蚁垤《罗摩衍那》 · 篇 3.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.14.1
अथ पंचवटीम् गच्चन्न् अन्तरा रघुनन्दनः ।
आससाद महाकायम् गृध्रम् भीम पराक्रमम् ॥ ३.१४.१ ॥
随后,罗伽后裔的欢喜者罗摩在前往般遮婆提的途中,遇见一只身躯庞大、威力可怖的秃鹫。
3.14.2
तम् दृष्ट्वा तौ महाभागौ वनस्थम् राम लक्ष्मणौ ।
मेनाते राक्षसम् पक्षिम् ब्रुवाणौ को भवान् इति ॥ ३.१४.२ ॥
两位大福之人罗摩与罗什曼那见林中这只鸟,以为是罗刹之鸟,便问道:“你是谁?”
3.14.3
स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव ।
उवाच वत्स माम् विद्धि वयस्यम् पितुर् आत्मनः ॥ ३.१४.३ ॥
他仿佛以甜美温和的言语使二人欢喜,说道:“孩子,你要知道我是你父亲的朋友。”
3.14.4
स तम् पितृ सखम् मत्वा पूजयामास राघवः ।
स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥ ३.१४.४ ॥
罗迦婆视他为父亲的朋友,便加以礼敬;然后平静地询问他的家族与名字。
3.14.5
रामस्य वचनम् श्रुत्वा कुलम् आत्मानम् एव च ।
आचचक्षे द्विजः तस्मै सर्वभूत समुद्भवम् ॥ ३.१४.५ ॥
听了罗摩的话,这位再生者便向他讲述了自己的家族与自身,其中关联着众生的起源。
3.14.6
पूर्वकाले महाबाहो ये प्रजापतयो अभवन् ।
तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥ ३.१४.६ ॥
大臂的罗伽婆啊,往昔时代存在的众生之主,我将从头为你一一讲述,请听。
3.14.7
कर्दमः प्रथमः तेषाम् विकृतः तद् अनन्तरम् ।
शेषः च संश्रयः चैव बहु पुत्रः च वीर्यवान् ॥ ३.१४.७ ॥
他们之中第一位是迦尔摩;其次是毗迦罗多,然后是舍沙与三室罗耶,多子者与有力者。
3.14.8
स्थाणुर् मरीचिर् अत्रिः च क्रतुः चैव महाबलः ।
पुलस्त्यः च अंगिराः चैव प्रचेताः पुलहः तथा ॥ ३.१४.८ ॥
斯塔努、摩利质、阿特里,以及大力的迦图;还有补罗私底、安吉罗、普罗切塔斯与补罗诃。
3.14.9
दक्षो विवस्वान् अपरो अरिष्टनेमिः च राघव ।
कश्यपः च महातेजाः तेषाम् आसीत् च पश्चिमः ॥ ३.१४.९ ॥
达刹、毗婆娑之子(毗婆娑)、另一位阿梨湿吒涅弥,哦罗怙婆,以及大光明的迦叶波;其中最后的是迦叶波。
3.14.10
प्रजापतेः तु दक्षस्य बभूवुर् इति विश्रुतम् ।
षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥ ३.१४.१० ॥
众所周知,生主达刹生有六十个女儿,罗摩啊,她们都极为光荣、声名远扬。
3.14.11
कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः ।
अदितिम् च दितिम् चैव दनूम् अपि च कालकाम् ॥ ३.१४.११ ॥
迦叶波娶了其中八位纤腰少女:阿提提、提提,还有檀奴与迦罗迦。
3.14.12
ताम्राम् क्रोध वशाम् चैव मनुम् च अप्य् अनलाम् अपि ।
ताः तु कन्याः ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥ ३.१४.१२ ॥
还有坦摩罗、愤怒支配者、摩奴,以及阿那罗;迦叶波得到这些少女后,心中欢喜,又说道。
3.14.13
पुत्रामः त्रैलोक्य भर्तॄन् वै जनयिष्यथ मत् समान् ।
अदितिः तन् मना राम दितिः च दनुर् एव च ॥ ३.१४.१३ ॥
罗摩啊,“你们将生下三界之主、与我相同的儿子。”阿底提专心于此,狄提与陀奴也是如此。
3.14.14
कालका च महाबाहो शेषाः तु अमनसो अभवन् ।
अदित्याम् जज्ञिरे देवाः त्रयः त्रिंशत् अरिंदम ॥ ३.१४.१४ ॥
大臂者啊,迦拉迦与其余诸女则心不在焉。三十三位天神生于阿底提,降敌者啊。
3.14.15
आदित्या वसवो रुद्रा अश्विनौ च परंतप ।
दितिः तु अजनयत् पुत्रान् दैत्याम् तात यशस्विनः ॥ ३.१४.१५ ॥
阿底提亚、婆苏、楼陀罗以及双马童——焚敌者啊。然而狄提生下了名为提耶的著名儿子,亲爱的。
3.14.16
तेषाम् इयम् वसुमती पुरा आसीत् स वन अर्णवा ।
दनुः तु अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥ ३.१४.१६ ॥
往昔,此大地连同森林与海洋都属于他们;然而达奴生下了一个儿子,马颈,降敌者。
3.14.17
नरकम् कालकम् चैव कालका अपि व्यजायत ।
क्रौन्चीम् भासीम् तथा श्येनीम् धृतराष्ट्रीम् तथा शुकीम् ॥ ३.१४.१७ ॥
迦拉迦也生下了那罗迦与迦拉迦;又生下了鹤女、鸱女、鹰女、持国女与鹦鹉女。
3.14.18
ताम्रा तु सुषुवे कन्याः पंच एता लोकविश्रुताः ।
उलूकान् जनयत् क्रौन्ची भासी भासान् व्यजायत ॥ ३.१४.१८ ॥
达姆拉生下五个女儿,闻名三界。鹤女生下猫头鹰;鸱女生下鸱鹰。
3.14.19
श्येनी श्येनाम् च गृध्राम च व्यजायत सुतेजसः ।
धृतराष्ट्री तु हंसाम् च कलहंसाम् च सर्वशः ॥ ३.१४.१९ ॥
舍耶尼生下鹰和秃鹫,皆为光辉的后代;提哩多罗湿陀利生下各种天鹅和鹤。
3.14.20
चक्रवाकाम् च भद्रम् ते विजज्ञे सा अपि भामिनी ।
शुकी नताम् विजज्ञे तु नताया विनता सुता ॥ ३.१४.२० ॥
愿你吉祥;那位美丽的女子也生下了赤麻鸭。舒齐生下那多,那多之女是毗娜塔。
3.14.21
दश क्रोधवशा राम विजज्ञे अपि आत्मसंभवाः ।
मृगीम् च मृगमंदाम् च हरीम् भद्रमदाम् अपि ॥ ३.१४.२१ ॥
罗摩啊,忿怒自母生下十子:鹿女、鹿慢、猴女,还有贤喜。
3.14.22
मातंगीम् अथ शार्दूलीम् श्वेताम् च सुरभीम् तथा ।
सर्व लक्षण संपन्नाम् सुरसाम् कद्रुकाम् अपि ॥ ३.१४.२२ ॥
随后生下摩única(摩坦伽)、沙尔杜利、白女和苏罗毗,以及具备一切吉相的苏罗娑与迦卢卡。
3.14.23
अपत्यम् तु मृगाः सर्वे मृग्या नरवरोत्तम ।
ऋक्षाः च मृगमंदायाः सृमराः चमराः तथा ॥ ३.१४.२३ ॥
人中之最啊,鹿女所生皆为鹿;鹿慢所生则为熊、鹿与牦牛。
3.14.24
ततः तु इरावतीम् नाम जज्ञे भद्रमदा सुताम् ।
तस्याः तु ऐरावतः पुत्रो लोकनाथो महागजः ॥ ३.१४.२४ ॥
随后,贤喜生下一女名伊罗跋提;她的儿子是爱拉婆多,世界之主,大象。
3.14.25
हर्याः च हरयो अपत्यम् वानराः च तपस्विनः ।
गोलांगूलाः च शार्दूली व्याघ्राम् च अजनयत् सुतान् ॥ ३.१४.२५ ॥
哈里雅生下了哈里(猴子);又生出了猿猴、苦行者和金尾猴;沙尔杜利生下了老虎。
3.14.26
मातंग्याः तु अथ मातन्गा अपत्यम् मनुज ऋषभ ।
दिशागजम् तु श्वेत काकुत्स्थ श्वेता व्यजनयत् सुतम् ॥ ३.१४.२६ ॥
摩滕伽生下了摩滕伽(大象)。人中之杰,迦古特斯塔啊,白陀生下了方位象白象之子。
3.14.27
ततो दुहितरौ राम सुरभिर् द्वे वि अजायत ।
रोहिणीम् नाम भद्रम् ते गन्धर्वीम् च यशस्विनीम् ॥ ३.१४.२७ ॥
然后,罗摩啊,苏罗跋生下两个女儿:对你吉祥的罗希尼,以及光荣的乾闼婆女。
3.14.28
रोहिणि अजनयद् गावो गन्धर्वी वाजिनः सुतान् ।
सुरसा अजनयन् नागान् राम कद्रूः च पन्नगान् ॥ ३.१४.२८ ॥
罗希尼生下了牛,乾闼婆女生下了马的后代。罗摩啊,苏罗萨生下了龙蛇,迦德卢生下了毒蛇。
3.14.29
मनुर् मनुष्यान् जनयत् कश्यपस्य महात्मनः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च मनुजर्षभ ॥ ३.१४.२९ ॥
伟大的迦叶之子摩奴生育了人类:婆罗门、刹帝利、吠舍和首陀罗。人中之杰啊!
3.14.30
मुखतो ब्राह्मणा जाता उरसः क्षत्रियाः तथा ।
ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्रा इति श्रुतिः ॥ ३.१४.३० ॥
婆罗门从口中生出,刹帝利从胸中生出;同样,吠舍从大腿生出,首陀罗从脚生出——天启如此说。
3.14.31
सर्वान् पुण्य फलान् वृक्षान् अनला अपि व्यजायत ।
विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा ॥ ३.१४.३१ ॥
所有结出善果的树木也都由阿那罗所生。毗娜塔与其孙女输基,以及迦德卢与她的姐妹苏罗娑。
3.14.32
कद्रूर् नाग सहस्रम् तु विजज्ञे धरणीधरन् ।
द्वौ पुत्रौ विनतायाः तु गरुडो अरुण एव च ॥ ३.१४.३२ ॥
迦德卢生下了托起大地的一千条蛇。毗娜塔则有两个儿子:迦鲁达与阿卢那。
3.14.33
तस्मात् जातो अहम् अरुणात् संपातिः च मम अग्रजः ।
जटायुर् इति माम् विद्धि श्येनी पुत्रम् अरिंदम ॥ ३.१४.३३ ॥
我由阿卢那所生,我的哥哥是桑帕蒂。降敌者啊,你当知我为希耶尼之子迦达由。
3.14.34
सो अहम् वास सहायः ते भविष्यामि यदि इच्छसि ।
इदम् दुर्गम् हि कान्तारम् मृग राक्षस सेवितम् सीताम् च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥ ३.१४.३४ ॥
若你愿意,我愿作你居处的伴侣。此林险峻难行,常有野兽与罗刹出没。亲爱的,待你与罗什曼那同行之时,我将守护悉多。
3.14.35
जटायुषम् तु प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतो अभवत् ।
पितुर् हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनः पुनः ॥ ३.१४.३५ ॥
罗怙婆(罗摩)敬礼迦达由,欢喜拥抱,并躬身行礼。这位自律的王子一再听迦达由讲述他与父亲的友谊。
3.14.36
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा ।
जगाम ताम् पंचवटीम् सलक्ष्मणो रिपून् दिधक्षन् शलभान् इव अनलः ॥ ३.१४.३६ ॥
罗摩将迈提利之女悉多托付给那强大的鸟,与渴望如火焚飞蛾般焚毁仇敌的罗什曼那一同前往般遮婆提。