蚁垤《罗摩衍那》 · 篇 2.88
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.88.1
तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः ।
इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥ २.८८.१ ॥
婆罗多仔细听完这一切后,与大臣们一同来到茵古迪树根下,看见了罗摩的那张床。
2.88.2
अब्रवीद् जननीः सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमौ इदम् अस्य विमर्दितम् ॥ २.८८.२ ॥
他对所有母亲说:“这位大德之人曾在这里的地上度过一夜;这就是他压过的床。”
2.88.3
महा भाग कुलीनेन महा भागेन धीमता ।
जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥ २.८८.३ ॥
“诸位有大福的母亲!罗摩出身高贵,是大福、智慧的十车王之子,不应当睡在地上。”
2.88.4
अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये ।
शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥ २.८८.४ ॥
“那位人中虎罗摩,过去总是躺在堆积的鹿皮和精美的垫子上,如今怎会躺在光秃秃的地上?”
2.88.5
प्रासाद अग्र विमानेषु वलभीषु च सर्वदा ।
हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥ २.८८.५ ॥
“他常常睡在宫殿的高层、楼阁和平台上,睡在金银铺成的地面上,睡在饰有精美垫子的房间里。”
2.88.6
पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु ।
पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥ २.८८.६ ॥
“他睡在装饰着花堆的房间里,房中弥漫着檀香与沉香的芬芳,明亮如白云,回荡着鹦鹉群的啼鸣。”
2.88.7
प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।
उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥ २.८८.७ ॥
居住在最上等的殊胜宫殿中,清凉而芬芳,如同须弥山,墙壁以黄金装饰,
2.88.8
गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः ।
मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥ २.८८.८ ॥
他总是被歌唱与乐器的声响、精美饰物的叮当声以及上好鼓声唤醒。
2.88.9
बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः ।
गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥ २.८८.९ ॥
啊,制伏敌人者!到了适当的时辰,许多吟游诗人、御者和颂赞者以恰当的诗歌和赞颂来称扬他。
2.88.10
अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा ।
मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥ २.८८.१० ॥
此事在世间难以置信,于我看来并非真实。我的心意确实迷惑;我的想法是,这不过是一场梦。
2.88.11
न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् ।
यत्र दाशरथी रामो भूमौ एवम् शयीत सः ॥ २.८८.११ ॥
确实没有比时间更强大的神明,因为十车王之子罗摩竟这样躺在地上。
2.88.12
विदेह राजस्य सुता सीता च प्रिय दर्शना ।
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ २.८८.१२ ॥
毗提诃王之女、容貌可爱的悉多,即十车王的爱妻与儿媳,也躺在地上。
2.88.13
इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् ।
स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥ २.८८.१३ ॥
这是我哥哥的床铺,因为在坚硬的地面上,他的身体把草完全压倒,才变成了这样。
2.88.14
मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा ।
तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥ २.८८.१४ ॥
我想那时佩戴着饰物的悉多正是睡在这张床上,因为这里那里还粘着金色的水滴。
2.88.15
उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा ।
तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥ २.८८.१५ ॥
这里悉多的上衣当时明显挂住了,同样,这些丝线也粘连着闪闪发光。
2.88.16
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।
सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥ २.८८.१६ ॥
我想丈夫的床铺很舒适,所以这位年轻、修行、柔弱、贞洁的弥提罗女(悉多)并不知道苦痛。
2.88.17
हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम ।
ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥ २.८८.१७ ॥
唉!我是多么残忍,竟让罗伽婆与妻子同在,却像无依无靠的人一样躺在这样的床上。
2.88.18
सार्वभौम कुले जातः सर्व लोक सुख आवहः ।
सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥ २.८८.१८ ॥
他生于统治天下的王族,给一切世界带来快乐,为所有人所爱,舍弃了他最珍爱、无与伦比的王国……
2.88.19
कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः ।
सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥ २.८८.१९ ॥
身如青莲、目色泛红、令人悦目、本应享受安乐的罗怙之裔,如今为何沦为应受苦难者,躺卧在地上?
2.88.20
धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः ।
भ्रातरम् विषमे काले यो राममनुवर्तते ॥ २.८८.२० ॥
具足吉相、大福之人罗什曼那,真是有福!在艰难之时,他仍追随兄长罗摩。
2.88.21
सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् ।
वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥ २.८८.२१ ॥
随夫入林的毗提诃公主,确已心愿圆满;而我们失去了那位大德之人,个个陷入了疑惑。
2.88.22
अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा ।
गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥ २.८८.२२ ॥
十车王已升天,罗摩又入林中寄身,大地在我眼中便如无舵之舟,空荡荡的。
2.88.23
न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् ।
वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥ २.८८.२३ ॥
虽然他住在林中,却无人即便在心中也觊觎这片由他双臂之力守护的大地。
2.88.24
शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् ।
अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥ २.८८.२४ ॥
王都无人守卫:防务空虚,马与象无人约束,城门洞开,王城毫无防护。
2.88.25
अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् ।
शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥ २.८८.२५ ॥
敌人不敬畏一个军队士气低落、兵力削弱、处境危险且无人守卫的国家;它便成为他们的猎物,如同掺了毒的食物。
2.88.26
अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा ।
फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥ २.८८.२६ ॥
从今天起,我将睡在地上或草上,永远以果实和根茎为食,戴着发结,穿着树皮衣。
2.88.27
तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने ।
तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥ २.८८.२७ ॥
为了他,我将在森林中愉快地再住一段时间;若放弃那个誓言,他的话就会成为虚假。
2.88.28
वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति ।
लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥ २.८८.२८ ॥
为兄长而留下的舍睹那将跟随我;而高贵者将与罗什曼那一同守护阿逾陀。
2.88.29
अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः ।
अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् ।
प्रसाद्यमानः शिरसा मया स्वयम् ।
बहु प्रकारम् यदि न प्रपत्स्यते ॥ २.८८.२९ ॥
在阿逾陀,婆罗门将为迦古特斯塔之裔(罗摩)举行灌顶;愿诸神使我心中这一愿望成真——即便他,经我亲自多方低头恳求,仍不肯接受——。
2.88.30
ततोन्रुवत्सयामि चिराय राघवम् ।
वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥ २.८८.३० ॥
那时我将为罗怙婆(罗摩)在森林中长久居住;他既是林中漂泊之人,见我受苦,便不会忽视我。