ヴァールミーキのラーマーヤナ · サルガ 6.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.58.1
ततः प्रहस्तं निर्यान्तं दृष्ट्वा रणकृतोद्यमम्।
उवाच सस्मितं रामो विभीषणमरिंदमः ॥ ६.५८.१ ॥
そのとき、戦いの準備をして出てくるプラハスタを見て、敵を滅ぼすラーマは微笑みながらヴィビーシャナに言った。
6.58.2
क एष सुमहाकायो बलेन महता वृतः।
आगच्छति महावेगः किंरूपबलपौरुषः ॥ ६.५८.२ ॥
巨大な体躯で大軍に囲まれ、非常な速さで来るこの者は誰か。その姿、力、武勇はどのようなものか。
6.58.3
आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम्।
राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ॥ ६.५८.३ ॥
大いなる腕の方よ、あの勇猛な夜の徘徊者について教えてください。ラーガヴァの言葉を聞いて、ヴィビーシャナは答えた。
6.58.4
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः।
लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः।
वीर्यवानस्त्रविच्छूरः सुप्रख्यातपराक्रमः ॥ ६.५८.४ ॥
この者は彼の将軍で、プラハスタという名の羅刹です。ランカーにいる羅刹王の軍の三分の一に囲まれています。勇猛で武器に通じ、勇敢で、その武勇は広く知られています。
6.58.5
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्।
गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥ ६.५८.५ ॥
そのとき、恐ろしい武勇を持つ恐ろしいプラハスタが、吠えながら、巨大な体で、羅刹たちに囲まれて出てきた。
6.58.6
ददर्श महती सेना वानराणां बलीयसाम्।
अभिसंजातघोषाणां प्रहस्तमभिगर्जताम् ॥ ६.५८.६ ॥
非常に強力なヴァーナラの大軍は、雄叫びを上げながら、吠えるプラハスタを見た。
6.58.7
खड्गशक्त्यृष्टिशूलाश्च बाणानि मुसलानि च।
गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ॥ ६.५८.७ ॥
剣、槍、短槍と三叉戟、矢と鉄杵、棍棒、鉄の棒、投槍、そして様々な種類の斧。
6.58.8
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम्।
प्रगृहीतान्यराजन्त वानरानभिधावताम् ॥ ६.५८.८ ॥
勝利を求める羅刹たちの見事な弓は高く掲げられて輝き、猿の群れへと突進していった。
6.58.9
जगृहुः पादपांश्चापि पुष्पितांस्तु गिरींस्तथा।
शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवंगमाः ॥ ६.५८.९ ॥
戦いを望む跳びはねる猿たちは、花咲く木々や山々、そして巨大で長い岩を掴み取った。
6.58.10
तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत्।
बहूनामश्मवृष्टिं च शरवर्षं च वर्षताम् ॥ ६.५८.१० ॥
互いに出会い、非常に大きな戦いが起こった。多くの者が石の雨と矢の雨を降らせていた。
6.58.11
बहवो राक्षसा युद्धे बहून् वानरपुङ्गवान्।
वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ ६.५८.११ ॥
戦いでは、多くの羅刹が多くの優れた猿将を倒し、多くの猿もまた多くの羅刹を倒した。
6.58.12
शूलैः प्रमथिताः केचित् केचित् तु परमायुधैः।
परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः ॥ ६.५८.१२ ॥
ある者は三叉戟に砕かれ、ある者は強力な武器に倒れた。ある者は鉄棒に打たれ、ある者は戦斧に断ち切られた。
6.58.13
निरुच्छ्वासाः पुनः केचित् पतिता जगतीतले।
विभिन्नहृदयाः केचिदिषुसंधानसाधिताः ॥ ६.५८.१३ ॥
ある者は息絶えて再び大地に倒れ、ある者は心臓を貫かれ、狙いを定めた矢によって倒された。
6.58.14
केचिद् द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि।
वानरा राक्षसैः शूरैः पार्श्वतश्च विदारिताः ॥ ६.५८.१४ ॥
ある者は剣で二つに斬られ、もがきながら地に倒れた。ヴァーナラとラークシャサは、勇猛なラークシャサに脇腹を引き裂かれた。
6.58.15
वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः।
पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ॥ ६.५८.१५ ॥
怒れるヴァーナラたちもまた四方から、木々や山の峰でラークシャサの群れを押し潰し、大地に叩きつけた。
6.58.16
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम्।
वमन् शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ॥ ६.५८.१६ ॥
雷鳴のような掌をもつ手と拳で激しく打たれ、彼らは口から血を吐いて倒れ、歯も目も砕け散った。
6.58.17
आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम्।
बभूव तुमुलः शब्दो हरीणां रक्षसामपि ॥ ६.५८.१७ ॥
苦悶の叫びと、獅子吼を上げる者たちの咆哮が響き渡った。ヴァーナラもラークシャサも、大きな騒音を立てた。
6.58.18
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः।
विवृत्तवदनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ ६.५८.१८ ॥
怒りに燃えるヴァーナラとラークシャサは英雄の道に従い、顔を歪め残忍になって、恐れを知らぬかのように行動した。
6.58.19
नरान्तकः कुम्भहनुर्महानादः समुन्नतः।
एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ॥ ६.५८.१९ ॥
ナラーンタカ、クンバハヌ、マハーナーダ、サムンナタ——いずれもプラハスタの大臣であり、森に住む猿たちを打ち倒した。
6.58.20
तेषां निपततां शीघ्रं निघ्नतां चापि वानरान्।
द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ॥ ६.५८.२० ॥
彼らが素早く襲いかかり猿たちを打っていたとき、ドゥヴィヴィダは山の峰でナラーンタカを打ち倒した。
6.58.21
दुर्मुखः पुनरुत्थाय कपिः सविपुलद्रुमम्।
राक्षसं क्षिप्रहस्तं तु समुन्नतमपोथयत् ॥ ६.५८.२१ ॥
ドゥルムカは再び立ち上がり、大きな木で素早い手をもつ背の高い羅刹サムンナタを押し潰した。
6.58.22
जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम्।
पातयामास तेजस्वी महानादस्य वक्षसि ॥ ६.५८.२२ ॥
気高く激しく怒ったジャーンバヴァーンは大きな岩を掴み、マハーナーダの胸めがけて落とした。
6.58.23
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान्।
वृक्षेण महता सद्यः प्राणान् संत्याजयद् रणे ॥ ६.५८.२३ ॥
そのとき勇猛なクンバハヌはターラーと対峙し、ターラーが大木で彼をたちどころに戦場で命を落とさせた。
6.58.24
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः।
चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ ६.५८.२४ ॥
その行為に耐えられなかったプラハスタは戦車に乗り、弓を手に取って、森に住む猿たちを恐ろしく殺戮した。
6.58.25
आवर्त इव संजज्ञे सेनयोरुभयोस्तदा।
क्षुभितस्याप्रमेयस्य सागरस्येव निःस्वनः ॥ ६.५८.२५ ॥
そのとき両軍のあいだに渦のような喧騒が湧き起こった。かき乱された無限の海の轟きのようであった。
6.58.26
महता हि शरौघेण राक्षसो रणदुर्मदः।
अर्दयामास संक्रुद्धो वानरान् परमाहवे ॥ ६.५८.२६ ॥
戦いの酔いに狂った羅刹は激怒し、あの最高の戦いで大量の矢の雨をもってヴァーナラたちを苦しめた。
6.58.27
वानराणां शरीरैस्तु राक्षसानां च मेदिनी।
बभूवातिचिता घोरैः पर्वतैरिव संवृता ॥ ६.५८.२७ ॥
ヴァーナラと羅刹の身体によって大地は、恐ろしい山々に覆われたかのように、くまなく埋め尽くされた。
6.58.28
सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते।
संछन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥ ६.५८.२८ ॥
血の流れに覆われたその大地は、春の月マーダヴァに咲き誇る波羅奢の花々に覆われたかのように輝いていた。
6.58.29
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम्।
शोणितौघमहातोयां यमसागरगामिनीम् ॥ ६.५८.२९ ॥
倒れた英雄たちの山を岸とし、折れた武器を大木とし、血の大流を水とする、ヤマの海へ流れゆく川であった。
6.58.30
यकृत् प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम्।
भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ॥ ६.५८.३० ॥
肝と脾が大きな泥となり、散らばった腸が藻となり、裂けた身体と頭が魚となり、四肢の断片が草の生えた岸となっていた。
6.58.31
गृध्रहंसवराकीर्णां कङ्कसारससेविताम्।
मेदःफेनसमाकीर्णामार्तस्तनितनिःस्वनाम् ॥ ६.५८.३१ ॥
禿鷹と優れた白鳥が群がり、鶴や鷺が訪れ、骨髄と脂の泡に覆われ、負傷者の呻き声が響く川。
6.58.32
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम्।
नदीमिव घनापाये हंससारससेविताम् ॥ ६.५८.३२ ॥
戦場でできたその川は、臆病者には渡りがたく、雨季が終わった後の川のように、白鳥と鶴が訪れる。
6.58.33
राक्षसाः कपिमुख्यास्ते तेरुस्तां दुस्तरां नदीम्।
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ॥ ६.५८.३३ ॥
羅刹と猿の主だった者たちは、その渡りがたい川を渡った。蓮の花粉に覆われた蓮池を象の群れの長が渡るように。
6.58.34
ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम्।
ददर्श तरसा नीलो विधमन्तं प्लवंगमान् ॥ ६.५८.३४ ॥
そのとき、ニーラはすばやく、戦車の上に立ち、矢の奔流を放ち、跳ね回る猿たちを散らしているプラハスタを見た。
6.58.35
उद्धूत इव वायुः खे महदभ्रबलं बलात्।
समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ॥ ६.५८.३५ ॥
空に起こる風が大きな雲の群れを激しく吹き散らすように、軍の将プラハスタは、戦場で那羅が突進してくるのを見て、
6.58.36
रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे।
स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ॥ ६.५८.३६ ॥
太陽の色をした戦車で、彼はまっすぐニーラへ突進した。弓の使い手の中で最も優れた彼は、大戦で弓を引き絞って。
6.58.37
नीलाय व्यसृजद् बाणान् प्रहस्तो वाहिनीपतिः।
ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ॥ ६.५८.३७ ॥
軍の将プラハスタはニーラに矢を放った。矢はニーラに届き、彼を貫いて、なおも的に集中して飛んだ。
6.58.38
महीं जग्मुर्महावेगा रोषिता इव पन्नगाः।
नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ॥ ६.५८.३८ ॥
その速い矢は、怒った蛇のように地に落ちた。ニーラは火のように鋭い矢に射抜かれた。
6.58.39
स तं परमदुर्धर्षमापतन्तं महाकपिः।
प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ ६.५८.३९ ॥
その大猿は勇猛にも木を引き抜き、襲いかかってくる、まことに手ごわいプラハスタを打ち据えた。
6.58.40
स तेनाभिहतः क्रुद्धो नर्दन् राक्षसपुंगवः।
ववर्ष शरवर्षाणि प्लवंगानां चमूपतौ ॥ ६.५८.४० ॥
それに打たれた怒れる羅刹の最勝者は吠え猛り、猿の将に矢の雨を降らせた。
6.58.41
तस्य बाणगणानेव राक्षसस्य दुरात्मनः।
अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः।
यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ॥ ६.५८.४१ ॥
その邪悪な羅刹の矢の群れを防ぎきれず、ニーラは目を閉じてそれを受けた。ちょうど牛が、急に訪れた秋の雨に耐えるように。
6.58.42
एवमेव प्रहस्तस्य शरवर्षान् दुरासदान्।
निमीलिताक्षः सहसा नीलः सेहे दुरासदान् ॥ ६.५८.४२ ॥
まさにそのように、ニーラは目を閉じて、プラハスタの耐えがたい矢の雨を突然耐え忍んだ。
6.58.43
रोषितः शरवर्षेण सालेन महता महान्।
प्रजघान हयान् नीलः प्रहस्तस्य महाबलः ॥ ६.५८.४३ ॥
矢の雨に怒った大力のニーラは、大きなサーラの木で プラハスタの馬を打ち倒した。
6.58.44
ततो रोषपरीतात्मा धनुस्तस्य दुरात्मनः।
बभञ्ज तरसा नीलो ननाद च पुनः पुनः ॥ ६.५८.४४ ॥
そのとき怒りに満ちたニーラは、あの邪悪な者の弓を力任せに折り、幾度も雄叫びをあげた。
6.58.45
विधनुः स कृतस्तेन प्रहस्तो वाहिनीपतिः।
प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥ ६.५८.४५ ॥
彼によって弓を失った軍の総帥プラハスタは、恐ろしい鉄杵を取り、戦車から飛び降りた。
6.58.46
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ।
स्थितौ क्षतजसिक्ताङ्गौ प्रभिन्नाविव कुञ्जरौ ॥ ६.५८.४६ ॥
互いに敵意を燃やした二人の将は、俊敏で力強く、血に濡れた体で立ち、発情した象のようであった。
6.58.47
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम्।
सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥ ६.५८.४७ ॥
互いに鋭い牙で引き裂き合い、二人は獅子と虎のようで、獅子や虎のような動きをしていた。
6.58.48
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ।
काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोरिव ॥ ६.५८.४८ ॥
武勇によって勝利を求め、戦いで決して退かず、名声を得ようと望む二人の英雄は、ヴリトラとヴァーサヴァ(インドラ)のようであった。
6.58.49
आजघान तदा नीलं ललाटे मुसलेन सः।
प्रहस्तः परमायत्तस्ततः सुस्राव शोणितम् ॥ ६.५८.४९ ॥
そのときプラハスタは全力を込めて、棍棒でニーラの額を打った。すると血が流れ出した。
6.58.50
ततः शोणितदिग्धाङ्गः प्रगृह्य च महातरुम्।
प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ॥ ६.५८.५० ॥
そのとき血にまみれた体の大猿は怒り、大木をつかみ、プラハスタの胸めがけて投げつけた。
6.58.51
तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत्।
अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ॥ ६.५८.५१ ॥
彼は大きな棍棒を取り、思いもよらぬ一撃をもって、力強い猿ニーラに激しく襲いかかった。
6.58.52
तमुग्रवेगं संरब्धमापतन्तं महाकपिः।
ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥ ६.५८.५२ ॥
恐ろしい速さと怒りで迫ってくる彼を見て、俊足の大猿は巨大な岩をつかんだ。
6.58.53
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः।
प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ॥ ६.५८.५३ ॥
戦いを望み、戦場で棍棒を振るうプラハスタの頭上に、ニーラはすぐさまその岩を落とした。
6.58.54
नीलेन कपिमुख्येन विमुक्ता महती शिला।
बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ ६.५८.५४ ॥
猿の中の第一人者ニーラが投げた、その巨大で恐ろしい岩は、そのときプラハスタの頭を粉々に砕いた。
6.58.55
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ ६.५८.५५ ॥
息絶え、輝きも活力も感覚も失い、彼は突然地に倒れた。根を断たれた木のように。
6.58.56
विभिन्नशिरसस्तस्य बहु सुस्राव शोणितम्।
शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥ ६.५८.५६ ॥
砕けた頭から多くの血が流れ、体からも流れた。山から泉が湧き出るように。
6.58.57
हते प्रहस्ते नीलेन तदकम्प्यं महाबलम्।
राक्षसानामहृष्टानां लङ्कामभिजगाम ह ॥ ६.५८.५७ ॥
プラハスタがニーラに殺されると、あの不動の大力のラークシャサ軍は喜びもなくラン カーへ向かった。
6.58.58
न शेकुः समवस्थातुं निहते वाहिनीपतौ।
सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा ॥ ६.५८.५८ ॥
軍の将が殺されると、彼らは踏みとどまれず、堰に達した水が散るように散り散りになった。
6.58.59
हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः।
रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः ॥ ६.५८.५९ ॥
その軍の将が殺されると、ラークシャサたちは意気を失い、羅刹王の館へ行き、思いに沈んで黙り込んだ。
6.58.60
प्राप्ताः शोकार्णवं तीव्रं विसंज्ञा इव तेऽभवन् ॥ ६.५८.६० ॥
激しい悲しみの海に至り、彼らはまるで意識を失ったかのようになった。
6.58.61
ततस्तु नीलो विजयी महाबलः
प्रशस्यमानः सुकृतेन कर्मणा।
समेत्य रामेण सलक्ष्मणेन
प्रहृष्टरूपस्तु बभूव यूथपः ॥ ६.५८.६१ ॥
そこで勝利者で大力のニーラは、その善行を称えられ、ラクシュマナとともにいるラーマに会い、喜びの面持ちで群れの長となった。