Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.107

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.107.1

ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा।
सुमहद् द्वैरथं युद्धं सर्वलोकभयावहम् ॥ ६.१०७.१ ॥

于是,罗摩与罗波那之间爆发了一场巨大而极其残酷的单独决斗,令所有世界都为之恐惧。

6.107.2

ततो राक्षससैन्यं च हरीणां च महद्बलम्।
प्रगृहीतप्रहरणं निश्चेष्टं समवर्तत ॥ ६.१०७.२ ॥

于是罗刹大军与猴众的庞大力量各自举着兵器,纹丝不动地停在原地。

6.107.3

सम्प्रयुद्धौ तु तौ दृष्ट्वा बलवन्नरराक्षसौ।
व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥ ६.१०७.३ ॥

众人看到那两位勇猛的对战者——人与罗刹——心中纷乱,无不深感惊异。

6.107.4

नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः।
तस्थुः प्रेक्ष्य च संग्रामं नाभिजग्मुः परस्परम् ॥ ६.१०७.४ ॥

他们手持各种兵器,心中惊异,站着观看这场战斗,彼此都不敢上前。

6.107.5

रक्षसां रावणं चापि वानराणां च राघवम्।
पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥ ६.१०७.५ ॥

罗刹们注视着罗波那,猴众注视着罗怙后裔,睁大惊异的双眼,大军看去宛如一幅画。

6.107.6

तौ तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ।
कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत् ॥ ६.१०७.६ ॥

罗怙后裔与罗波那看见那里的种种凶兆,却意志坚定、怒气不减,仿佛无所畏惧地交战。

6.107.7

जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः।
धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ॥ ६.१०७.७ ॥

罗摩决意要获胜,罗波那决意要死去;于是二人在战斗中尽显自身全部的勇武。

6.107.8

ततः क्रोधाद् दशग्रीवः शरान् संधाय वीर्यवान्।
मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥ ६.१०७.८ ॥

于是十首罗波那愤怒之下,奋发神威,搭上箭矢,瞄准罗摩战车上竖立的旗帜射出。

6.107.9

ते शरास्तमनासाद्य पुरंदररथध्वजम्।
रथशक्तिं परामृश्य निपेतुर्धरणीतले ॥ ६.१०७.९ ॥

那些箭未能射中那面如因陀罗(补兰达罗)战车旗帜般的旗帜,只触及战车的威力,便坠落在地。

6.107.10

ततो रामोऽपि संक्रुद्धश्चापमाकृष्य वीर्यवान्।
कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ॥ ६.१०७.१० ॥

于是罗摩也大怒,奋力拉开弓,心中决意以牙还牙。

6.107.11

रावणध्वजमुद्दिश्य मुमोच निशितं शरम्।
महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ॥ ६.१०७.११ ॥

他瞄准罗波那的旗帜射出一支利箭,犹如一条无法忍受的巨蛇,以自身光芒熊熊燃烧。

6.107.12

रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम्।
जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः ॥ ६.१०७.१२ ॥

光辉的罗摩瞄准旗帜射出一箭;那箭穿透大地而去,斩断了十首罗波那的旗帜。

6.107.13

स निकृत्तोऽपतद् भूमौ रावणस्यन्दनध्वजः।
ध्वजस्योन्मथनं दृष्ट्वा रावणः स महाबलः ॥ ६.१०७.१३ ॥

罗波那战车的旗帜被斩断,落于地上;见旗帜倒下,大力的罗波那……

6.107.14

सम्प्रदीप्तोऽभवत् क्रोधादमर्षात् प्रदहन्निव।
स रोषवशमापन्नः शरवर्षं ववर्ष ह ॥ ६.१०७.१४ ॥

他因愤怒与不甘而燃烧起来,仿佛在焚烧一般,被怒火所支配,倾泻出一阵箭雨。

6.107.15

रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः।
ते दिव्या हरयस्तत्र नास्खलन्नापि बभ्रमुः ॥ ६.१०७.१५ ॥

罗波那以燃烧的箭射伤罗摩的马,然而那些神马既未跌跘,也未偏移。

6.107.16

बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः।
तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा ॥ ६.१०७.१६ ॥

它们心神安定,仿佛只是被莲茎击中。见那些马毫不慌乱,罗波那便……

6.107.17

भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह।
गदाश्च परिघांश्चैव चक्राणि मुसलानि च ॥ ६.१०७.१७ ॥

他再度极为愤怒,倾泻箭雨;又投掷棍棒、铁杵、轮盘与铁锤。

6.107.18

गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान्।
मायाविहितमेतत् तु शस्त्रवर्षमपातयत्।
सहस्रशस्तदा बाणानश्रान्तहृदयोद्यमः ॥ ६.१०७.१८ ॥

他又投出山峰、树木、长矛与斧钺;这由幻术所造的兵器之雨被他降下,他以不知疲倦的心与力,连发数以千计的箭矢。

6.107.19

तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम्।
तद् वर्षमभवद् युद्धे नैकशस्त्रमयं महत् ॥ ६.१०७.१९ ॥

在那场战斗中,这场骚乱而可怖、回响骇人的暴雨,变成了由多种兵器构成的巨大倾泻。

6.107.20

विमुच्य राघवरथं समन्ताद् वानरे बले।
सायकैरन्तरिक्षं च चकार सुनिरन्तरम् ॥ ६.१०७.२० ॥

他离开罗陀婆之车,从四面八方向猴军射出箭矢,将天空完全无间隙地填满。

6.107.21

मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना।
व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ॥ ६.१०७.२१ ॥

十首罗刹以无执之心放出箭矢;见他在战场上奋力努力、专注于此——

6.107.22

प्रहसन्निव काकुत्स्थः संदधे निशितान् शरान्।
स मुमोच ततो बाणान् शतशोऽथ सहस्रशः ॥ ६.१०७.२२ ॥

仿佛微笑着,迦仇持搭上锐利的箭;随后他射出成百上千的箭矢。

6.107.23

तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम्।
ताभ्यां नियुक्तेन तदा शरवर्षेण भास्वता ॥ ६.१०७.२३ ॥

罗波那见此,以自己的箭矢将天空无间隙地填满;于是,在二人发出的光耀箭雨之下——

6.107.24

शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम्।
नानिमित्तोऽभवद् बाणो नानिर्भेत्ता न निष्फलः ॥ ६.१०७.२४ ॥

于是另一片光耀的天空仿佛被箭矢所缚。没有一支箭是无的放矢,没有一支不穿透,也没有一支徒劳无功。

6.107.25

अन्योन्यमभिसंहत्य निपेतुर्धरणीतले।
तथा विसृजतोर्बाणान् रामरावणयोर्मृधे ॥ ६.१०७.२५ ॥

如此,在战斗中,罗摩与罗波那互相攻击、放箭,双双倒在地上。

6.107.26

प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्।
चक्रतुश्च शरैर्घोरैर्निरुच्छ्वासमिवाम्बरम् ॥ ६.१०७.२६ ॥

二人以左右手不停放箭,激烈交战,以可怕的箭矢使天空仿佛窒息。

6.107.27

रावणस्य हयान् रामो हयान् रामस्य रावणः।
जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ ॥ ६.१०७.२७ ॥

罗摩杀死罗波那的马,罗波那也杀死罗摩的马;二人以牙还牙,彼此相击。

6.107.28

एवं तु तौ सुसंक्रुद्धौ चक्रतुर्युद्धमुत्तमम्।
मुहूर्तमभवद् युद्धं तुमुलं रोमहर्षणम् ॥ ६.१०७.२८ ॥

二人怒极,展开了一场盛大的战斗;一时间,喧嚣而令人毛骨悚然的激战持续着。

6.107.29

तौ तथा युध्यमानौ तु समरे रामरावणौ।
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥ ६.१०७.२९ ॥

罗摩与罗波那如此交战之时,一切众生都怀着惊叹的心情注视着他们。

6.107.30

अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ।
परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥ ६.१०७.३० ॥

二人在战场上彼此折磨,满腔怒火,各自乘着上好的战车向对方冲去。

6.107.31

परस्परवधे युक्तौ घोररूपौ बभूवतुः।
मण्डलानि च वीथीश्च गतप्रत्यागतानि च ॥ ६.१०७.३१ ॥

两人互相搏杀,形貌变得可怖。他们做出环形回旋、路线和进退往复的运动。

6.107.32

दर्शयन्तौ बहुविधां सूतौ सारथ्यजां गतिम्।
अर्दयन् रावणं रामो राघवं चापि रावणः ॥ ६.१०७.३२ ॥

二人展示源于御车之术的种种运动,相互逼迫:罗摩逼迫罗波那,罗波那也逼迫罗怙之裔(罗摩)。

6.107.33

गतिवेगं समापन्नौ प्रवर्तननिवर्तने।
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ॥ ६.१०७.३३ ॥

两人的良车达到疾速,善于进退,发射箭网。

6.107.34

चेरतुः संयुगमहीं सासारौ जलदाविव।
दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे ॥ ६.१०७.३४ ॥

二人在战场上往来,如同两朵降雨的乌云。随后,二人在战中展示了种种运动,继续前进。

6.107.35

परस्परस्याभिमुखौ पुनरेव च तस्थतुः।
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ॥ ६.१०७.३५ ॥

二人再次相对而立:两车的车辕相对,马头相向。

6.107.36

पताकाश्च पताकाभिः समीयुः स्थितयोस्तदा।
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ॥ ६.१०७.३६ ॥

此时,二人所立的旗帜与旗帜相交。随后,罗摩向罗波那射出从弓中放出的锐利箭矢。

6.107.37

चतुर्भिश्चतुरो दीप्तान् हयान् प्रत्यपसर्पयत्।
स क्रोधवशमापन्नो हयानामपसर्पणे ॥ ६.१०७.३७ ॥

他以四支箭将四匹闪耀的马驱退。被愤怒支配的他,让马向后退去。

6.107.38

मुमोच निशितान् बाणान् राघवाय दशाननः।
सोऽतिविद्धो बलवता दशग्रीवेण राघवः ॥ ६.१०७.३८ ॥

罗波那向罗怙婆射出锐利的箭;罗怙婆(罗摩)被力大的十颈者重重射中。

6.107.39

जगाम न विकारं च न चापि व्यथितोऽभवत्।
चिक्षेप च पुनर्बाणान् वज्रसारसमस्वनान् ॥ ६.१०७.३९ ॥

罗摩既不动容,也不痛苦;他又射出声如金刚之力的箭。

6.107.40

सारथिं वज्रहस्तस्य समुद्दिश्य दशाननः।
मातलेस्तु महावेगाः शरीरे पतिताः शराः ॥ ६.१०७.४० ॥

罗波那瞄准手持金刚杵者(因陀罗)的御者;迅猛有力的箭落在摩多梨的身上。

6.107.41

न सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि।
तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः ॥ ६.१०७.४१ ॥

在战斗中,那些箭甚至没有使罗摩产生丝毫的迷惑或痛苦;但被那次攻击激怒的他,是为摩多梨而如此反应,而非为自己。

6.107.42

चकार शरजालेन राघवो विमुखं रिपुम्।
विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः ॥ ६.१०७.४२ ॥

罗怙婆以箭网使敌人转身退却——二十支、三十支、六十支,接着成百上千地射出。

6.107.43

मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः।
रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ॥ ६.१०७.४३ ॥

英雄罗怙王子(罗摩)将箭射向敌人的战车。随后,愤怒地站在战车上的罗刹王罗波那也射出了箭。

6.107.44

गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे।
तत् प्रवृत्तं पुनर्युद्धं तुमुलं रोमहर्षणम् ॥ ६.१०७.४४ ॥

他以如雨般的狼牙棒和铁杵,在战场上反击罗摩。那场战斗再度展开,喧嚣激烈,令人毛骨悚然。

6.107.45

गदानां मुसलानां च परिघाणां च निःस्वनैः।
शराणां पुङ्खवातैश्च क्षुभिताः सप्त सागराः ॥ ६.१०७.४५ ॥

狼牙棒、铁杵与铁棒的轰鸣,以及箭羽掀起的疾风,使七海翻腾不已。

6.107.46

क्षुब्धानां सागराणां च पातालतलवासिनः।
व्यथिता दानवाः सर्वे पन्नगाश्च सहस्रशः ॥ ६.१०७.४६ ॥

海洋翻腾,居于地下深处的一切檀那婆与成千上万的蛇都感到痛苦。

6.107.47

चकम्पे मेदिनी कृत्स्ना सशैलवनकानना।
भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ॥ ६.१०७.४७ ॥

整个大地连同山岳、林园与森林都在颤抖。太阳失去光辉,风也停止吹拂。

6.107.48

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः ॥ ६.१०७.४८ ॥

那时,诸天、乾闼婆、悉陀与大仙,连同紧那罗和大蛇,都陷入了忧虑。

6.107.49

स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः।
जयतां राघवः संख्ये रावणं राक्षसेश्वरम् ॥ ६.१०७.४९ ॥

愿牛与婆罗门安好,愿世界永远长存。愿罗怙之后(罗摩)在战斗中战胜罗刹之主罗波那。

6.107.50

एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा।
रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ॥ ६.१०७.५० ॥

众神与诸仙众如此默念,遂目睹罗摩与罗波那之间那极其可怖、令人毛发竖立的战斗。

6.107.51

गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम्।
गगनं गगनाकारं सागरः सागरोपमः ॥ ६.१०७.५१ ॥

乾闼婆与阿普萨拉斯的众群见此无与伦比的战斗,天空仿佛如天空,大海仿佛如大海。

6.107.52

रामरावणयोर्युद्धं रामरावणयोरिव।
एवं ब्रुवन्तो ददृशुस्तद् युद्धं रामरावणम् ॥ ६.१०७.५२ ॥

他们说:“罗摩与罗波那之战,仿佛就是罗摩与罗波那本身。”如此说着,他们看见了那场战斗,即罗摩与罗波那。

6.107.53

ततः क्रोधान्महाबाहू रघूणां कीर्तिवर्धनः।
संधाय धनुषा रामः शरमाशीविषोपमम् ॥ ६.१०७.५३ ॥

于是罗摩怒起,这位大臂者、罗怙家族荣誉的增益者,将一支如毒蛇般的箭搭上了弓弦。

6.107.54

रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम्।
तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ॥ ६.१०७.५४ ॥

他斩下了罗波那的头颅——那头颅以闪耀的耳环而显得华美。那头颅落在地上,当时三界都看见了。

6.107.55

तस्यैव सदृशं चान्यद् रावणस्योत्थितं शिरः।
तत् क्षिप्तं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥ ६.१०७.५५ ॥

罗波那又一颗与之相同的头颅升起,迅捷之手、迅捷行动的罗摩将它也斩落。

6.107.56

द्वितीयं रावणशिरश्छिन्नं संयति सायकैः।
छिन्नमात्रं च तच्छीर्षं पुनरेव प्रदृश्यते ॥ ६.१०७.५६ ॥

战斗中,罗波那的第二颗头也被箭矢斩断,然而刚一被斩断,那颗头又再次出现。

6.107.57

तदप्यशनिसंकाशैश्छिन्नं रामस्य सायकैः।
एवमेव शतं छिन्नं शिरसां तुल्यवर्चसाम् ॥ ६.१०७.५७ ॥

那颗头也被罗摩如雷霆般的箭矢斩断;如此,光辉相同的一百颗头被斩断。

6.107.58

न चैव रावणस्यान्तो दृश्यते जीवितक्षये।
ततः सर्वास्त्रविद् वीरः कौसल्यानन्दवर्धनः ॥ ६.१०७.५८ ॥

罗波那身上看不到生命终结的迹象。于是,精通一切兵器、增添憍萨罗之喜的英雄(罗摩),

6.107.59

मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः।
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ॥ ६.१०७.५९ ॥

手持众多箭矢的罗怙之裔(罗摩)思索道:那些杀死了摩里之人,那些与杜沙一同杀死了卡罗之人,

6.107.60

क्रौञ्चावटे विराधस्तु कबन्धो दण्डकावने।
यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः ॥ ६.१०७.६० ॥

克劳਼遮沃陀的毗罗陀,丹达迦森林的羯班陀——由他们,娑罗树与群山被摧折,婆林与大海被惊动,

6.107.61

त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम।
किं नु तत् कारणं येन रावणे मन्दतेजसः ॥ ६.१०७.६१ ॥

我这些在战场上都可靠的箭,究竟为何在罗波那面前失去了威力?

6.107.62

ववर्ष शरवर्षाणि राघवो रावणोरसि ॥ ६.१०७.६२ ॥

罗怙罗(罗摩)向罗波那的胸膛降下一阵箭雨。

6.107.63

रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः।
गदामुसलवर्षेण रामं प्रत्यर्दयद् रणे ॥ ६.१०७.६३ ॥

于是罗波那也愤怒了,站在战车上,这位罗刹之王在战场上以如雨的棍棒和铁杵攻击罗摩。

6.107.64

तत् प्रवृत्तं महद् युद्धं तुमुलं रोमहर्षणम्।
अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ॥ ६.१०७.६४ ॥

那场大战开始了,喧嚣而令人毛骨悚然——在天空,在大地,又在山巅。

6.107.65

देवदानवयक्षाणां पिशाचोरगरक्षसाम्।
पश्यतां तन्महद् युद्धं सर्वरात्रमवर्तत ॥ ६.१०७.६५ ॥

诸神、檀那婆、夜叉、毕舍遮、龙蛇与罗刹都在旁观望,那场大战持续了整整一夜。

6.107.66

नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम्।
रामरावणयोर्युद्धं विराममुपगच्छति ॥ ६.१०७.६६ ॥

无论夜晚或白昼,无论一须臾或一刹那,罗摩与罗波那之战都不曾停歇。

6.107.67

दशरथसुतराक्षसेन्द्रयोस्तयो-
र्जयमनवेक्ष्य रणे स राघवस्य।
सुरवररथसारथिर्महात्मा
रणरतराममुवाच वाक्यमाशु ॥ ६.१०७.६७ ॥

见达舍罗陀之子与罗刹王二人在战斗中都未获胜,诸神之首战车的御者这位大德迅速对专注作战的罗摩说了这些话。