蚁垤《罗摩衍那》 · 篇 5.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.9.1
तस्यालयवरिष्ठस्य मध्ये विमलमायतम्।
ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः ॥ ५.९.१ ॥
在那些最好的住所之中,风之子哈努曼看见了一座洁净宽广、最为殊胜的宫殿。
5.9.2
अर्धयोजनविस्तीर्णमायतं योजनं महत्।
भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम् ॥ ५.९.२ ॥
罗刹之主的巨大宫殿宽半由旬,长一由旬,林立着许多楼阁。
5.9.3
मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्।
सर्वतः परिचक्राम हनूमानरिसूदनः ॥ ५.९.३ ॥
寻找那双目宽大的维德赫之女悉多,灭敌者哈努曼四处巡行。
5.9.4
उत्तमं राक्षसावासं हनुमानवलोकयन्।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥ ५.९.४ ॥
哈努曼一边观望罗刹们最好的居所,那光辉的哈努曼便来到了罗刹之主的府邸。
5.9.5
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च।
परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः ॥ ५.९.५ ॥
它被四牙与三牙的大象所环绕,宽敞而不拥挤,由高举兵器的守卫护卫着。
5.9.6
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्।
आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥ ५.९.६ ॥
罗波那的府邸中充满了罗刹女与他的妻妾,并被强掳而来的公主们所环绕。
5.9.7
तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम्।
वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥ ५.९.७ ॥
那片海洋布满鳄鱼和摩伽罗,充满timiṅgila与jhaṣa鱼,被风的疾速搅动,如同被蛇群翻腾的大海。
5.9.8
या हि वैश्रवणे लक्ष्मीर्या चन्द्रे हरिवाहने।
सा रावणगृहे रम्या नित्यमेवानपायिनी ॥ ५.९.८ ॥
居于毗沙罗门(俱毗罗)之中的吉祥天女,居于月亮之中的吉祥天女,以及居于骑着驼黄色骏马的因陀罗之中的吉祥天女——正是这同一位美丽的吉祥天女,永远居于罗波那的宫殿,从不离去。
5.9.9
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च।
तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह ॥ ५.९.९ ॥
国王俱毗罗、阎摩与伐楼那所拥有的富贵,如此富贵,或胜过它的富贵,就在这里罗刹的府第之中。
5.9.10
तस्य हर्म्यस्य मध्यस्थवेश्म चान्यत् सुनिर्मितम्।
बहुनिर्यूहसंयुक्तं ददर्श पवनात्मजः ॥ ५.९.१० ॥
在那座宫殿之中,风之子看见另一座建造精巧的居所,其上有许多突出的阳台。
5.9.11
ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद् विश्वकर्मणा।
विमानं पुष्पकं नाम सर्वरत्नविभूषितम् ॥ ५.९.११ ॥
名为补湿波迦的神圣天车,是毗首羯摩在天界为梵天所造,以各种宝石装饰。
5.9.12
परेण तपसा लेभे यत् कुबेरः पितामहात्।
कुबेरमोजसा जित्वा लेभे तद् राक्षसेश्वरः ॥ ५.९.१२ ॥
俱毗罗以至高的苦行从祖父梵天处所得之物,罗刹之主则以武力战胜俱毗罗,从而得到了它。
5.9.13
ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः।
सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥ ५.९.१३ ॥
饰有浮雕狼像,以黄金与金光所造,以精美的柱子装点,仿佛以自身的光彩熠熠生辉。
5.9.14
मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम्।
कूटागारैः शुभागारैः सर्वतः समलंकृतम् ॥ ५.९.१४ ॥
如同须弥山与曼陀罗山,仿佛擦着天空,四面以尖顶楼阁和吉祥殿堂装饰得十分华美。
5.9.15
ज्वलनार्कप्रतीकाशैः सुकृतं विश्वकर्मणा।
हेमसोपानयुक्तं च चारुप्रवरवेदिकम् ॥ ५.९.१५ ॥
光辉如熊熊烈火与太阳,由毗首羯摩精心所造,设有金阶与精美绝妙的平台。
5.9.16
जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि।
इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ॥ ५.९.१६ ॥
设有格窗,以黄金与水晶所造,并以因陀罗青与大青宝石所饰的卓越平台。
5.9.17
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः।
निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥ ५.९.१७ ॥
以斑斓珊瑚、珍贵宝石与无与伦比的珍珠装饰,地面光彩夺目。
5.9.18
चन्दनेन च रक्तेन तपनीयनिभेन च।
सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम् ॥ ५.९.१८ ॥
以红檀香与金色装饰,满溢上好芳香,宛如初升的朝阳。
5.9.19
कूटागारैर्वराकारैर्विविधैः समलंकृतम्।
विमानं पुष्पकं दिव्यमारुरोह महाकपिः।
तत्रस्थः सर्वतो गन्धं पानभक्ष्यान्नसम्भवम् ॥ ५.९.१९ ॥
装饰着各种精美形状的楼阁与亭台的神圣空中宫殿普什帕卡,伟大的猴子登上了它。站在那里,他从四面八方嗅到了饮品、美食和食物散发出的香气。
5.9.20
दिव्यं सम्मूर्च्छितं जिघ्रन् रूपवन्तमिवानिलम्।
स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम् ॥ ५.९.२० ॥
他嗅着那弥漫四方的神圣香气,仿佛化身为风。那香气环绕着这位大勇者,犹如优秀的亲属拥抱自己的亲人。
5.9.21
इत एहीत्युवाचेव तत्र यत्र स रावणः।
ततस्तां प्रस्थितः शालां ददर्श महतीं शिवाम् ॥ ५.९.२१ ॥
仿佛在说“到这里来”,那香气引导他来到罗波那所在之处。于是他朝那里前行,看见了一座宏大而吉祥的殿堂。
5.9.22
रावणस्य महाकान्तां कान्तामिव वरस्त्रियम्।
मणिसोपानविकृतां हेमजालविराजिताम् ॥ ५.९.२२ ॥
罗波那那极其美丽的殿堂,可爱如一位优秀的女子,以宝石台阶装饰,并以金色格栅而闪耀。
5.9.23
स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्।
मुक्तावज्रप्रवालैश्च रूप्यचामीकरैरपि ॥ ५.९.२३ ॥
其地面铺着水晶,象牙之间镶嵌着人物图饰;又以珍珠、金刚石、珊瑚以及白银与黄金装饰。
5.9.24
विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्।
समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः ॥ ५.९.२४ ॥
它以宝石柱装饰,并以众多精美的柱子华美地装点——整齐、笔直、极其高耸,四面皆妥善装饰。
5.9.25
स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थितामिव।
महत्या कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया ॥ ५.९.२५ ॥
高耸于柱子之上,仿佛有翅膀,仿佛正飞向天空,铺着一块绘有大地标记的巨大毯子。
5.9.26
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहशालिनीम्।
नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम् ॥ ५.९.२६ ॥
广阔如大地,拥有国土与房舍,回响着醉鸟的鸣叫,弥漫着天界的香气。
5.9.27
परर्घ्यास्तरणोपेतां रक्षोऽधिपनिषेविताम्।
धूम्रामगुरुधूपेन विमलां हंसपाण्डुराम् ॥ ५.९.२७ ॥
饰以极珍贵的帷幔,为罗刹之主所居,弥漫着沉香的烟雾,洁净如天鹅般洁白。
5.9.28
पत्रपुष्पोपहारेण कल्माषीमिव सुप्रभाम्।
मनसो मोदजननीं वर्णस्यापि प्रसाधिनीम् ॥ ५.९.२८ ॥
仿佛点缀着叶与花的供奉,光彩照人,令心欢喜,又为美貌增添装饰。
5.9.29
तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव।
इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः ॥ ५.९.२९ ॥
在那驱散忧愁、仿佛孕育吉祥的神圣之地,五根以五种殊胜的感官之境得到满足。
5.9.30
तर्पयामास मातेव तदा रावणपालिता।
स्वर्गोऽयं देवलोकोऽयमिन्द्रस्यापि पुरी भवेत्।
सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥ ५.९.३० ॥
那时,这个由罗波那守护的地方,如母亲般使他心满意足。"这是天界,这是诸神之界,这或许就是因陀罗的城市,或者这正是至高的成就"——摩茹提如此思忖。
5.9.31
प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान्।
धूर्तानिव महाधूर्तैर्देवनेन पराजितान् ॥ ५.९.३१ ॥
他仿佛陷入沉思,看见那里的金灯,像被大骗子在赌博中打败的骗子一样。
5.9.32
दीपानां च प्रकाशेन तेजसा रावणस्य च।
अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ ५.९.३२ ॥
他想,这里被灯光、罗波那的光辉和饰物的火焰照得通明闪耀。
5.9.33
ततोऽपश्यत् कुथासीनं नानावर्णाम्बरस्रजम्।
सहस्रं वरनारीणां नानावेषबिभूषितम् ॥ ५.९.३३ ॥
接着他看见一千位出众的女子坐在卧榻上,身着各色衣裳,戴着花环,装扮各异。
5.9.34
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशंगतम्।
क्रीडित्वोपरतं रात्रौ प्रसुप्तं बलवत् तदा ॥ ५.९.३४ ॥
午夜已过,她们被酒意和睡意征服,停止了夜间的嬉戏,沉沉睡去。
5.9.35
तत् प्रसुप्तं विरुरुचे निःशब्दान्तरभूषितम्।
निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥ ५.९.३५ ॥
那群熟睡的女子,像一片大莲花池,满是安静的天鹅与蜜蜂,间隔处点缀着寂静,光彩照人。
5.9.36
तासां संवृतदान्तानि मीलिताक्षीणि मारुतिः।
अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम् ॥ ५.९.३६ ॥
风之子(摩如蒂)看见那些美女的脸庞,牙齿紧闭,双眼合上,散发着莲花的芬芳。
5.9.37
प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये।
पुनः संवृतपत्राणि रात्राविव बभुस्तदा ॥ ५.९.३७ ॥
如同夜尽时绽开的莲花,夜里又合起花瓣,那时她们便是这般模样。
5.9.38
इमानि मुखपद्मानि नियतं मत्तषट्पदाः।
अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥ ५.९.३८ ॥
这些必定是莲花般的面容;如醉酒的蜜蜂一再追逐盛开的莲花,它们也一再地追逐这些。
5.9.39
मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥ ५.९.३९ ॥
他心想,就品质而言,她们确实与生于水中的莲花相等。
5.9.40
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता।
शरदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ ५.९.४० ॥
那厅堂因这些女子而生辉,恰如秋日澄澈的天空缀满星辰。
5.9.41
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः।
यथा ह्युडुपतिः श्रीमांस्ताराभिरिव संवृतः ॥ ५.९.४१ ॥
那罗刹之主被她们环绕,犹如光辉的月亮被星辰环绕,熠熠生辉。
5.9.42
याश्च्यवन्तेऽम्बरात् ताराः पुण्यशेषसमावृताः।
इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा ॥ ५.९.४२ ॥
那些从天上坠落、被功德余烬环绕的星辰——哈里当时想,这些都已聚集于此。
5.9.43
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्।
प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥ ५.९.४३ ॥
那里女子们的光彩、容颜与风韵,清晰地闪耀,如同明亮吉祥的大星辰。
5.9.44
व्यावृत्तकचपीनस्रक्प्रकीर्णवरभूषणाः।
पानव्यायामकालेषु निद्रोपहतचेतसः ॥ ५.९.४४ ॥
女子们发髻散乱,花环与华美饰物散落四处,饮酒与嬉戏之后,心神为睡意所困。
5.9.45
व्यावृत्ततिलकाः काश्चित् काश्चिदुदभ्रान्तनूपुराः।
पार्श्वे गलितहाराश्च काश्चित् परमयोषितः ॥ ५.९.४५ ॥
有人额上的吉祥痣已模糊,有人的脚铃松脱散落,有人身旁滑落着项链——那些上等女子。
5.9.46
मुक्ताहारवृताश्चान्याः काश्चित् प्रस्रस्तवाससः।
व्याविद्धरशनादामाः किशोर्य इव वाहिताः ॥ ५.९.४६ ॥
有人被珍珠项链所覆,有人衣裳滑落,有人腰带缠绕歪斜——宛如被冲走的少女。
5.9.47
अकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः।
गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥ ५.९.४७ ॥
有人耳上无耳环,有人花环断裂压碎——宛如大森林中被大象践踏的盛开藤蔓。
5.9.48
चन्द्रांशुकिरणाभाश्च हाराः कासांचिदुद्गताः।
हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥ ५.९.४८ ॥
有些女子的项链如月光般明亮,在胸前起伏,宛如沉睡的天鹅,闪闪发光。
5.9.49
अपरासां च वैदूर्याः कादम्बा इव पक्षिणः।
हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ ५.९.४९ ॥
其中一些人的吠琉璃如同迦檀婆鸟,另一些人的金线则如同遮克拉瓦卡鸟。
5.9.50
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः।
आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥ ५.९.५० ॥
那些女子如同装点着天鹅、迦罗达婆鸭与遮克拉瓦卡鸟的河流般闪耀;她们的臀部如同沙洲。
5.9.51
किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाः।
भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥ ५.९.५१ ॥
如同沉睡的河流,形如摇铃之网,有巨大的金莲,令人心醉,有名誉的岸边,她们闪耀着光辉。
5.9.52
मृदुष्वंगेषु कासांचित् कुचाग्रेषु च संस्थिताः।
बभूवुर्भूषणानीव शुभा भूषणराजयः ॥ ५.९.५२ ॥
有些女子柔软的肢体上、乳尖上所安放的美丽饰物行列,仿佛自身成了装饰。
5.9.53
अंशुकान्ताश्च कासांचिन्मुखमारुतकम्पिताः।
उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः ॥ ५.९.५३ ॥
有些女子的衣角被面颊的气息吹动,一次又一次地在她们的脸庞上方飘动。
5.9.54
ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः।
नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ ५.९.५४ ॥
如同被吹动的旗帜,这些妻子的服饰光彩迷人,色彩斑斓的金色织物,在她们面庞的根部闪耀。
5.9.55
ववल्गुश्चात्र कासांचित् कुण्डलानि शुभार्चिषाम्।
मुखमारुतसंकम्पैर्मन्दं मन्दं च योषिताम् ॥ ५.९.५५ ॥
其中一些女子的吉祥光彩耳环,随着她们口中气息的颤动,轻轻地摇晃。
5.9.56
शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः।
तासां वदननिःश्वासः सिषेवे रावणं तदा ॥ ५.९.५६ ॥
她们口中的气息,天然带着糖酒的香气,芬芳而令人愉悦,此时便侍奉起罗波那来。
5.9.57
रावणाननशंकाश्च काश्चिद् रावणयोषितः।
मुखानि च सपत्नीनामुपाजिघ्रन् पुनः पुनः ॥ ५.९.५७ ॥
罗波那的一些女子,误以为是罗波那的脸,便一次又一次地嗅闻众妻的脸。
5.9.58
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः।
अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥ ५.९.५८ ॥
那些心意极度系于罗波那、不能自主的优秀女子,此时只做众妻喜欢的事。
5.9.59
बाहूनुपनिधायान्याः पारिहार्यविभूषितान्।
अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥ ५.९.५९ ॥
其他女子把饰满首饰的手臂放好,身着美丽的衣裳,便躺在那里。
5.9.60
अन्या वक्षसि चान्यस्यास्तस्याः काचित् पुनर्भुजम्।
अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा कुचौ ॥ ५.९.६० ॥
有的倚在一人胸前,有的靠在她的臂上,有的枕在另一人的膝上,还有的伏在她的胸脯上。
5.9.61
ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः।
परस्परनिविष्टांग्यो मदस्नेहवशानुगाः ॥ ५.९.६१ ॥
她们彼此倚靠着大腿、身侧、腰与背,肢体相互交叠,沉醉于酒意与情爱之中。
5.9.62
अन्योन्यस्यांगसंस्पर्शात् प्रीयमाणाः सुमध्यमाः।
एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः ॥ ५.९.६२ ॥
因彼此身体相触而欢喜,那些细腰的女子个个手臂相扣,就在那里沉沉睡去。
5.9.63
अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा।
मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ ५.९.६३ ॥
那群女子如同一串花环,以彼此臂膀为线穿缀而成,闪耀如线上串起的花环,满是沉醉的蜜蜂。
5.9.64
लतानां माधवे मासि फुल्लानां वायुसेवनात्।
अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥ ५.९.६४ ॥
如同在春季的马达婆月里,因微风拂动而盛开的藤蔓,又如相互缠绕的花环,以及紧贴在一起的花簇。
5.9.65
प्रतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्।
आसीद् वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥ ५.९.६५ ॥
罗婆那的那片女子之林,美丽的肩膀彼此缠绕,蜜蜂层层密布,宛如被风吹动的森林。
5.9.66
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा।
विवेकः शक्य आधातुं भूषणांगाम्बरस्रजाम् ॥ ५.९.६६ ॥
虽然那些女子各自处于应在的位置,此时却难以分辨清楚饰物、肢体、衣裳与花环。
5.9.67
रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः।
ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तो निमिषा इव ॥ ५.९.६७ ॥
罗波那安卧享乐之时,那些光彩各异的女子,如燃烧的金灯,凝目不眨地注视着。
5.9.68
राजर्षिविप्रदैत्यानां गन्धर्वाणां च योषितः।
रक्षसां चाभवन् कन्यास्तस्य कामवशंगताः ॥ ५.९.६८ ॥
王仙、婆罗门、檀那婆与乾闼婆的女子,以及罗刹的少女,都已受他的欲望所支配。
5.9.69
युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः।
समदा मदनेनैव मोहिताः काश्चिदागताः ॥ ५.९.६९ ॥
这些女子都是欲求战斗的罗波那所掳掠的;其中有些人因酒醉与欲望而迷乱,是自己前来的。
5.9.70
न तत्र काश्चित् प्रमदाः प्रसह्य
वीर्योपपन्नेन गुणेन लब्धाः।
न चान्यकामापि न चान्यपूर्वा
विना वरार्हां जनकात्मजां तु ॥ ५.९.७० ॥
那里没有一个女子是凭暴力获得、或凭勇武与功德得来的;也没有一个女子心慕他人,或曾经属于他人——唯有值得最高敬重的遮那伽之女除外。
5.9.71
न चाकुलीना न च हीनरूपा
नादक्षिणा नानुपचारयुक्ता।
भार्याभवत् तस्य न हीनसत्त्वा
न चापि कान्तस्य न कामनीया ॥ ५.९.७१ ॥
她并非出身低微,也不乏美貌,不吝大方,不缺失应有的礼节;她成为了他的妻子,既非意志薄弱之人,也不是爱人不愿意娶的女子。
5.9.72
बभूव बुद्धिस्तु हरीश्वरस्य
यदीदृशी राघवधर्मपत्नी।
इमा महाराक्षसराजभार्याः
सुजातमस्येति हि साधुबुद्धेः ॥ ५.९.७२ ॥
于是猴王之主心中生起这样的念头:若此等女子是罗怙之后的法妻,而这些大罗刹王的妃妾也归他所有,那便是好的——正直之心如是思量。
5.9.73
पुनश्च सोऽचिन्तयदात्तरूपो
ध्रुवं विशिष्टा गुणतो हि सीता।
अथायमस्यां कृतवान् महात्मा
लंकेश्वरः कष्टमनार्यकर्म ॥ ५.९.७३ ॥
那位现出高贵形象者又想道:悉多在德行上确实卓越。而这位楞伽之主、伟大的心灵者竟对她做出了不义之事,实令人痛心。