蚁垤《罗摩衍那》 · 篇 2.79
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.79.1
ततः प्रभात समये दिवसे अथ चतुर्दशे ।
समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥ २.७९.१ ॥
此后黎明时分,第十四日,主持国政的大臣们聚集起来,对婆罗多说了这些话。
2.79.2
गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः ।
रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥ २.७९.२ ॥
我们最尊敬的导师与父亲十车王已升天而去,在他流放了长子罗摩与大力的罗什曼那之后。
2.79.3
त्वम् अद्य भव नो राजा राज पुत्र महा यशः ।
सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥ २.७९.३ ॥
伟大的王子啊,请现在就成为我们的国王;这无主之国依血统本属于您,不可任其荒废。
2.79.4
आभिषेचनिकम् सर्वम् इदम् आदाय राघव ।
प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥ २.७९.४ ॥
罗怙之后啊,请携带这一切登基的器物;您的族人与各行会正在等待您,王子啊。
2.79.5
राज्यम् गृहाण भरत पितृ पैतामहम् महत् ।
अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥ २.७९.५ ॥
婆罗多啊,请接受您祖先传下的这伟大国土;为自己行加冕礼,庇护我们吧,人中之杰。
2.79.6
आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् ।
भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥ २.७९.६ ॥
婆罗多向所有登基器物行了敬绕之礼,恪守誓愿,对众人作出回答。
2.79.7
ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः ।
न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥ २.७९.७ ॥
长兄为王,历来适合我们的家族。诸位明智之人,你们不应当这样对我说。
2.79.8
रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः ।
अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥ २.७९.८ ॥
罗摩是我们的长兄,他必将成为大地之主。至于我,我将在森林中居住十四年。
2.79.9
युज्यताम् महती सेना चतुर् अन्ग महा बला ।
आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥ २.७९.९ ॥
应当整备一支庞大、强盛的四军。我要把长兄罗诃婆(拉古之后)罗摩从森林中迎回来。
2.79.10
आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् ।
पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥ २.७९.१० ॥
这些加冕所用的器物都已备齐。我将把它们置于前方,为了罗摩前往森林。
2.79.11
तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् ।
आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥ २.७९.११ ॥
就在那里,用摆在面前的加冕器物为那位人中猛虎行灌顶礼,然后我把罗摩从森林中迎回,就像从祭祀中迎回火神一样。
2.79.12
न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् ।
वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥ २.७९.१२ ॥
这个背负着母亲污名的王国,我不会满足私欲而据为己有。我将居住在荒野的森林中,而罗摩一人将成为君王。
2.79.13
क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च ।
रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥ २.७९.१३ ॥
让工匠修整道路,平坦之处与崎岖之处皆然;让熟悉险路的守卫们沿路紧随。
2.79.14
एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् ।
प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥ २.७९.१४ ॥
为罗摩而如此说话的王子,众人都以光彩而无与伦比的言辞作答。
2.79.15
एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् ।
यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥ २.७९.१५ ॥
愿莲花吉祥天女(Padmā, Śrī)降临于你身上,王子啊,你如此说话,因为你愿把大地让给长兄。
2.79.16
अनुत्तमम् तत् वचनम् नृप आत्मज ।
प्रभाषितम् सम्श्रवणे निशम्य च ।
प्रहर्षजाः तम् प्रति बाष्प बिन्दवो ।
निपेतुर् आर्य आनन नेत्र सम्भवाः ॥ २.७९.१६ ॥
众人听了王子这番无与伦比的话语,欢喜所生的泪滴,从高贵者的面庞与眼中涌出,落在他身上。
2.79.17
ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः ।
सामात्याः सपरिषदो वियात शोकाः ।
पन्थानम् नर वर भक्तिमान् जनः च ।
व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥ २.७९.१७ ॥
人中之最,他们听了你的话,欢喜不已,与大臣及会众一同摆脱了忧愁,说道:依你之言,已为道路委派了虔诚的民众与工匠行会。