蚁垤《罗摩衍那》 · 篇 4.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.45.1
सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः।
समस्तांश्चाब्रवीद् राजा रामकार्यार्थसिद्धये ॥ ४.४५.१ ॥
猴王苏羯罗召集所有猴子,这位跳跃者中的首领对他们全体说话,以成就罗摩的使命。
4.45.2
एवमेतद् विचेतव्यं भवद्भिर्वानरोत्तमैः।
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः ॥ ४.४५.२ ॥
诸位猴中之最,你们应当这样去寻找;明白了主上严厉的命令,猴中之雄啊。
4.45.3
शलभा इव संछाद्य मेदिनीं सम्प्रतस्थिरे।
रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः ॥ ४.४५.३ ॥
他们如蝗虫般铺满大地而出发;罗摩与罗什曼那则住在那座普拉斯拉瓦那山上。
4.45.4
प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः।
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ॥ ४.४५.४ ॥
为寻得悉多,他等待了一个月;而北方那美丽的方向,被山中之王环绕。
4.45.5
प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा।
पूर्वां दिशं प्रतिययौ विनतो हरियूथपः ॥ ४.४५.५ ॥
那时,勇猛的猴子舍陀跋利立即出发;猴军的首领谦恭地向东方而去。
4.45.6
ताराङ्गदादिसहितः प्लवगः पवनात्मजः।
अगस्त्याचरितामाशां दक्षिणां हरियूथपः ॥ ४.४५.६ ॥
与多罗、安伽陀等人一同,风之子这位跳跃的猴子、猴军的首领,向阿伽斯提所行的南方而去。
4.45.7
पश्चिमां च दिशं घोरां सुषेणः प्लवगेश्वरः।
प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥ ४.४५.७ ॥
可怖的西方,猴王苏shena出发了;他是猴群中的猛虎,前往由伐楼那守护的方位。
4.45.8
ततः सर्वा दिशो राजा चोदयित्वा यथातथम्।
कपिसेनापतिर्वीरो मुमोद सुखितः सुखम् ॥ ४.४५.८ ॥
于是,国王依照各自的情况派遣猴众前往各方;猴军统帅这位英雄心中欢喜,快乐满怀。
4.45.9
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः।
स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे ॥ ४.४५.९ ॥
在国王这样的催促下,各位猴群统领各自朝自己的方位,急速出发了。
4.45.10
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः।
क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः ॥ ४.४५.१० ॥
猴子们怒吼、高声呼喊、咆哮、尖啸,奔跑着,大声嘶鸣,那些大力的猴子发出各种喧声。
4.45.11
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः।
आनयिष्यामहे सीतां हनिष्यामश्च रावणम् ॥ ४.४५.११ ॥
在国王这样的催促下,猴群统领们说道:“我们将把悉多带回来,并杀死罗波那。”
4.45.12
अहमेको वधिष्यामि प्राप्तं रावणमाहवे।
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ ४.४५.१२ ॥
我将独自杀死前来交战的罗波那;然后,迅速将他击溃,便带走悉多,那位遮那迦之女。
4.45.13
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति।
एक एवाहरिष्यामि पातालादपि जानकीम् ॥ ४.४५.१३ ॥
让颤抖、因疲惫而憔悴的她现在就留在这里,与你们同在。我独自一人,即便从地底深处也要把耶那基带回来。
4.45.14
विधमिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन्।
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥ ४.४५.१४ ॥
我要摧毁树木,劈开山岳,撕裂大地,搅动海洋。
4.45.15
अहं योजनसंख्यायाः प्लवेयं नात्र संशयः।
शतयोजनसंख्यायाः शतं समधिकं ह्यहम् ॥ ४.४५.१५ ॥
我能跨越以由旬计量的距离,此事毫无疑问。即便超过一百由旬,我也能跨越百倍之远。
4.45.16
भूतले सागरे वापि शैलेषु च वनेषु च।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥ ४.४५.१६ ॥
无论在大地、大海、山岭、森林,还是在地底深处,我的行动都不会受阻。
4.45.17
इत्येकैकस्तदा तत्र वानरा बलदर्पिताः।
ऊचुश्च वचनं तस्य हरिराजस्य संनिधौ ॥ ४.४५.१७ ॥
于是,那些以力量自傲的猴子们,一个接一个,在猴王面前说出了自己的话。