蚁垤《罗摩衍那》 · 篇 2.75
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.75.1
दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् ।
नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥ २.७५.१ ॥
过了很久,勇武的婆罗多站起身,恢复了知觉,他含泪的双眼望着悲伤的母亲。
2.75.2
सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् ।
राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥ २.७५.२ ॥
婆罗多在众大臣之中斥责母亲:“我从不贪求王位,也从不与母亲商议。”
2.75.3
अभिषेकम् न जानामि योऽभूद्राज्ञा समीक्षितः ।
विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥ २.७५.३ ॥
国王所决定的那场加冕,我并不知情,因为我与舍睹那在遥远的国度。
2.75.4
वनवासम् न जानामि रामस्यहम् महात्मनः ।
विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥ २.७५.४ ॥
我不知道伟大的罗摩入林流放之事,也不知道萨乌米特里(罗什曼那)与悉多被放逐之事,更不知其经过如何。
2.75.5
तथैव क्रोशतः तस्य भरतस्य महात्मनः ।
कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥ २.७५.५ ॥
伟大的婆罗多正如此悲叹时,考萨利亚辨认出他的声音,便对苏弥特拉说了这番话。
2.75.6
आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः ।
तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥ २.७५.६ ॥
行事残酷的吉凯伊之子婆罗多已经归来。我想见一见那位有远见的婆罗多。
2.75.7
एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा ।
प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥ २.७५.७ ॥
她对须弥陀罗如此说罢,面色苍白,衣衫污浊,颤抖失神,便前往婆罗多所在之处。
2.75.8
स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा ।
प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥ २.७५.८ ॥
于是罗摩的幼弟婆罗多与设睹卢那一同前往憍萨罗所居之处。
2.75.9
ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ ।
पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥ २.७५.९ ॥
于是设睹卢那与婆罗多悲痛地看见憍萨罗为忧愁所苦,倒地失神,便拥抱了她。
2.75.10
रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् ।
भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥ २.७५.१० ॥
二人相聚而哭,那位高尚而心地宽厚的夫人也在哀哭。憍萨罗极度悲伤,便对婆罗多说了这番话。
2.75.11
इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् ।
सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥ २.७५.११ ॥
你这渴望王位的人,得到了这无棘之国。唉!凯克伊以残酷的行为迅速地夺得了它。
2.75.12
प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् ।
कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥ २.७५.१२ ॥
让我的儿子穿着树皮衣被送入森林,残忍的凯克伊在其中看到了什么好处呢?
2.75.13
क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति ।
हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥ २.७५.१३ ॥
甘蒂应当也快速送我前往,那里住着我的儿子、大名远扬的希兰耶那跋。
2.75.14
अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् ।
अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥ २.७५.१४ ॥
或者我自己与苏弥多罗之子一同愉快地出发,将祭火置于前方,前往罗ghava所在之处。
2.75.15
कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि ।
यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥ २.७५.१५ ॥
或者你今天亲自带我到那里去,那位人中之虎、我的儿子正在那里修苦行。
2.75.16
इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् ।
हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥ २.७५.१६ ॥
你这广阔的王国,充满财富与谷物,装满象、马与车,是她为你夺来的。
2.75.17
इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः ।
विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥ २.७५.१७ ॥
就这样,以及许多其他残酷的话语,无罪的婆罗多受到斥责,他剧烈地痛苦,仿佛伤口被针刺了一样。
2.75.18
पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः ।
विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥ २.७५.१८ ॥
那时,心神慌乱的婆罗多跪倒在她脚下;以种种方式哀号之后他昏厥了,随后苏醒过来站立起来。
2.75.19
एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा ।
कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥ २.७५.१९ ॥
此时,泣诉不已、被诸多悲痛所笼罩的考莎利亚,婆罗多合掌对她说了这些话。
2.75.20
आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् ।
विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥ २.७५.२० ॥
尊敬的母亲,您为何责备我这个一无所知、毫无过错的人呢?您知道我对罗怙之子(罗摩)那深厚而坚定的爱。
2.75.21
कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन ।
सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥ २.७५.२१ ॥
愿他的心智永不背离经典——他是依尊者允许而离去的人;他信守诺言,是善人中最优秀者。
2.75.22
प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु ।
हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥ २.७५.२२ ॥
依尊者允许而离去的人——愿他沦为恶人的仆役,向太阳吐唾沫,并用脚踢睡着的母牛。
2.75.23
कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् ।
अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥ २.७५.२३ ॥
依尊者允许而离去的人——愿主人让仆人做成无益大事的那份不义,落在他身上,正如它落在她身上一样。
2.75.24
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।
ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥ २.७५.२४ ॥
伤害如子女般保护臣民之王者的罪过,愿落在依尊者允许而离去的人身上。
2.75.25
बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः ।
अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥ २.७५.२५ ॥
凡不保护臣民而征收六分之一赋税的君王,所招致的罪过愿归于他自身——那位同意阿利耶(罗摩)离去的人。
2.75.26
सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् ।
ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥ २.७५.२६ ॥
凡向苦行者许下祭祀布施之诺,却在祭会上欺骗他们的人,其欺诈之罪愿归于他自身——那位同意阿利耶(罗摩)离去的人。
2.75.27
हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले ।
मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥ २.७५.२७ ॥
在充满象、马、战车与兵器的战斗中,凡不守善人之法的人,愿承受此罪——那位同意阿利耶(罗摩)离去的人。
2.75.28
उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता ।
स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥ २.७५.२८ ॥
愿那颗邪恶之心毁灭这部由智者费力传授、意义极其精微的论典——那位同意阿利耶(罗摩)离去的人。
2.75.29
मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् ।
द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥ २.७५.२९ ॥
愿他永不见那宽肩强臂、光辉如日月、端坐王座之人——那位同意阿利耶(罗摩)离去的人。
2.75.30
पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः ।
गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥ २.७५.३० ॥
愿那无情之人徒然食用乳粥、粗米糕及其他食物,也轻慢长者——那位同意阿利耶(罗摩)离去的人。
2.75.31
गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् ।
मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥ २.७५.३१ ॥
让他用脚踩踏牛只,亲自辱骂长辈,并极度背叛朋友——那个已得到尊贵父亲许可的人。
2.75.32
विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् ।
विवृणोतु स दुष्टात्मा यस्यार्योऽनुमते गतः ॥ २.७५.३२ ॥
那个心怀恶意、已得到尊贵父亲许可的人,若因信任而泄露两人之间所说的任何诽谤,便让他去做吧。
2.75.33
अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः ।
लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥ २.७५.३३ ॥
那个已得到尊贵父亲许可的人,愿他成为不行善、忘恩负义、丧失自尊、毫无羞耻之人,从而在世间遭人憎恶。
2.75.34
पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः ।
स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥ २.७५.३४ ॥
那个已得到尊贵父亲许可的人,愿他在自己家中,被儿子、妻子和仆人环绕,却独自享用美味的食物。
2.75.35
अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।
अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥ २.७५.३५ ॥
那个已得到尊贵父亲许可的人,愿他得不到合适的妻子,无子嗣,未能完成任何合法的仪式而死去。
2.75.36
मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः ।
आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥ २.७५.३६ ॥
那个已得到尊贵父亲许可的人,愿他在妻子们之中悲伤地看到自己的子孙,却不能享尽天年。
2.75.37
राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते ।
भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥ २.७५.३७ ॥
愿他承受那在杀害国王、妇女、孩童或老人之中所说的罪,以及抛弃仆人之中的罪。
2.75.38
लाक्षया मधुमाम्सेन लोहेन च विषेण च ।
सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥ २.७५.३८ ॥
愿他总以漆、蜜与肉、铁与毒来供养仆人;其尊贵的主人已然丧命。
2.75.39
सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे ।
पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥ २.७५.३९ ॥
当令敌方恐惧的战斗来临时,愿他在逃跑中被杀;其尊贵的主人已然丧命。
2.75.40
कपालपाणिः पृथिवीमटताम् चीरसम्वृतः ।
भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥ २.७५.४० ॥
手持骷髅,流浪大地,身披树皮衣,如疯癫者乞食;其尊贵的主人已然丧命。
2.75.41
पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।
काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥ २.७५.४१ ॥
愿他常耽于饮酒、女色与赌博,为欲望与愤怒所制服;其尊贵的主人已然丧命。
2.75.42
यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् ।
अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥ २.७५.४२ ॥
愿他心不向法,而行非法;愿他向不配之人广施恩惠;其尊贵的主人已然丧命。
2.75.43
सम्चितान्यस्य वित्तानि विविधानि सहस्रशः ।
दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥ २.७५.४३ ॥
愿那位同意高贵的罗摩离去之人,其积聚的种种财富成千上万,皆被盗贼抢掠。
2.75.44
उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते ।
तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥ २.७५.४४ ॥
那在两个黄昏时分睡眠者所被认定的罪过,愿落在同意高贵的罗摩离去之人身上。
2.75.45
यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे ।
मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥ २.७५.४५ ॥
纵火者之罪,染指师母者之重罪,背叛朋友之罪——愿此罪归于他。
2.75.46
देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च ।
मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥ २.७५.४६ ॥
愿他永不侍奉诸神、不偿还祖先之债,也不侍奉母亲与父亲——那位同意高贵的罗摩离去之人。
2.75.47
सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा ।
भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥ २.७५.४७ ॥
愿他今日便迅速坠落——从善人之世界、善人之名声、善人所行之事业中坠落——那位同意高贵的罗摩离去之人。
2.75.48
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् ।
दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥ २.७५.४८ ॥
舍弃侍奉母亲之事,愿他停留于灾厄之中——长臂、宽胸者,那位同意高贵的罗摩离去之人。
2.75.49
बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ।
स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥ २.७५.४९ ॥
纵有众多子嗣,愿他贫穷,被热病与疾患所困,永远承受苦痛——那位许可高尚者离去的人。
2.75.50
आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् ।
आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥ २.७५.५० ॥
愿他使同等之人、贫苦之人、仰望求助之人的每一份希望都落空——那位许可高尚者离去的人。
2.75.51
मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः ।
राज्ञो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥ २.७५.५१ ॥
愿他常以欺诈为乐,粗暴、搬弄是非、污秽,畏惧君王,本性不义——那位许可高尚者离去的人。
2.75.52
ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् ।
अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥ २.७५.५२ ॥
愿那恶念之人轻弃其忠贞之妻——她已于经期后沐浴,并在时令中渴望于他——那位许可高尚者离去的人。
2.75.53
धर्मदारान् परित्यज्य परदारान्नि षेवताम् ।
त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥ २.७५.५३ ॥
愿他舍弃正妻,而亲近他人之妻;愿他弃绝对法的喜乐而昏昧无知——那位许可高尚者离去的人。
2.75.54
विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् ।
तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥ २.७५.५४ ॥
愿他自己承受那使婆罗门子嗣被夺的恶行——那位许可高尚者离去的人。
2.75.55
पानीयदूषके पापम् तथैव विषदायके ।
यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥ २.७५.५५ ॥
污染饮水者所犯之罪,以及同样投毒者所犯之罪,愿独自承受此罪的,是那位在尊者许可下离去的人。
2.75.56
ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः ।
बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥ २.७५.५६ ॥
若心术污浊者阻挠为婆罗门所备的供奉,或阻止以幼犊哺育的母牛被挤奶,愿独自承受此罪的,是那位在尊者许可下离去的人。
2.75.57
तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् ।
लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥ २.७५.५७ ॥
若水源就在身边,却以欺骗使渴极之人迷失方向,愿在尊者许可下离去者承受此罪。
2.75.58
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।
तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥ २.७५.५८ ॥
在争执之人中出于偏私而站队旁观者,愿在尊者许可下离去者与此罪相连。
2.75.59
विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः ।
एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥ २.७५.५९ ॥
他正这样安慰失去丈夫与儿子的考莎利亚时,这位王子因悲痛而倒下了。
2.75.60
तथा तु शपथैः कष्टैः शपमानम् अचेतनम् ।
भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥ २.७५.६० ॥
这时,考莎利亚对正在发出痛苦誓言、神志恍惚、被悲痛煎熬的婆罗多说了这些话。
2.75.61
मम दुह्खम् इदम् पुत्र भूयः समुपजायते ।
शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥ २.७५.६१ ॥
孩子啊,我的这份悲痛一次又一次地涌起。你一再发誓,竟在阻断我的生命之气。
2.75.62
दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः ।
वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥ २.७५.६२ ॥
幸而你与罗什曼那的本心未曾偏离正法。孩子啊,你信守诺言,必将得到善人的世界。
2.75.63
इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् ।
परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥ २.७५.६३ ॥
说罢,她把爱兄的大臂者婆罗多拉到膝上,拥抱着他,痛哭起来,悲痛至极。
2.75.64
एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः ।
मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥ २.७५.६४ ॥
这位大德者如此哀叹,为悲痛所苦,心因迷乱和压抑哀伤而纷乱不堪。
2.75.65
लालप्यमानस्य विचेतनस्य ।
प्रनष्ट बुद्धेः पतितस्य भूमौ ।
मुहुर् मुहुर् निह्श्वसतः च दीर्घम् ।
सा तस्य शोकेन जगाम रात्रिः ॥ २.७५.६५ ॥
他哀号不已,失去知觉,神志迷失,倒在地上,一次又一次地深深叹息,那一夜便在悲伤中过去了。