥

往昔,雨季过后的夜晚,我父亲的这张华美床榻,就如同被月光照耀的清澈天空,何等明丽。

2.72.20

तत् इदम् न विभाति अद्य विहीनम् तेन धीमता ।
व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥ २.७२.२० ॥

失去那位智慧的父亲,如今它已不再如往昔那般光彩,犹如失去月亮的天空,或干涸的大海。

2.72.21

बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः ।
आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥ २.७२.२१ ॥

这位胜利者中的翘楚,眼泪涌上喉咙,自己深感痛苦,便用一块布遮住了他那威严的面容。

2.72.22

तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि ।
निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥ २.७२.२२ ॥

看见那位如同神明的悲伤之人倒卧在地,宛如森林中被斧头砍倒的娑罗树干。

2.72.23

मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः ।
उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥ २.७२.२३ ॥

他将这位如同发情的大象、如同日月的人从地上扶起,这位为悲伤所苦的人,于是说出了这些话。

2.72.24

उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः ।
त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥ २.७२.२४ ॥

起来吧,起来吧!声名显赫的王子,你为何躺卧不起?像你这样在朝会上受人敬重的贤人,是不会如此悲伤的。

2.72.25

दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।
बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥ २.७२.२५ ॥

你的智慧,有资格行布施与祭祀,遵循德行、圣典与言语,哦,有智慧的人,如同太阳宫中的光辉。

2.72.26

स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च ।
जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥ २.७२.२६ ॥

他痛哭良久,在地上翻滚,被诸多悲痛所笼罩,对母亲说了这番话。

2.72.28

अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति ।
तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम ।
पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥ २.७२.२८ ॥

国王将为罗摩行灌顶之礼,也必定会举行祭祀;然而事情却变得不同了,我的心碎裂了,因为我看不到我的父亲,他总是致力于亲人的福祉。

2.72.29

अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते ।
धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥ २.७२.२९ ॥

母亲,国王是因何疾病在我未到之前离世的?罗摩等人都是有福之人,是他们亲自为父亲举行了丧葬之礼。

2.72.30

न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् ।
उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥ २.७२.३० ॥

伟大而有名望的国王必定不知道我已到来;若知道,父亲定会俯身,立刻嗅一嗅我的头。

2.72.31

क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः ।
येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥ २.७२.३१ ॥

父亲那双触感温柔、做事毫不费力的手在哪里呢?我沾满尘土时,它总是一次又一次地为我拂拭。

2.72.32

यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः ।
तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥ २.७२.३२ ॥

我的兄长、父亲与亲族,我所侍奉的那位智者,请速告诉我关于那位行事不疲的罗摩之事。

2.72.33

पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।
तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥ २.७२.३३ ॥

对于知晓法的高贵之人,父亲便是长者。我将抓住他的双足;因为他如今便是我的依靠。

2.72.34

धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।
आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥ २.७२.३४ ॥

我的父王——知法、常守法、守信坚定、誓愿坚固、以真实为勇者——对那位高贵之人说了什么?

2.72.36

पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः ।
राम इति राजा विलपन् हा सीते लक्ष्मण इति च ।
स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥ २.७२.३६ ॥

我愿听闻他最后的善言。那位大德之人、有志者中最优秀的,一边哀叹“罗摩啊、悉多啊、罗什曼那啊”,一边前往了至上的世界。

2.72.37

इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव ।
काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥ २.७२.३७ ॥

你的父亲说出了这最后的话,如同大象被绳套所缚,被时间与法所围困。

2.72.38

सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह ।
लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥ २.७२.३८ ॥

愿望已成的人们将会看到罗摩与悉多一同归来,也将看到大臂的罗什曼那再次归来。

2.72.39

तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् ।
विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥ २.७२.३९ ॥

第二位王后听后,仅因听到这喜讯便陷入忧伤;她面容黯淡,又向母亲询问。

2.72.40

क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः ।
लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥ २.७२.४० ॥

那位使考萨雅喜悦增长的正直之人,与兄弟罗什曼那及悉多一同,如今去了何处?

2.72.41

तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे ।
माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥ २.७२.४१ ॥

被如此询问后,母亲开始说出真相;出于对爱子的担忧,她一时间说出了令人不悦的话语。

2.72.42

स हि राज सुतः पुत्र चीर वासा महा वनम् ।
दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥ २.७२.४२ ॥

那位王子,你的儿子,身穿树皮衣,跟随罗什曼那,与毗提诃公主悉多一同,前往大森林檀陀迦。

2.72.43

तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया ।
स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥ २.७२.४३ ॥

婆罗多闻此言而惊恐;因对兄长的品行心存疑虑,又顾念自家宗族的尊严,他开始询问。

2.72.44

कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् ।
कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥ २.७२.४४ ॥

罗摩是否杀害过婆罗门?他是否伤害过任何无辜之人,无论富贵还是贫穷?

2.72.45

कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते ।
कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥ २.७२.४५ ॥

王子是否贪恋他人之妻?若非如此,他为何像杀害胎儿的罪人一样被流放到丹达迦森林?

2.72.46

अथ अस्य चपला माता तत् स्व कर्म यथा तथम् ।
तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥ २.७२.४६ ॥

于是他那性情善变的母亲,如实承认了自己的所作所为,依照女子的天性开始说话。

2.72.47

एवमुक्ता तु कैकेयी भरतेन महात्मना ।
उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥ २.७२.४७ ॥

伟大的婆罗多这样说完后,欢喜的吉开伊——愚蠢却自以为聪慧——说出了这番话。

2.72.48

न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् ।
कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥ २.७२.४८ ॥

罗摩从未夺取任何婆罗门的财物,也未曾伤害任何无辜之人,无论富者还是贫者。

2.72.49

न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति ।
मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥ २.७२.४९ ॥

罗摩连眼睛都不会朝别人的妻子望一眼。然而,儿啊,我一听到罗摩即将受封的消息——

2.72.50

याचितः ते पिता राज्यम् रामस्य च विवासनम् ।
स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥ २.७२.५० ॥

你父亲被请求让出王位并放逐罗摩;他恪守誓言,便照此做了。

2.72.51

रामः च सह सौमित्रिः प्रेषितः सह सीतया ।
तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥ २.७२.५१ ॥

罗摩与萨乌米特里(罗什曼那)与悉多一同被遣走。不见其爱子,这位声名卓著的大地守护者……

2.72.52

पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् ।
त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥ २.७२.५२ ॥

因丧子之痛而憔悴,他已走向死亡。知法者啊,现在请由你来承担王位。

2.72.53

त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् ।
मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥ २.७२.५३ ॥

正是为了你,我才这样做了这一切。孩子,不要悲伤,不要焦虑,依靠坚定吧。

2.72.54

त्वदधीना हि नगरी राज्यम् चैतदनामयम् ।
तत् पुत्र शीघ्रम् विधिना विधिज्ञैः ।
वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः ।
सम्काल्य राजानम् अदीन सत्त्वम् ।
आत्मानम् उर्व्याम् अभिषेचयस्व ॥ २.७२.५४ ॥

唯有在你的治理之下,这座城市与这个王国才得安宁。因此,孩子,请尽快依礼制,与精通仪轨的人及以婆私吒为首的诸位婆罗门一同,安排好国王,并让自己在大地上受灌顶。