蚁垤《罗摩衍那》 · 篇 4.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.18.1
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्।
परुषं वालिना रामो निहतेन विचेतसा ॥ ४.१८.१ ॥
受伤而心神迷乱的婆梨如此粗暴地质问,罗摩便谦恭地说出了合于法义、有益的话。
4.18.2
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्।
उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ॥ ४.१८.२ ॥
他如失去光辉的太阳,如倾尽雨水的乌云,如熄灭的火焰,这位猴群之最说完话后便平静下来。
4.18.3
धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम्।
अधिक्षिप्तस्तदा रामः पश्चाद् वालिनमब्रवीत् ॥ ४.१८.३ ॥
此时,具足法、义与德行的罗摩,遭到猴王婆梨的斥责,随后对婆梨说了这番话。
4.18.4
धर्ममर्थं च कामं च समयं चापि लौकिकम्।
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥ ४.१८.४ ॥
你不知法义、利欲与世间常规,婆梨啊,今日竟因童稚无知在此责备我,这是为何?
4.18.5
अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान्।
सौम्य वानरचापल्यात् त्वं मां वक्तुमिहेच्छसि ॥ ४.१८.५ ॥
温和的人啊,你不曾询问有智慧的人、长者和经师所认可的人,却因猴子般的轻浮,想在这里与我说话。
4.18.6
इक्ष्वाकूणामियं भूमिः सशैलवनकानना।
मृगपक्षिमनुष्याणां निग्रहानुग्रहेष्वपि ॥ ४.१८.६ ॥
这片大地连同山林与园囿,属于甘蔗王族的诸王;对于兽类、鸟类与人类,无论惩罚还是恩赐,权力都在他们手中。
4.18.7
तां पालयति धर्मात्मा भरतः सत्यवानृजुः।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥ ४.१८.७ ॥
心地正直、诚实无欺的婆罗多守护着她;他通晓法、欲与利的真义,既施刑罚,也施恩惠。
4.18.8
नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम्।
विक्रमश्च यथा दृष्टः स राजा देशकालवित् ॥ ४.१८.८ ॥
其人之中,策略与谦逊、真实与勇武皆稳固确立,如人所见,此王通晓地点与时机。
4.18.9
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः।
चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः ॥ ४.१८.९ ॥
依从他合乎法的命令,我们与其他诸王为求法的延续,巡行于整个大地。
4.18.10
तस्मिन् नृपतिशार्दूले भरते धर्मवत्सले।
पालयत्यखिलां पृथ्वीं कश्चरेद् धर्मविप्रियम् ॥ ४.१८.१० ॥
当那位王中猛虎、爱好法的婆罗多守护整个大地时,谁还会行违法之事?
4.18.11
ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः।
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ॥ ४.१८.११ ॥
我们安守至高的本分,以婆罗多的命令为先,依法制裁偏离正道之人。
4.18.12
त्वं तु संक्लिष्टधर्मश्च कर्मणा च विगर्हितः।
कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ॥ ४.१८.१२ ॥
而你法已败坏,因行为而受责,以欲望为主导,不立于王道之上。
4.18.13
ज्येष्ठो भ्राता पिता वापि यश्च विद्यां प्रयच्छति।
त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः ॥ ४.१८.१३ ॥
长兄、父亲,以及授予知识者——这三者应被认作父亲,因为他们行于法道之上。
4.18.14
यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः।
पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारणम् ॥ ४.१८.१४ ॥
幼子、自己的弟子,以及因德行而受赞誉者——这三者应当视同儿子;而此处的原因正在于法。
4.18.15
सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम।
हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम् ॥ ४.१८.१५ ॥
啊,跳跃者!善人之法微妙难知;唯有居于一切众生心中的自我,才知善与恶。
4.18.16
चपलश्चपलैः सार्धं वानरैरकृतात्मभिः।
जात्यन्ध इव जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु किम् ॥ ४.१८.१६ ॥
你本性轻浮,与同样轻浮、不自制的猴子商议,如同天生盲人与天生盲人同在——你究竟在看什么?
4.18.17
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते।
नहि मां केवलं रोषात् त्वं विगर्हितुमर्हसि ॥ ४.१८.१७ ॥
然而我要向你说明这些话的明确含义;仅因愤怒而责难我,于你并不相宜。
4.18.18
तदेतत् कारणं पश्य यदर्थं त्वं मया हतः।
भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ॥ ४.१८.१८ ॥
看看这就是我杀你的原因:你舍弃了永恒的法,与兄长之妻同居。
4.18.19
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः।
रुमायां वर्तसे कामात् स्नुषायां पापकर्मकृत् ॥ ४.१८.१९ ॥
你占据着这位大德须羯哩婆的王国,却因贪欲与你的儿媳鲁摩同居,你这作恶之人。
4.18.20
तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर।
भ्रातृभार्याभिमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः ॥ ४.१८.२० ॥
故此,你这违背法度、随欲妄为的猴子,因触犯兄嫂之罪,此罚已被定下。
4.18.21
नहि लोकविरुद्धस्य लोकवृत्तादपेयुषः।
दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ॥ ४.१८.२१ ॥
猴群之主啊,对于违背世间常规、背离世俗行为之人,我除了惩罚之外,看不到别的制止之法。
4.18.22
न च ते मर्षये पापं क्षत्रियोऽहं कुलोद्गतः।
औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ॥ ४.१८.२२ ॥
我生于高贵的刹帝利族,不会宽恕你的这一罪过,无论是与亲妹妹,还是与弟弟之妻。
4.18.23
प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः।
भरतस्तु महीपालो वयं त्वादेशवर्तिनः ॥ ४.१८.२३ ॥
人若因欲望而如此行事,其罚被说为死刑。婆罗多是守护大地的国王,而我们是遵从他命令的人。
4.18.24
त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम्।
गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् ॥ ४.१८.२४ ॥
你已违背法度,怎能置之不理?守护法度的智者,又怎能放过违背对兄长之义务的人?
4.18.25
भरतः कामयुक्तानां निग्रहे पर्यवस्थितः।
वयं तु भरतादेशावधिं कृत्वा हरीश्वर।
त्वद्विधान् भिन्नमर्यादान् निग्रहीतुं व्यवस्थिताः ॥ ४.१८.२५ ॥
婆罗多坚定地惩罚那些被欲望所支配的人。至于我们,猴王啊,在婆罗多命令的范围内行事,受命惩罚像你这样越界之人。
4.18.26
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा।
दारराज्यनिमित्तं च निःश्रेयस्करः स मे ॥ ४.१८.२६ ॥
我与须羯哩婆的友谊,与我和罗什曼那的一样。为了妻子与王国,它于我有至善之益。
4.18.27
प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ।
प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ॥ ४.१८.२७ ॥
当时我在猴子们面前许下了诺言。像我这样的人,怎能忽视诺言?
4.18.28
तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंश्रितैः।
शासनं तव यद् युक्तं तद् भवाननुमन्यताम् ॥ ४.१८.२८ ॥
因此,基于这些以法为本的重大理由,愿你认可那适合你的命令。
4.18.29
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः।
वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता ॥ ४.१८.२९ ॥
你的惩罚在各方面都应视为法。应当帮助朋友,但只应以法为念。
4.18.30
शक्यं त्वयापि तत्कार्यं धर्ममेवानुवर्तता।
श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ।
गृहीतौ धर्मकुशलैस्तथा तच्चरितं मया ॥ ४.१८.३० ॥
只要遵循法,那件事对你也是可行的。据闻摩奴吟唱过两首喜爱善行的诗句;精通法者已采纳,我也依此而行。
4.18.31
राजभिर्धृतदण्डाश्च कृत्वा पापानि मानवाः।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ४.१८.३१ ॥
犯下罪过的人若被君王施以刑罚,便得清净,如同善人与行善者一样升入天界。
4.18.32
शासनाद् वापि मोक्षाद् वा स्तेनः पापात् प्रमुच्यते।
राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम् ॥ ४.१८.३२ ॥
盗贼或因受罚,或因被释放,而脱离罪过;但不惩罚罪人的君王,便承担那罪过。
4.18.33
आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्।
श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥ ४.१८.३३ ॥
我的尊贵的曼陀多曾希求可怕的灾难,正如当一位苦行者犯罪时,你也犯下了罪过。
4.18.34
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः।
प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ॥ ४.१८.३४ ॥
其他疏忽的君王也曾犯罪,但他们行赎罪之礼,由此污垢得以平息。
4.18.35
तदलं परितापेन धर्मतः परिकल्पितः।
वधो वानरशार्दूल न वयं स्ववशे स्थिताः ॥ ४.१८.३५ ॥
故不必悲伤;他的死是依法裁定的。啊,猴族中的猛虎,我们并非自主。
4.18.36
शृणु चाप्यपरं भूयः कारणं हरिपुंगव।
तच्छ्रुत्वा हि महद् वीर न मन्युं कर्तुमर्हसि ॥ ४.१८.३६ ॥
请再听另一个缘由,猴中之最。勇士啊,听后你不该动怒。
4.18.37
न मे तत्र मनस्तापो न मन्युर्हरिपुंगव।
वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ॥ ४.१८.३७ ॥
猴中之最啊,那里我既无心中的悲痛,也无愤怒。人们以网、套索和各种陷阱捕猎。
4.18.38
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान्।
प्रधावितान् वा वित्रस्तान् विस्रब्धानतिविष्ठितान् ॥ ४.१८.३८ ॥
无论隐藏还是显露,他们捕获许多鹿——无论它们是在奔逃、惊恐、毫无戒备,还是静立不动。
4.18.39
प्रमत्तानप्रमत्तान् वा नरा मांसाशिनो भृशम्।
विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥ ४.१८.३९ ॥
无论是疏忽还是警觉,即使背过脸去,食肉的人也大量射杀它们;这其中并无过错。
4.18.40
यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः।
तस्मात् त्वं निहतो युद्धे मया बाणेन वानर।
अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगो ह्यसि ॥ ४.१८.४० ॥
这里连精通法义的王仙也去狩猎。因此,猴啊,你在战斗中被我的箭射倒了,因为你是树上的动物,无论你是否交战或是否抵抗。
4.18.41
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च।
राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥ ४.१८.४१ ॥
猴中之最啊,国王乃是稀有之法、生命与吉祥的施予者,这毫无疑问。
4.18.42
तान् न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्।
देवा मानुषरूपेण चरन्त्येते महीतले ॥ ४.१८.४२ ॥
不应伤害他们,不应辱骂,不应侮辱,不应说任何不悦耳的话;他们是以人形在大地上游行的神明。
4.18.43
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः।
विदूषयसि मां धर्मे पितृपैतामहे स्थितम् ॥ ४.१८.४३ ॥
而你不明达法义,只凭愤怒行事,诋毁我——我所行的,是父辈与祖辈所传之法。
4.18.44
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्।
न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः ॥ ४.१८.४४ ॥
罗摩如此说后,婆黎大为痛苦;但他并未看到罗怙后裔有何过失,而他对法的决心更加坚定。
4.18.45
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः।
यत् त्वमात्थ नरश्रेष्ठ तत् तथैव न संशयः ॥ ४.१८.४५ ॥
于是猴王合掌对罗摩说道:“人中之最,你所说的正是如此,毫无疑问。”
4.18.46
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात्।
यदयुक्तं मया पूर्वं प्रमादाद् वाक्यमप्रियम् ॥ ४.१८.४६ ॥
卑微之人不能对尊贵者回应;而我先前因不慎所说的那些不当、不悦耳的话,是错的。
4.18.47
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव।
त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः।
कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया ॥ ४.१८.४७ ॥
即便如此,罗怙后裔啊,你也不应归咎于我。你通达所见之事的真实本性,专心于众生的福祉;在辨明因果之时,你的心智清澈而不衰。
4.18.48
मामप्यवगतं धर्माद् व्यतिक्रान्तपुरस्कृतम्।
धर्मसंहितया वाचा धर्मज्ञ परिपालय ॥ ४.१८.४८ ॥
你也已认定我偏离了法,应受裁决;哦,知法者,请以合乎法的言辞护佑我。
4.18.49
बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः।
उवाच रामं सम्प्रेक्ष्य पङ्कलग्न इव द्विपः ॥ ४.१८.४९ ॥
瓦利哽咽含泪,声音嘶哑,望着罗摩,缓缓开口,宛如陷入泥淖的大象。
4.18.50
न चात्मानमहं शोचे न तारां नापि बान्धवान्।
यथा पुत्रं गुणज्येष्ठमङ्गदं कनकाङ्गदम् ॥ ४.१८.५० ॥
我不为自己悲伤,也不为塔拉或亲族悲伤,我所悲伤的,是我那德行最长、戴着金臂钏的儿子安伽达。
4.18.51
स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः।
तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥ ४.१८.५१ ॥
见不到我,他将悲苦;自幼受宠的他,将像被饮干了水的池塘一样枯竭。
4.18.52
बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः।
तारेयो राम भवता रक्षणीयो महाबलः ॥ ४.१८.५२ ॥
他是个孩子,心智未成熟,是我唯一心爱的儿子。罗摩啊,塔拉那位大力之子,应当由你护佑。
4.18.53
सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्।
त्वं हि गोप्ता च शास्ता च कार्याकार्यविधौ स्थितः ॥ ४.१८.५३ ॥
请将你高尚的心意放在须羯哩婆和安伽达身上吧。你是守护者,也是统治者,立足于应做与不应做的律法之中。
4.18.54
या ते नरपते वृत्तिर्भरते लक्ष्मणे च या।
सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि ॥ ४.१८.५४ ॥
人主啊,你对待婆罗多与罗什曼那的品行,大王,你应当同样地思量如何对待须羯哩婆与安伽达。
4.18.55
मद्दोषकृतदोषां तां यथा तारां तपस्विनीम्।
सुग्रीवो नावमन्येत तथावस्थातुमर्हसि ॥ ४.१८.५५ ॥
正如须利婆不应轻视因我的过失而蒙受罪责的苦行女塔拉,你也应当保持如此的态度。
4.18.56
त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम्।
त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ॥ ४.१८.५६ ॥
唯有蒙受你的恩惠,处于你的掌控之下,顺从你的心意,才能治理这个国家。
4.18.57
शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम्।
त्वत्तोऽहं वधमाकांक्षन् वार्यमाणोऽपि तारया ॥ ४.१८.५७ ॥
征服天界、统治大地都是可能的;我渴望死于你手,尽管塔拉曾极力阻拦。
4.18.58
सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः।
इत्युक्त्वा वानरो रामं विरराम हरीश्वरः ॥ ४.१८.५८ ॥
他说:“我与我的兄弟须利婆决斗而来。”说完,猴王便在罗摩面前沉默了。
4.18.59
स तमाश्वासयद् रामो वालिनं व्यक्तदर्शनम्।
साधुसम्मतया वाचा धर्मतत्त्वार्थयुक्तया ॥ ४.१८.५९ ॥
罗摩以善人认可、充满法之真义与道理的言辞,安慰了如今清楚显现的婆黎。
4.18.60
न संतापस्त्वया कार्य एतदर्थं प्लवङ्गम।
न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम।
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ ४.१८.६० ॥
猴子啊,你不该为此忧伤。猴中之最,你无需为我们或你自己担忧;为了你,我们已依法定下坚定的决心。
4.18.61
दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश्चापि दण्ड्यते।
कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥ ४.१८.६१ ॥
施罚于应受罚者之人,与受罚之人——二者之目的因作为与因由而成就,皆不陷于忧苦。
4.18.62
तद् भवान् दण्डसंयोगादस्माद् विगतकल्मषः।
गतः स्वां प्रकृतिं धर्म्यां दण्डदिष्टेन वर्त्मना ॥ ४.१८.६२ ॥
故尔因此罚之缠系而脱离罪垢,循刑罚所定之道,已归复汝合于法的本性。
4.18.63
त्यज शोकं च मोहं च भयं च हृदये स्थितम्।
त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम् ॥ ४.१८.६३ ॥
汝且舍弃心中所存的忧愁、迷惑与恐惧,猴中之最!此定命,汝不能违越。
4.18.64
यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर।
तथा वर्तेत सुग्रीवे मयि चापि न संशयः ॥ ४.१८.६४ ॥
猴王啊,正如安陀陀常常如此待你,他也会如此待须羯哩婆,也待我——此事毫无疑问。
4.18.65
स तस्य वाक्यं मधुरं महात्मनः
समाहितं धर्मपथानुवर्तितम्।
निशम्य रामस्य रणावमर्दिनो
वचः सुयुक्तं निजगाद वानरः ॥ ४.१८.६५ ॥
闻那善战之罗摩、大德者依法之道所言,柔和而安定,那猴子便说出了合宜的话。
4.18.66
शराभितप्तेन विचेतसा मया
प्रभाषितस्त्वं यदजानता विभो।
इदं महेन्द्रोपमभीमविक्रम
प्रसादितस्त्वं क्षम मे नरेश्वर ॥ ४.१८.६६ ॥
我为箭所伤,心神迷乱,不知而对你说了那些话,主上啊。你之勇猛可畏如因陀罗,人主啊,请宽恕我。