蚁垤《罗摩衍那》 · 篇 4.65
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.65.1
अथाङ्गदवचः श्रुत्वा ते सर्वे वानरर्षभाः।
स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम् ॥ ४.६५.१ ॥
诸位猴族首领闻听安伽达之言,皆如公牛般雄健,各自热切地谈论自己远行的能力,依次在那里发言。
4.65.2
गजो गवाक्षो गवयः शरभो गन्धमादनः।
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ॥ ४.६५.२ ॥
迦阇、迦婆迦沙、迦婆耶、沙罗婆、乾陀摩陀那、摩因陀、双毗陀、苏舍那,以及耆婆梵(亦)发言。
4.65.3
आबभाषे गजस्तत्र प्लवेयं दशयोजनम्।
गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥ ४.६५.३ ॥
迦阇在那里说:“我能跃过十由旬。”
4.65.4
शरभो वानरस्तत्र वानरांस्तानुवाच ह।
त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥ ४.६५.४ ॥
猴子沙罗婆对那些猴子说:“诸位善跃者,我将行三十由旬。”
4.65.5
ऋषभो वानरस्तत्र वानरांस्तानुवाच ह।
चत्वारिंशद् गमिष्यामि योजनानां न संशयः ॥ ४.६५.५ ॥
猴子利沙婆对那些猴子说:“我将行四十由旬,毫无疑问。”
4.65.6
वानरांस्तु महातेजा अब्रवीद् गन्धमादनः।
योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥ ४.६५.६ ॥
光辉卓著的乾陀摩陀那对诸猴说:“我将行五十由旬,毫无疑问。”
4.65.7
मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह।
योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥ ४.६५.७ ॥
那里的猴子曼陀(Maindа)对那些猴子说:“我能跳过六十多由旬。”
4.65.8
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत।
गमिष्यामि न संदेहः सप्ततिं योजनान्यहम् ॥ ४.६५.८ ॥
于是大光辉的द्विविद回答道:“我必定前往,毫无疑问;我将行七十由旬。”
4.65.9
सुषेणस्तु महातेजाः सत्त्ववान् कपिसत्तमः।
अशीतिं प्रतिजानेऽहं योजनानां पराक्रमे ॥ ४.६५.९ ॥
大光辉、有勇气的猴中之最苏舍那说:“我以我的勇力发誓,我将跨越八十由旬。”
4.65.10
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च।
ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ॥ ४.६५.१० ॥
当他们都在那里说话,并且赞同了他们每一个人之后,他们之中最年长的जाम्बवान回答道。
4.65.11
पूर्वमस्माकमप्यासीत् कश्चिद् गतिपराक्रमः।
ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ॥ ४.६५.११ ॥
从前我们之中也有人具备迅捷与勇力;但现在我们已经走过了人生的岁月之岸。
4.65.12
किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम्।
यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ॥ ४.६५.१२ ॥
然而事已如此,此事不可置之不顾——猴王与罗摩为此都已下定决心。
4.65.13
साम्प्रतं कालमस्माकं या गतिस्तां निबोधत।
नवतिं योजनानां तु गमिष्यामि न संशयः ॥ ४.६५.१३ ॥
现在请听我们的道路:毫无疑问,我将前行九十由旬。
4.65.14
तांश्च सर्वान् हरिश्रेष्ठाञ्जाम्बवानिदमब्रवीत्।
न खल्वेतावदेवासीद् गमने मे पराक्रमः ॥ ४.६५.१४ ॥
江婆梵对所有那些猴中之最说道:我的勇力在于远行,岂止如此而已。
4.65.15
मया वैरोचने यज्ञे प्रभविष्णुः सनातनः।
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम् ॥ ४.६५.१५ ॥
往昔,在毗卢遮那的祭祀中,我绕行那永恒而威力无边的主,他正以三步之形行走。
4.65.16
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः।
यौवने च तदासीन्मे बलमप्रतिमं परम् ॥ ४.६५.१६ ॥
如今我已年老,跃起之勇也迟缓;然而当年少时,我的力量无与伦比,至高无上。
4.65.17
सम्प्रत्येतावदेवाद्य शक्यं मे गमने स्वतः।
नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति ॥ ४.६५.१७ ॥
如今今日,我自己前往只能到这里;仅凭这些,此事的成功是不能实现的。
4.65.18
अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा।
अनुमान्य तदा प्राज्ञो जाम्बवन्तं महाकपिः ॥ ४.६५.१८ ॥
于是心怀高尚之志的安迦陀回答;然后那位有智慧的大猴安迦陀,恭敬地向江婆梵说道。
4.65.19
अहमेतद् गमिष्यामि योजनानां शतं महत्।
निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम् ॥ ४.६५.१९ ॥
我将前往这百由旬的遥远路程,但能否返回,我并无把握。
4.65.20
तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः।
ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥ ४.६५.२० ॥
善辞令的遮婆梵对那位猴中之最说:"猴熊之中最优秀的,你前往的能力是显而易见的。"
4.65.21
कामं शतसहस्रं वा नह्येष विधिरुच्यते।
योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ ४.६५.२१ ॥
"一百或十万由旬,这并非定则;你有能力前往并返回数由旬的路程。"
4.65.22
नहि प्रेषयिता तात स्वामी प्रेष्यः कथंचन।
भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम ॥ ४.६५.२२ ॥
"亲爱的,主人本身绝不是被派遣之人;由你来派遣这些人,猴中之最。"
4.65.23
भवान् कलत्रमस्माकं स्वामिभावे व्यवस्थितः।
स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप ॥ ४.६५.२३ ॥
"你是我们的依靠,立于主人之位;主人便是军队的依托。这就是道路,烧灼敌人者啊。"
4.65.24
अपि वै तस्य कार्यस्य भवान् मूलमरिंदम।
तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् ॥ ४.६५.२४ ॥
"降伏敌人者啊,那件事的根本也正是你;所以亲爱的,你应当永远像妻子一样被珍视守护。"
4.65.25
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः।
मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः ॥ ४.६५.२५ ॥
这是知晓事务者的策略:必须守护事业的根本。根本存在,一切德行与成果才能生起并成就。
4.65.26
तद् भवानस्य कार्यस्य साधनं सत्यविक्रम।
वुद्धिविक्रमसम्पन्नो हेतुरत्र परंतप ॥ ४.६५.२६ ॥
因此,真勇者啊,你便是此事的成就之器。具备智慧与勇力的你,正是此中的关键,灼敌者啊。
4.65.27
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम।
भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ॥ ४.६५.२७ ॥
你既是我们的师长,也是师长之子,猴中最杰出者啊。依靠你,我们才真正有能力成就此事。
4.65.28
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः।
प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ॥ ४.६५.२८ ॥
对大智的遮婆缚那说完这番话后,猴王婆梨之子大猴安伽达回答道:
4.65.29
यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः।
पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ॥ ४.६५.२९ ॥
若我不去,其他猴中翘楚也不去,那我们便只得再度绝食至死了。
4.65.30
नह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः।
तत्रापि गत्वा प्राणानां न पश्ये परिरक्षणम् ॥ ४.६५.३० ॥
若不完成那位智慧的猴主之命,即便前往彼地,我也看不到保全性命的办法。
4.65.31
स हि प्रसादे चात्यर्थकोपे च हरिरीश्वरः।
अतीत्य तस्य संदेशं विनाशो गमने भवेत् ॥ ४.६५.३१ ॥
他乃猴王之主,无论欢喜或大怒,若越过其命令而离去,必招致毁灭。
4.65.32
तत्तथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः।
तद् भवानेव दृष्टार्थः संचिन्तयितुमर्हति ॥ ४.६५.३२ ॥
因此此事别无他途;你既已明了其目的,理应深思。
4.65.33
सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः।
जाम्बवानुत्तमं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥ ४.६५.३३ ॥
于是那位英雄、猴中之雄的熊王(Jāmbavān),在回应了安伽达之后,对安伽达说了这句高妙之言。
4.65.34
तस्य ते वीर कार्यस्य न किंचित् परिहास्यते।
एष संचोदयाम्येनं यः कार्यं साधयिष्यति ॥ ४.६५.३४ ॥
勇士啊,你的此事一丝一毫也不会被荒废。我便激励这位将能完成此事的人。
4.65.35
ततः प्रतीतं प्लवतां वरिष्ठ-
मेकान्तमाश्रित्य सुखोपविष्टम्।
संचोदयामास हरिप्रवीरो
हरिप्रवीरं हनुमन्तमेव ॥ ४.६५.३५ ॥
于是那位猴中英雄,跳跃者中最杰出、名声显赫、独坐安适的人,便激励了猴中英雄哈奴曼。