蚁垤《罗摩衍那》 · 篇 5.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.2.1
स सागरमनाधृष्यमतिक्रम्य महाबलः।
त्रिकूटस्य तटे लंकां स्थितः स्वस्थो ददर्श ह ॥ ५.२.१ ॥
这位大力者跨越了不可逾越的大海,站在三峰山的岸边,从容地望见了楞伽城。
5.2.2
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्।
अभिवृष्टस्ततस्तत्र बभौ पुष्पमयो हरिः ॥ ५.२.२ ॥
随后,被树木抛洒的花雨浇遍全身,这位勇猛的猴子在那里满身繁花,光彩照人。
5.2.3
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः।
अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥ ५.२.३ ॥
那位光辉的猴子虽已渡过百由旬,但以其无上勇力,在那里并不喘息,也不觉疲惫。
5.2.4
शतान्यहं योजनानां क्रमेयं सुबहून्यपि।
किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ॥ ५.२.४ ॥
我尚能越过数百由旬,甚至更多;那么横越这大海被量度的百由旬又算什么呢?
5.2.5
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः।
जगाम वेगवाँल्लंकां लङ्घयित्वा महोदधिम् ॥ ५.२.५ ॥
他是勇士中的最优者,也是跳跃者中的至尊,疾速如风,跃过大海,向楞伽而去。
5.2.6
शाद्वलानि च नीलानि गन्धवन्ति वनानि च।
मधुमन्ति च मध्येन जगाम नगवन्ति च ॥ ५.२.६ ॥
穿行于青草丰茂的草地、深蓝而芬芳的森林,以及甘甜如蜜、树木繁茂的林地之间,他继续前行。
5.2.7
शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः।
अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः ॥ ५.२.७ ॥
越过树木覆盖的山峦和繁花盛开的林带,光辉的哈奴曼,群猴中最勇敢者,继续前行。
5.2.8
स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च।
स नगाग्रे स्थितां लंकां ददर्श पवनात्मजः ॥ ५.२.८ ॥
站在那座山上,环顾森林与园林,风之子看见了位于山顶的楞伽城。
5.2.9
सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्।
प्रियालान् मुचुलिन्दांश्च कुटजान् केतकानपि ॥ ५.२.९ ॥
还有娑罗树、迦尼迦罗树、花开繁盛的椰枣树、普利亚拉树、穆楚林达树、库塔贾树和凯塔卡树。
5.2.10
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा।
असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥ ५.२.१० ॥
还有满溢芬芳的普利扬古、尼帕树、七叶树、阿桑那树、考维达拉树,以及盛开的卡拉维拉树。
5.2.11
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि।
पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥ ५.२.११ ॥
还有被花朵重压而低垂、布满花苞、群鸟聚集、树梢被风摇动的树木。
5.2.12
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलावृताः।
आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान् ॥ ५.२.१२ ॥
还有群鹅与卡兰达瓦鸭聚集、被莲花与青莲覆盖的阶梯水井,种种宜人的游乐之地,以及各式各样的池塘。
5.2.13
संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः।
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ ५.२.१३ ॥
猴中之象哈努曼看见了美丽的园林,里面密密地长满各种树木,四季都开花结果。
5.2.14
समासाद्य च लक्ष्मीवाँल्लंकां रावणपालिताम्।
परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥ ५.२.१४ ॥
猴中之象哈努曼抵达罗波国,那里由罗波那守护,城外壕沟中开满了红莲与青莲,装饰得十分华美。
5.2.15
सीतापहरणात् तेन रावणेन सुरक्षिताम्।
समन्ताद् विचरद्भिश्च राक्षसैरुग्रधन्वभिः ॥ ५.२.१५ ॥
因为劫走了悉多,罗波那把罗刹城守得十分严密,四面都有凶猛的弓箭手罗刹往来巡逻。
5.2.16
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्।
गृहैश्च गिरिसंकाशैः शारदाम्बुदसंनिभैः ॥ ५.२.१६ ॥
这座美丽的大城被金墙环绕,房屋高大如山,如秋日的云朵。
5.2.17
पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम्।
अट्टालकशताकीर्णां पताकाध्वजशोभिताम् ॥ ५.२.१७ ॥
罗刹城被洁白高耸的街道环绕,塔楼数以百计,旗帜与旌幡装点其间。
5.2.18
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविराजितैः।
ददर्श हनुमाँल्लंकां देवो देवपुरीमिव ॥ ५.२.१८ ॥
哈努曼看见罗刹城,金色的神门闪耀,藤蔓成行,宛如天神之城。
5.2.19
गिरिमूर्ध्नि स्थितां लंकां पाण्डुरैर्भवनैः शुभैः।
ददर्श स कपिः श्रीमान् पुरीमाकाशगामिव ॥ ५.२.१९ ॥
这位光辉的猴子看见了位于山顶的楞伽城,城中白色壮丽的殿宇,宛如一座在天空中行进的城市。
5.2.20
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा।
प्लवमानामिवाकाशे ददर्श हनुमान् कपिः ॥ ५.२.२० ॥
楞伽城由罗刹王守护,由毗首羯磨所建,仿佛浮在空中,猴子哈努曼望见了它。
5.2.21
वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम्।
शतघ्नीशूलकेशान्तामट्टालकावतंसकाम् ॥ ५.२.२१ ॥
城墙与堞垛是她的腰身,广阔的水域与林木是她的衣裳,百杀器与长矛是她发梢,望楼则是她的饰物。
5.2.22
मनसेव कृतां लंकां निर्मितां विश्वकर्मणा।
द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥ ५.२.२२ ॥
猴子来到北门,望着这座仿佛由心念所造、由毗首羯磨所建的楞伽城,开始沉思。
5.2.23
कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम्।
ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ ५.२.२३ ॥
宛如凯拉萨的居所,仿佛在天空上描绘,又仿佛以那高耸的殊胜殿宇托住苍穹。
5.2.24
सम्पूर्णा राक्षसैर्घोरैर्नागैर्भोगवतीमिव।
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥ ५.२.२४ ॥
充满凶猛的罗刹,犹如充满蛇群的婆伽婆提;不可思议,构造精良,明晰,昔日曾是俱毗罗所居。
5.2.25
दंष्ट्राभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः।
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥ ५.२.२५ ॥
由许多手持长矛与铁棒、獠牙毕露的勇猛恐怖罗刹守卫,如同布满毒蛇的洞穴。
5.2.26
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः।
रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ ५.२.२६ ॥
看到那座城市严密的防守和大海,又想到可怕的敌人罗波那,这只猴子开始沉思。
5.2.27
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः।
नहि युद्धेन वै लंका शक्या जेतुं सुरैरपि ॥ ५.२.२७ ॥
即便猴子们来到这里也将毫无用处,因为楞伽不可能以战争夺取,即便诸神也不能。
5.2.28
इमां त्वविषमां लंकां दुर्गां रावणपालिताम्।
प्राप्यापि सुमहाबाहुः किं करिष्यति राघवः ॥ ५.२.२८ ॥
即便到达这座由罗波那守护、坚固难近的楞伽,大臂的罗怙后裔又能做什么?
5.2.29
अवकाशो न साम्नस्तु राक्षसेष्वभिगम्यते।
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ ५.२.२९ ॥
在罗刹之中看不到和解的机会,也看不到赠予、离间或战争的机会。
5.2.30
चतुर्णामेव हि गतिर्वानराणां तरस्विनाम्।
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ ५.२.३० ॥
这些迅猛的猴子的出路,只系于四人:波利之子(安伽陀)、那罗、我自己,以及智慧的国王(须羯哩婆)。
5.2.31
यावज्जानामि वैदेहीं यदि जीवति वा न वा।
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥ ५.२.३१ ॥
在知道毗提诃是否still活着之前,我将在见到遮那伽之女之后,就在那里思考。
5.2.32
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः।
गिरेः शृङ्गे स्थितस्तस्मिन् रामस्याभ्युदयं ततः ॥ ५.२.३२ ॥
于是那位猴中象在山峰之巅站立片刻,思量着罗摩的兴盛。
5.2.33
अनेन रूपेण मया न शक्या रक्षसां पुरी।
प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ ५.२.३३ ॥
以这种形态,我无法进入罗刹的城市,那里有残暴而强大的罗刹把守。
5.2.34
महौजसो महावीर्या बलवन्तश्च राक्षसाः।
वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥ ५.२.३४ ॥
那些大力、大勇、强大的罗刹,我在寻找遮那吉时都必须加以欺骗。
5.2.35
लक्ष्यालक्ष्येण रूपेण रात्रौ लंकापुरी मया।
प्राप्तकालं प्रवेष्टुं मे कृत्यं साधयितुं महत् ॥ ५.२.३५ ॥
趁夜,以可见与不可见之形,我进入楞伽城的时机已到,去完成我的大事。
5.2.36
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः।
हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः ॥ ५.२.३६ ॥
见那座连天神与阿修罗也难以攻克的城池,哈奴曼一次次叹息,陷入沉思。
5.2.37
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्।
अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥ ५.२.३७ ॥
用什么办法才能见到被罗刹王、恶毒的罗波那所隐藏的遮那迦之女摩提利?
5.2.38
न विनश्येत् कथं कार्यं रामस्य विदितात्मनः।
एकामेकस्तु पश्येयं रहिते जनकात्मजाम् ॥ ५.२.३८ ॥
如何才能使自知之明的罗摩之事不致败坏?我独自一人,又如何能在僻静处见到遮那迦之女?
5.2.39
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ५.२.३९ ॥
违背时地的事情会败坏,尤其是托付给慌乱的使者时,正如日出时黑暗消散。
5.2.40
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते।
घातयन्तीह कार्याणि दूताः पण्डितमानिनः ॥ ५.२.४० ॥
在利与害之间,即使决断坚定的心智也不光彩。这里,自以为智者的使者会毁坏所托之事。
5.2.41
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत्।
लङ्घनं च समुद्रस्य कथं नु न भवेद् वृथा ॥ ५.२.४१ ॥
如何使此事不致败坏,如何使慌乱不至发生?跨越大海之举又如何不致徒劳?
5.2.42
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः।
भवेद् व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥ ५.२.४२ ॥
若我被罗刹所见,那么自知之明的罗摩此事便会落空,他欲使罗波那覆灭的意图也会落空。
5.2.43
नहि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः।
अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ ५.२.४३ ॥
不被罗刹察觉,便不可能在任何地方停留;即使化作罗刹之形也不行,何况以其他任何形貌。
5.2.44
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम।
नह्यत्राविदितं किंचिद् रक्षसां भीमकर्मणाम् ॥ ५.२.४४ ॥
依我之见,即便是风在此也无法不被察觉,因为在此,凡事都逃不过行凶作恶的罗刹。
5.2.45
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः।
विनाशमुपयास्यामि भर्तुरर्थश्च हास्यति ॥ ५.२.४५ ॥
若我以本来面目留在此地,必遭毁灭,主人的使命也将落空。
5.2.46
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः।
लंकामभिपतिष्यामि राघवस्यार्थसिद्धये ॥ ५.२.४६ ॥
因此,我将缩小身形,夜里降临楞伽,以成就罗ghava的使命。
5.2.47
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्।
प्रविश्य भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ ५.२.४७ ॥
夜里进入罗波那那座难以接近的都城,遍入其每一座宫殿,我将见到遮那伽之女。
5.2.48
आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ ५.२.४८ ॥
那时,这位英雄渴望见到毗提诃,急切地期盼着与她相见。
5.2.49
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः।
वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः ॥ ५.२.४९ ॥
太阳落山、夜幕降临之时,风之子哈努曼收缩身体,变得如猫一般大小,形貌奇异。
5.2.50
प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान्।
प्रविवेश पुरीं रम्यां प्रविभक्तमहापथाम् ॥ ५.२.५० ॥
黄昏时分,英勇的哈努曼迅速跃起,进入了那座美丽的城市,城中大道划分得井然有序。
5.2.51
प्रासादमालाविततां स्तम्भैः काञ्चनसंनिभैः।
शातकुम्भनिभैर्जालैर्गन्धर्वनगरोपमाम् ॥ ५.२.५१ ॥
那座城市布满了成排的宫殿,柱子如金,窗格如纯金,宛如乾闼婆之城。
5.2.52
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्।
तलैः स्फटिकसंकीर्णैः कार्तस्वरविभूषितैः ॥ ५.२.५२ ॥
他看见那座大城,有七层、八层的楼宇,地面镶嵌水晶,以黄金装饰。
5.2.53
वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः।
तैस्तैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ ५.२.५३ ॥
那些以琉璃宝石装饰、饰有珍珠网络的宅邸,光彩照耀,是此地罗刹们的居所。
5.2.54
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्।
लंकामुद्योतयामासुः सर्वतः समलंकृताम् ॥ ५.२.५४ ॥
罗刹们奇妙的金色牌楼照亮了四面华美装饰的楞伽城。
5.2.55
अचिन्त्यामद्भुताकारां दृष्ट्वा लंकां महाकपिः।
आसीद् विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ ५.२.५५ ॥
望见那不可思议、形状奇异的楞伽城,大猴子既忧伤又欢喜,急切地想要见到悉多。
5.2.56
स पाण्डुराविद्धविमानमालिनीं
महार्हजाम्बूनदजालतोरणाम्।
यशस्विनीं रावणबाहुपालितां
क्षपाचरैर्भीमबलैः सुपालिताम् ॥ ५.२.५६ ॥
他望见那座楞伽城,环绕着一串串洁白高耸的楼阁,门楼以珍贵的金网装饰,声名显赫,由罗波那的臂膀守护,又有力量可怖的夜行罗刹严密看守。
5.2.57
चन्द्रोऽपि साचिव्यमिवास्य कुर्वं-
स्तारागणैर्मध्यगतो विराजन्।
ज्योत्स्नावितानेन वितत्य लोका-
नुत्तिष्ठतेऽनेकसहस्ररश्मिः ॥ ५.२.५७ ॥
仿佛担任罗波那的大臣,月亮也在星群之中熠熠生辉,升起时将月光的华盖铺展于诸世界之上——那是千道光芒的神。
5.2.58
शङ्खप्रभं क्षीरमृणालवर्ण-
मुद्गच्छमानं व्यवभासमानम्।
ददर्श चन्द्रं स कपिप्रवीरः
पोप्लूयमानं सरसीव हंसम् ॥ ५.२.५८ ॥
那位猿中英雄望见月亮:如海螺般光泽,色如牛奶与莲丝,正在升起,明亮闪耀,好似湖中浮动的天鹅。