Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.117

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.117.1

ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः ।
दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥ ६.११७.१ ॥

此时罗摩听了这些话,心中黯然。这位法义之人沉思片刻,双眼被泪水模糊。

6.117.2

ततो वैश्रवणो राजा यमश्च पितृभिः सह ।
सहस्राक्षश्च देवेशो वरुणश्च जलेश्वरः ॥ ६.११७.२ ॥

于是财神毗沙门王、与祖先之灵同来的阎摩、千眼天帝因陀罗,以及水主伐楼那也来了。

6.117.3

षडर्धनयनः श्रीमान्महादेवो वृषध्वजः ।
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ ६.११७.३ ॥

荣耀的大天(湿婆)牛旗三目,众世界的创造者,通晓梵智者中最优秀的梵天。

6.117.4

एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।
आगम्य नगरीं लङ्काम् अभिजग्मुश्च राघवम् ॥ ६.११७.४ ॥

众神乘着如太阳般明亮的飞车一同来到楞伽城,走向罗怙后裔罗摩。

6.117.5

ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् ।
अब्रुवंस्त्रिदशश्रैष्ठाः प्राञ्जलिं राघवं स्थितम् ॥ ६.११७.५ ॥

众天神之首高举饰有珠宝的粗壮手臂,对合掌站立的罗怙后裔说道。

6.117.6

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानविदां विभुः ।
उपेक्षसे कथं सीताम् पतन्तीं हव्यवाहने ॥ ६.११७.६ ॥

众世界的创造者、智者中最优秀的全能之主啊!你为何无视悉多正坠入圣火之中?

6.117.7

कथं देवगणश्रेष्ठम् आत्मानं नावबुध्यसे ।
ऋतधामा वसुः पूर्वम् वसूनां त्वं प्रजापतिः ॥ ६.११७.७ ॥

众神之中的至尊啊,你为何不认识自己?你从前是名为里多陀摩的婆苏,是诸婆苏的主宰者。

6.117.8

त्रयाणां त्वं हि लोकानाम् आदिकर्ता स्वयंप्रभुः ।
रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ।
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ॥ ६.११७.८ ॥

你是三界的最初创造者,自在之主。在楼陀罗中你是第八位楼陀罗,在萨陀耶中你是第五位。双马童是你的耳朵,月与日是你的双眼。

6.117.9

अन्ते चादौ च लोकानाम् दृश्यसे त्वं परन्तप ।
उपेक्षसे च वैदेहीम् मानुषः प्राकृतो यथा ॥ ६.११७.९ ॥

哦,摧毁敌人者,在世界的开端与终末,唯有你显现。然而你却像凡夫俗子一样怠慢了毗提诃公主。

6.117.10

इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।
अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ॥ ६.११७.१० ॥

诸世界守护者如此说后,世界之主、罗怙族之子、众法者中最优秀的罗摩,对诸天中的至尊们说道。

6.117.11

आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।
योऽहं यस्य यतश्चाहम् भगवांस्तद् ब्रवीतु मे ॥ ६.११७.११ ॥

我自认为是凡人,十车王之子罗摩。愿世尊告诉我:我是谁,属于谁,从何而来。

6.117.12

अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ॥ ६.११७.१२ ॥

他说:罗摩,听我说。真正勇猛的你啊,这就是真理。

6.117.13

भवान् नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः।
एकशृङ्गो वराहस्त्वम् भूतभव्यसपत्नजित् ॥ ६.११७.१३ ॥

你是那罗延天,神明,尊贵的持轮之主;你也是独角野猪,是过去与未来众生之敌的征服者。

6.117.14

अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ।
लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ॥ ६.११७.१४ ॥

啰怙婆啊,你是不灭的梵,是真理;在始、中、终皆是你。你是诸世界的最高法;你是毗湿伐克犀那,四臂之主。

6.117.15

शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।
अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः ॥ ६.११७.१५ ॥

你是持沙尔迦弓者,诸根之主,原人,至上原人,无敌者,持剑的毗湿奴,克里希那,也是大力者。

6.117.16

सेनानीर्ग्रामणीश्च त्वम् बुद्धिः सत्त्वं क्षमा दमः ।
प्रभवश्चाप्ययश्च त्वम् उपेन्द्रो मधुसूदनः ॥ ६.११७.१६ ॥

你是军队统帅,也是村落之主;智慧、本质、忍耐与克制都是你。万物的生起与消融都是你;你是乌彭德罗与摩度苏陀那。

6.117.17

इन्द्रकर्मा महेन्द्रस्त्वम् पद्मनाभो रणान्तकृत् ।
शरण्यं शरणं च त्वाम् आहुर्दिव्या महर्षयः ॥ ६.११७.१७ ॥

你行因陀罗之业,是大因陀罗,脐生莲花者,结束战争者。神圣的大仙称你为应当皈依者,也是皈依本身。

6.117.18

सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः ।
त्वं त्रयाणां हि लोकानाम् आदिकर्ता स्वयम्प्रभुः ॥ ६.११७.१८ ॥

你是千角者,以吠陀为自性,百首者,仙人中的大公牛;唯独你是三界的最初创造者,自在的主宰。

6.117.19

सिद्धानामपि साध्यानाम् आश्रयश्चासि पूर्वजः ।
त्वं यज्ञस्त्वं वषट्कारः त्वमोङ्कारः परात्परः ॥ ६.११७.१९ ॥

你是悉陀与萨陀耶的依归,是他们的始祖。你是祭祀,你是唵声(vaṣaṭ),你是唵字,你超越至上者。

6.117.20

प्रभवं निधनं वा ते नो विदुः को भवानिति ।
दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ।
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥ ६.११७.२० ॥

他们不知你的起源与终结,便问:“你是谁?”你显现于一切众生之中,显现于婆罗门与牛之中,显现于一切方向、天空、山岳与森林之中。

6.117.21

सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् ।
त्वं धारयसि भूतानि पृथिवीं च सपर्वताम् ॥ ६.११७.२१ ॥

你有千足、有光荣、有百首、有千目,你承载一切众生与连同群山的大地。

6.117.22

अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ।
त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान् ॥ ६.११७.२२ ॥

在大地的尽头、水中,你显现为大蛇。啊,罗摩,你承载着三界,连同天神、乾闼婆与檀那婆。

6.117.23

अहं ते हृदयं राम जिह्वा देवी सरस्वती ।
देवा गात्रेषु रोमाणि ब्रह्मणा निर्मिताः प्रभो ॥ ६.११७.२३ ॥

啊,罗摩,我是你的心,女神萨罗室伐蒂是你的舌。啊,主上,诸天神是你肢体上的毛发,由梵天所造。

6.117.24

निमेषस्ते स्मृता रात्रिः उन्मेषस्ते भवेद्दिवा ।
संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥ ६.११७.२४ ॥

你闭目之时被称为夜,睁目之时成为白昼。你的仪轨成为了吠陀;离了你,便一无所有。

6.117.25

जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ।
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥ ६.११७.२५ ॥

整个世界是你的身体,大地表面是你的稳固。火是你的愤怒,月亮是你的恩惠;你带有室利跋差(Śrīvatsa)之相。

6.117.26

त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः ।
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा सुदारुणम् ॥ ६.११७.२६ ॥

往昔,你以自己的三步跨越了三界;狠狠地缚住了波利(Bali),使摩呵因陀罗成为君王。

6.117.27

यत् परं श्रूयते ज्योतिर्यत् परं श्रूयते तमः ।
यत् परं परतश्चैव परमात्मेति कथ्यसे ॥ ६.११७.२७ ॥

被称为至上光明者,被称为至上黑暗者,以及超越于超越之上者——你被称为至上的自我(Paramātman)。

6.117.28

परमाख्यं पर यच्च त्वमेव परिगीयसे ।
स्थित्युत्पत्ति विनाशानां त्वामाहुः परमां गतिं ॥ ६.११७.२८ ॥

被称为至上之名、本身即至上者——唯独你被赞颂。人们称你为存续、创生与毁灭的至高归宿。

6.117.29

सीता लक्ष्मीर्भवान् विष्णुः देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥ ६.११७.२९ ॥

悉多即吉祥天(Lakṣmī),而你是毗湿奴、天神克里希那、众生之主。为诛杀罗波那,你以人身降临于此。

6.117.30

तदिदं नः कृतं कार्यम् त्वया धर्मभृतां वर ।
निहतो रावणो राम प्रहृष्टो दिवमाक्रम ॥ ६.११७.३० ॥

法持者中最殊胜的罗摩啊!你为我们完成了此事。罗波那已被杀死;欢喜地升往天界吧。

6.117.31

अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः ।
अमोघं दर्शनं राम अमोघस्तव संस्तवः ॥ ६.११७.३१ ॥

罗摩啊,你的力量与勇武不会落空,你的威勇不会落空,你的容颜不会落空,你的赞颂也不会落空。

6.117.32

अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि ।
ये त्वां देवम् ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ॥ ६.११७.३२ ॥

世间那些虔诚奉你的人,必不会落空;那些确信你为神、为古老、为至上之人而虔诚归依的人,正是他们。

6.117.33

प्राप्नुवन्ति सदा कामान् इह लोके परत्र च ।
इममार्षं स्तवं नित्यम् इतिहासं पुरातनम् ।
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ ६.११७.३३ ॥

他们在此世与来世常得所愿。凡是恒常吟诵这首由仙人所作的古老史诗颂歌的人,永无败绩。