Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.115

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.115.1

तां तु पार्श्वे स्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम्।
हृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे ॥ ६.११५.१ ॥

罗摩看见站在身旁、谦卑的弥提罗公主,便开始说出藏在心中的感情。

6.115.2

एषासि निर्जिता भद्रे शत्रुं जित्वा रणाजिरे।
पौरुषाद् यदनुष्ठेयं मयैतदुपपादितम् ॥ ६.११५.२ ॥

善良的人啊,你已在战场上战胜敌人而被夺回。凭着男子汉的勇力应当完成之事,我已经完成了。

6.115.3

गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता।
अवमानश्च शत्रुश्च युगपन्निहतौ मया ॥ ६.११५.३ ॥

我的愤怒已经到头了,侮辱的污点也已彻底洗清。羞辱与敌人,都被我同时诛杀。

6.115.4

अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः।
अद्य तीर्णप्रतिज्ञोऽहं प्रभवाम्यद्य चात्मनः ॥ ६.११५.४ ॥

今天我的勇武显现了,今天我的辛劳有了成果。今天我完成了誓愿,今天我可以自主了。

6.115.5

या त्वं विरहिता नीता चलचित्तेन रक्षसा।
दैवसम्पादितो दोषो मानुषेण मया जितः ॥ ६.११५.५ ॥

你与我分离,被那心意游移的罗刹掳走;天命所造成的过失,已被我这凡人战胜。

6.115.6

सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति।
कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः ॥ ६.११५.६ ॥

对于心胸狭小、不能以自身光辉洗刷所受羞辱的人,即使有大的勇武又有什么用?

6.115.7

लङ्घनं च समुद्रस्य लङ्कायाश्चापि मर्दनम्।
सफलं तस्य च श्लाघ्यमद्य कर्म हनूमतः ॥ ६.११५.७ ॥

跨越大海、摧毁楞伽城——今日哈努曼的功绩已有成果,值得称赞。

6.115.8

युद्धे विक्रमतश्चैव हितं मन्त्रयतस्तथा।
सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥ ६.११५.८ ॥

苏格里婆及其军队在战场上展现勇武、献上有益的谋略,今日其辛劳已见成效。

6.115.9

विभीषणस्य च तथा सफलोऽद्य परिश्रमः।
विगुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ॥ ६.११५.९ ॥

维毗沙那的辛劳今日也有了成效:他舍弃了无德的兄长,主动来到我的面前。

6.115.10

इत्येवं वदतः श्रुत्वा सीता रामस्य तद् वचः।
मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥ ६.११५.१० ॥

悉多听了罗摩这番话,双眼如母鹿般睁大,泪水盈满。

6.115.11

पश्यतस्तां तु रामस्य समीपे हृदयप्रियाम्।
जनवादभयाद् राज्ञो बभूव हृदयं द्विधा ॥ ६.११५.११ ॥

虽然看见心爱的悉多就在罗摩身边,国王却因畏惧民间议论,心被撕成两半。

6.115.12

सीतामुत्पलपत्राक्षीं नीलकुञ्चितमूर्धजाम्।
अवदद् वै वरारोहां मध्ये वानररक्षसाम् ॥ ६.११५.१२ ॥

对那双眼如莲瓣、乌发卷曲、身姿姣好的悉多,他在猴族与罗刹之中说道。

6.115.13

यत् कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता।
तत् कृतं रावणं हत्वा मयेदं मानकांक्षिणा ॥ ६.११५.१३ ॥

人为洗去耻辱所应做的,我已杀死罗波那而完成,我这渴望荣誉的人。

6.115.14

निर्जिता जीवलोकस्य तपसा भावितात्मना।
अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ ६.११५.१४ ॥

如南方之域般难以攻克,被以苦行净化其心的圣人阿伽斯蒂亚所征服,他曾征服有生命的世界。

6.115.15

विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः।
सुतीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥ ६.११५.१५ ॥

愿你吉祥。你须知,这场战斗的辛劳已由朋友们的英勇而圆满完成,并非为了你而做的。

6.115.16

रक्षता तु मया वृत्तमपवादं च सर्वतः।
प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता ॥ ६.११५.१६ ॥

守护我那显赫家族的声誉,防备四面的非议,洗去其上的污点,我才这样做。

6.115.17

प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता।
दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढा ॥ ६.११५.१७ ॥

你站在我面前,你的品行已受怀疑;对我而言,你令人不悦而固执,如同病眼之人面前的灯火。

6.115.18

तद् गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे।
एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥ ६.११५.१८ ॥

因此,遮那伽之女啊,今日我允许你前往任何你想去的地方。善良的女子啊,往这十方任何一处去吧;我不再需要你。

6.115.19

कः पुमांस्तु कुले जातः स्त्रियं परगृहोषिताम्।
तेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा ॥ ६.११५.१९ ॥

哪个出身高贵的男子,会因贪图朋友的情面或一时心意,再度接纳一个住过别人家的女子?

6.115.20

रावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा।
कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत् ॥ ६.११५.२० ॥

你在罗婆那的怀抱中受尽折磨,被恶人以邪眼看过,我顾念自己伟大的家族,怎能再次接纳你?

6.115.21

यदर्थं निर्जिता मे त्वं सोऽयमासादितो मया।
नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामिति ॥ ६.११५.२१ ॥

我为夺回你而战,如今此事已经完成。我对你已无眷恋,你可以随意前往。

6.115.22

तदद्य व्याहृतं भद्रे मयैतत् कृतबुद्धिना।
लक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम् ॥ ६.११५.२२ ॥

吉祥的女子啊,我今日以坚定之心说出这些话。现在你可以随心所欲,将你的心意寄托于罗什曼那或婆罗多。

6.115.23

शत्रुघ्ने वाथ सुग्रीवे राक्षसे वा विभीषणे।
निवेशय मनः सीते यथा वा सुखमात्मना ॥ ६.११५.२३ ॥

悉多啊,无论是系心于设睹鲁孙、须羯哩婆,还是罗刹毗毗沙那,只要你觉得安乐,便将心意寄托于那里吧。

6.115.24

नहि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्।
मर्षयेत चिरं सीते स्वगृहे पर्यवस्थिताम् ॥ ६.११५.२४ ॥

悉多啊,罗婆那见你容貌如天人、美丽动人,住在他自己的宫中,是不会长久忍耐的。

6.115.25

ततः प्रियार्हश्रवणा तदप्रियं
प्रियादुपश्रुत्य चिरस्य मानिनी।
मुमोच बाष्पं रुदती तदा भृशं
गजेन्द्रहस्ताभिहतेव वल्लरी ॥ ६.११५.२५ ॥

于是,值得听闻悦耳之言的骄傲的悉多,在久别之后从她的爱人那里听到了这个不悦的消息,哭泣着落下了许多泪水,如同被大象的鼻子击打的藤蔓。