蚁垤《罗摩衍那》 · 篇 2.76
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.76.1
तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् ।
उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥ २.७६.१ ॥
悲痛煎熬的凯刻伊之子婆罗多,被言辞最优的辩者、圣仙筏私湿多如此告知。
2.76.2
अलम् शोकेन भद्रम् ते राज पुत्र महा यशः ।
प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥ २.७६.२ ॥
悲伤够了!愿你平安,大名鼎鼎的王子。现在,在适当的时候,为人主举行后事之礼。
2.76.3
वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः ।
प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥ २.७६.३ ॥
婆罗多听了筏私湿多的话,镇定下来,通晓法度的他下令举行了所有的丧葬之礼。
2.76.4
उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् ।
आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥ २.७६.४ ॥
从油缸中捞出,他被安放在地上;那面色发黄的君王,仿佛在熟睡。
2.76.5
सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते ।
ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥ २.७६.५ ॥
把他安放在饰满各种珠宝的上好床榻上,悲痛万分的王子随即为十车王哀哭起来。
2.76.6
किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते ।
विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥ २.७६.६ ॥
大王啊!在我远离、尚未归来之时,您做了什么决定?流放了通晓法度的罗摩与大力的罗什曼那之后,您又做了什么?
2.76.7
क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् ।
हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥ २.७६.७ ॥
大王啊,您抛弃这悲痛的民众,失去人中狮子、行事毫不费力的罗摩,将要去往何处?
2.76.8
योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे ।
त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥ २.७६.८ ॥
大王啊,您升天之后,父亲啊,罗摩又进入森林,在这座城中谁来保障您的福祉与安全?
2.76.9
विधवा पृथिवी राजम्स् त्वया हीना न राजते ।
हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥ २.७६.९ ॥
大王啊,失去您的大地如同寡妇,不再光彩。这座城在我看来如同没有月亮的夜晚。
2.76.10
एवम् विलपमानम् तम् भरतम् दीन मानसम् ।
अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥ २.७६.१० ॥
婆罗多心情悲伤,如此哀叹之时,大仙瓦希什塔又说了这些话。
2.76.11
प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः ।
तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥ २.७६.११ ॥
大臂者啊,为这位人民之主应当举行的丧葬之礼,请不慌乱、不迟疑地完成。
2.76.12
तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् ।
ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥ २.७६.१२ ॥
婆罗多说“就这样吧”,尊重瓦希什塔之言,并督促祭司、家祭司与导师们尽快各司其职。
2.76.13
ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः ।
ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥ २.७६.१३ ॥
放置在人主火堂之外的物品,由祭司和主祭者依照仪轨取走。
2.76.14
शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् ।
बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥ २.७६.१४ ॥
随后,侍从们哽咽落泪、心神沮丧,将失去知觉的国王置于轿上抬走。
2.76.15
हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च ।
प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥ २.७६.१५ ॥
沿路撒下黄金、精金和各色衣物,众人走在国王前面。
2.76.16
चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा ।
देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥ २.७६.१६ ॥
取来檀香、沉香、树脂、娑罗、莲木和天松之木,其他人便筑起了火葬的柴堆。
2.76.17
गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् ।
ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥ २.७६.१७ ॥
在那里献上各种香料与其他物品之后,祭司们将国王安放在柴堆正中。
2.76.18
तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः ।
जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥ २.७६.१८ ॥
同样,祭司们向火中献上供物,随后为他念诵咒语;诵唱《娑摩》的人则依照经典在那里吟唱娑摩颂歌。
2.76.19
शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः ।
नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥ २.७६.१९ ॥
众女乘轿与车辇,依其身份,由长者们簇拥着,从城中出发。
2.76.20
प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् ।
स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥ २.७६.२० ॥
祭司们绕行于躺在火葬柴堆上的国王,右侧朝向他;而悲痛欲绝的众女以考萨利雅为首,也同样照行。
2.76.21
क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे ।
आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥ २.७६.२१ ॥
那里传来女子的哭声,如同克劳𪃡鸟的鸣叫;那时成千上万悲痛的人们哀号呼喊。
2.76.22
ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः ।
यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥ २.७६.२२ ॥
于是众贵妇哭泣而无力,反复哀悼,从车上下到萨拉尤河岸。
2.76.23
कृत उदकम् ते भरतेन सार्धम् ।
नृप अन्गना मन्त्रि पुरोहिताः च ।
पुरम् प्रविश्य अश्रु परीत नेत्रा ।
भूमौ दश अहम् व्यनयन्त दुह्खम् ॥ २.७६.२३ ॥
与婆罗多一同奉上水供之后,国王的众妃、大臣与祭司入城,泪满双眼,在地上以悲痛度过了十日。