Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.112

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.112.1

ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः।
जग्मुः स्वैः स्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥ ६.११२.१ ॥

ラーヴァナの死を目にした神々、ガンダルヴァ、ダーナヴァらは、それぞれの天車に乗り、吉祥な物語を語りながら去っていった。

6.112.2

रावणस्य वधं घोरं राघवस्य पराक्रमम्।
सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥ ६.११२.२ ॥

ラーヴァナの恐ろしい死、ラーガヴァ(ラーマ)の武勇、ヴァーナラたちの見事な戦い、そしてスグリーヴァの策謀。

6.112.3

अनुरागं च वीर्यं च मारुतेर्लक्ष्मणस्य च।
पतिव्रतात्वं सीताया हनूमति पराक्रमम् ॥ ६.११२.३ ॥

マールティ(ハヌマーン)の忠愛と勇気、ラクシュマナの勇気、シーターの夫への貞節、そしてハヌマーンの武勇。

6.112.4

कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम्।
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ॥ ६.११२.४ ॥

大いなる幸を得た者たちは喜び、来た道をそのまま、語らいながら去っていった。ラーガヴァは、インドラから賜った、火のように輝く神聖な戦車を見た。

6.112.5

अनुज्ञाप्य महाबाहुर्मातलिं प्रत्यपूजयत्।
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ॥ ६.११२.५ ॥

大いなる腕の者は暇を告げ、マータリを礼で報いた。ラーガヴァに送られ、インドラの御者マータリは(去った)。

6.112.6

दिव्यं तं रथमास्थाय दिवमेवोत्पपात ह।
तस्मिंस्तु दिवमारूढे सरथे रथिनां वरः ॥ ६.११२.६ ॥

その神聖な戦車に乗り、彼は天へと舞い上がった。戦車とともに天に昇ったとき、戦車の戦士の中で最も優れた者(ラーマ)は……

6.112.7

राघवः परमप्रीतः सुग्रीवं परिषस्वजे।
परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः ॥ ६.११२.७ ॥

ラーガヴァ(ラーマ)は大いに喜び、スグリーヴァを抱擁した。スグリーヴァを抱擁した後、ラクシュマナから敬礼を受けた。

6.112.8

पूज्यमानो हरिगणैराजगाम बलालयम्।
अथोवाच स काकुत्स्थः समीपपरिवर्तिनम् ॥ ६.११२.८ ॥

猿の群れに敬われて、彼は軍営へ赴いた。そこでカークトゥストゥハ(ラーマ)は傍らに立つ者に語った。

6.112.9

सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसम्।
विभीषणमिमं सौम्य लङ्कायामभिषेचय ॥ ६.११२.९ ॥

スミトラーの子ラクシュマナよ、勇気に満ち輝く威光を持つ者よ!善き者よ、このヴィビーシャナをランカで即位させよ。

6.112.10

अनुरक्तं च भक्तं च तथा पूर्वोपकारिणम्।
एष मे परमः कामो यदिमं रावणानुजम् ॥ ६.११२.१० ॥

この者は慕い従い、信仰あつく、以前にも助けてくれた。ラーヴァナの弟であるこの者が即位することこそ、私の最大の願いである。

6.112.11

लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम्।
एवमुक्तस्तु सौमित्री राघवेण महात्मना ॥ ६.११२.११ ॥

善き者よ、ランカでヴィビーシャナが即位するのを私は見たい。偉大なるラーガヴァにこう言われて、スミトラーの子は……

6.112.12

तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे।
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ॥ ६.११२.१२ ॥

「そうしよう」と言って大いに喜び、金の水瓶を手に取った。その水瓶を意のように速い猿の王たちの手に渡して……

6.112.13

व्यादिदेश महासत्त्वान् समुद्रसलिलं तदा।
अतिशीघ्रं ततो गत्वा वानरास्ते मनोजवाः ॥ ६.११२.१३ ॥

そこで彼は力強いヴァーナラたちに海の水を取ってくるよう命じた。思考のように素早いヴァーナラたちは、すぐに行って戻ってきた。

6.112.14

आगतास्तु जलं गृह्य समुद्राद् वानरोत्तमाः।
ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ॥ ६.११२.१४ ॥

海から水を汲んで、最良のヴァーナラたちが戻ってきた。そして一つの壺を取り、至高の座に据えた。

6.112.15

घटेन तेन सौमित्रिरभ्यषिञ्चद् विभीषणम्।
लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ॥ ६.११२.१५ ॥

そのヴァーナラの壺で、サウミトリ(ラクシュマナ)はラーマの命により、ラーンカーでラークシャサたちの中の王としてヴィビーシャナに灌頂を施した。

6.112.16

विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम्।
अभ्यषिञ्चस्तदा सर्वे राक्षसा वानरास्तथा ॥ ६.११२.१६ ॥

真言に定められた儀礼に従い、友人たちに囲まれたヴィビーシャナに、そのとき全てのラークシャサとヴァーナラが灌頂を施した。

6.112.17

प्रहर्षमतुलं गत्वा तुष्टुवू राममेव हि।
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ॥ ६.११२.१७ ॥

比べようのない喜びに満ちて、彼らはラーマだけを称えた。ヴィビーシャナの大臣たちや、彼に帰依するラークシャサたちも喜んだ。

6.112.18

दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम्।
राघवः परमां प्रीतिं जगाम सहलक्ष्मणः ॥ ६.११२.१८ ॥

ラーンカーでラークシャサの王ヴィビーシャナが灌頂されたのを見て、ラーガヴァ(ラーマ)はラクシュマナとともに最高の喜びを得た。

6.112.19

स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः।
सान्त्वयित्वा प्रकृतयस्ततो राममुपागमत् ॥ ६.११२.१९ ॥

ラーマが与えたその広大な王国を得たヴィビーシャナは、臣民を慰めた後、ラーマのもとへ来た。

6.112.20

दध्यक्षतान् मोदकांश्च लाजाः सुमनसस्तथा।
आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ॥ ६.११२.२० ॥

そして喜んだ町の住民である夜歩く者たちは、彼に凝乳、無傷の米、菓子、炒り麦、花を持ってきた。

6.112.21

स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत्।
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ॥ ६.११२.२१ ॥

その勇猛で打ち破りがたいヴィビーシャナは、それら吉祥の品々をすべて取り、ラーガヴァに捧げ、ラクシュマナにも与えた。

6.112.22

कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम्।
प्रतिजग्राह तत् सर्वं तस्यैव प्रतिकाम्यया ॥ ६.११२.२२ ॥

ヴィビーシャナの任務が成し遂げられ目的が果たされたのを見て、ラーマは彼に報いて敬意を表したい一心で、それらすべてを受け取った。

6.112.23

ततः शैलोपमं वीरं प्राञ्जलिं प्रणतं स्थितम्।
उवाचेदं वचो रामो हनूमन्तं प्लवङ्गमम् ॥ ६.११२.२३ ॥

そのとき、山のような勇士が合掌して恭しく立っているのを見て、ラーマは跳躍する者の中で最も優れたハヌマーンにこの言葉を告げた。

6.112.24

अनुज्ञाप्य महाराजमिमं सौम्य विभीषणम्।
प्रविश्य नगरीं लङ्कां कौशलं ब्रूहि मैथिलीम् ॥ ६.११२.२४ ॥

善き者よ、この偉大な王ヴィビーシャナの許しを得て、ラーンカー城に入り、マイティリー(シーター)に我らの無事を伝えよ。

6.112.25

वैदेह्यै मां च कुशलं सुग्रीवं च सलक्ष्मणम्।
आचक्ष्व वदतां श्रेष्ठ रावणं च हतं रणे ॥ ६.११२.२५ ॥

ヴァイデーヒーに私とラクシュマナとともにいるスグリーヴァの無事を伝えよ。話す者の中で最も優れた者よ、戦いでラーヴァナが殺されたことも伝えよ。

6.112.26

प्रियमेतदिहाख्याहि वैदेह्यास्त्वं हरीश्वर।
प्रतिगृह्य तु संदेशमुपावर्तितुमर्हसि ॥ ६.११२.२६ ॥

猿の王よ、この喜ばしい知らせをここでヴァイデーヒーに告げよ。彼女の伝言を受けてから戻るのがよい。